________________
• जलगामिनी लब्धिः •
१८०९
जलादिना असङ्गता
अप्रतिरुद्धता (=अबाद्यसङ्गता ) । जितोदानो हि योगी "जले महानद्यादौ महति वा कर्दमे तीक्ष्णेषु वा कण्टकेषु न सजति, किं तु लघुत्वात्तूलपिण्डवज्जलादावनिमज्जन्नुपर १तेन गच्छतीत्यर्थः। तदुक्तं- “२ उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च”(यो.सू.३-३९) । श्रोत्रं शब्दग्राहकमाहङ्कारिकमिन्द्रियं व्योम शब्दतन्मात्रजमाकाशं, तयोः (= श्रोत्रव्योम्नोः) पुनः सम्बन्धसंयमाद् देश-देशिभावसम्बन्धसंयमाद् दिव्यं युगपत्सूक्ष्म-व्यवहितविप्रकृष्टशब्दग्रहणसमर्थं श्रोत्रं भवति ।
=
=
=
=
उन्नयनाद् ऊर्ध्वं नयनात् रसादीनामुदानः, आनासिकाऽग्राद् आ च शिरसो वृत्तिरस्य ← (त. वै. ३/३९) इत्याह । योगवार्तिककृन्मते तूदानस्य मुखनासिकादिकमारभ्य ब्रह्मरन्ध्रपर्यन्तं वृत्तिः ।
=
उदानजयसिद्धौ योगसूत्रसंवादमाह - ' उदाने 'ति । अत्र राजमार्तण्डवृत्तिः → समस्तानामिन्द्रियाणां तुषज्वालावद् या युगपदुत्थिता वृत्तिः सा जीवनशब्दवाच्या । तस्याः क्रियाभेदात् प्राणापानादिसंज्ञाभिर्व्यपदेशः। तत्र हृदयान्मुखनासिकाद्वारेण वायोः प्रणयनात् प्राण इत्युच्यते । नाभिदेशात् पादाङ्गुष्ठपर्यन्तमपनयनादपानः । नाभिदेशं परिवेष्ट्य समन्तान्नयनात्समानः । कृकाटिकादेशादाशिरोवृत्तेः उन्नयनाद् उदानः । व्याप्य नयनात् सर्वशरीरव्यापी व्यानः । तत्रोदानस्य संयमद्वारेण जयाद् इतरेषां वायूनां निरोधात् ऊर्ध्वगतित्वेन जले महानद्यादौ महति वा कर्दमे तीक्ष्णेषु कण्टकेषु वा न सज्जते, अतिलघुत्वात् तूलपिण्डवत्, जलादौ मज्जितोऽप्युद्गच्छतीत्यर्थः ← (रा.मा.३/३९) इत्येवमवसेया । सिद्ध्यन्तरमावेदयितुमुपक्रमते - श्रोत्रमिति । श्रोत्रं शब्दग्राहकं शब्द- शब्दत्व-तदभाव-तारत्व-मन्दत्वादिशब्दगुणधर्मपरिच्छेदकं आहङ्कारिकं अहङ्कारजन्यं कर्णशष्कुल्यवच्छिन्नगगनाऽऽधारकं इन्द्रियं = ज्ञानेन्द्रियम् । शब्दतन्मात्रजं = शब्दगुणतन्मात्रादुत्पन्नं श्रोत्राऽधिष्ठानं शब्दगुणकं आकाशम् । तयोः श्रोत्राकाशयोः देश-देशिभावसम्बन्धसंयमात् = अधिष्ठानाऽधिष्ठेयभावसम्बन्धे संयमात् तद्गताऽशेषविशेषसाक्षात्कारपर्यन्ताद् युगपत् सूक्ष्म-व्यवहित- विप्रकृष्टशब्दग्रहणसमर्थं श्रोत्रं भवति । ઊર્ધ્વગતિ સિદ્ધ થાય છે. તેના કારણે પાણી વગેરેથી યોગી અસંગ બની જાય છે. જેમ કમળ પાણીથી લેપાતું નથી તેમ યોગી પાણીથી લેપાતા નથી. તેથી ઉદાન વાયુને જિતનારા યોગી પાણીમાં, મહાનદીમાં, મોટા કાદવમાં તીક્ષ્ણ કાંટા વગેરેમાં ચોંટી જતા નથી, ફસાતા નથી. પરંતુ રૂના પિંડની જેમ અત્યંત હળવાફૂલ થવાના લીધે પાણીમાં ડૂબ્યા વિના પાણીની ઉપર જ ઉદાનસંયમના લીધે ચાલે છે. તેથી યોગસૂત્રમાં જણાવેલ છે કે → ‘ઉદાન વાયુના જયથી પાણી, કાદવ, કાંટા વગેરેમાં યોગી અસંગઅલિપ્ત રહે છે અને તેના ઉપર ચાલે છે.' -
=
=
=
....
તો ાન પણ દિવ્ય બને જ
श्रोत्रं । पातं४स हर्शनमां अन अहंडारतत्त्व४न्य शब्दग्रह हन्द्रिय छे तथा शब्धतन्मात्रमांथी આકાશ ઉત્પન્ન થાય છે. આકાશ દેશ છે તથા કાન દેશી દેશવર્તી છે. તેથી આકાશ અને કાન વચ્ચે દેશ-દેશીભાવ સંબંધ છે. આ સંબંધને વિશે સંયમ કરવાથી યોગીના કાન દિવ્ય બને છે. દિવ્ય કાન એકીસાથે સૂક્ષ્મશબ્દ, દીવાલ વગેરેથી વ્યવહિત શબ્દ તથા દૂરવર્તી શબ્દને પકડવા માટે સમર્થ १. हस्तादर्शे 'तन' इत्यशुद्धः पाठः । २ हस्तादर्शे 'तुदान' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'शब्दग्राहेक ' इत्यशुद्धः पाठः । ४. हस्तादर्शे 'युपगप...' इत्यशुद्धः पाठः । ... चिह्नद्वयमध्यवर्ती अग्रेतनपृष्ठव्यापी दीर्घः पाठो हस्तादर्शविशेषे नास्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
-