________________
द्वात्रिंशिका - २६/११
१८०४
• साश्रवानाश्रवसिद्धिप्ररूपणम्
यत उक्तं- “ते समाधावुपसर्गा व्युत्थाने सिद्धयः " ( यो. सू. ३ - ३७ ) ।। ११ ।।
गीतायां
योगाभ्यासरतो विद्वान् वैराग्येण च संयुतः । न बिभेति कदाऽप्यस्मात् संसाराद् दुस्तरादपि ।। ← (रा.गी. ३/४९) इति । प्रकृते रसौषधि-क्रियाजाल - मन्त्राऽभ्यासादिसाधनात् । सिध्यन्ति सिद्धयो यास्तु कल्पितास्ताः प्रकीर्तिताः ।। ← (यो. शि. १ / १५२ ) इति योगशिखोपनिषद्वचनमपि स्मर्तव्यम् । → सिद्धौ चित्तं न कुर्वीत चञ्चलत्वेन चेतसः ← (यो.शि. ५ / ६२ ) इति योगशिखोपनिषद्वचनं न विस्मर्तव्यम् । अवधेयञ्च द्रव्य-मन्त्र- क्रिया- कालयुक्तयः साधुसिद्धिदाः । परमात्मपदप्राप्तौ नोपकुर्वन्ति काश्चन ।। सर्वेच्छाजालसंशान्तावात्मलाभो भवेद् मुने ! । स कथं सिद्धिजालानि नूनं वाञ्छत्यचित्तकः ?।। ← ( अन्न. ४ / ६,८) इति अन्नपूर्णोपनिषद्वचनम् । तदुक्तं वराहोपनिषदि अपि → अनात्मविदमुक्तोऽपि सिद्धिजालानि वाञ्छति । द्रव्य -मन्त्र-क्रिया - कालयुक्त्याऽऽप्नोति मुनीश्वर ! || सर्वेच्छाकलनाशान्तावात्मलाभोदयाभिधः । स पुनः सिद्धिवाञ्छायां कथमर्हत्यचित्ततः ।। ← ( वरा.३/२६२९) इति । अयञ्च योगी वामदेवमार्गाऽनुयायितया दीर्घकालेनाऽपवर्गमवाप्नोति । तदुक्तं वराहोपनिषदि एव
यमाद्यासनजाऽऽयास-हठाभ्यासात् पुनः पुनः । विघ्नबाहुल्यसञ्जातः अणिमादिवशादिह ।। अलब्ध्वाऽपि फलं सम्यक् पुनर्भूत्वा महाकुले । पुनर्वासनयैवाऽयं योगाऽभ्यासं पुनश्चरन् अनेकजन्माऽभ्यासेन वामदेवेन वै पथा । सोऽपि मुक्तिं समाप्नोति तद्विष्णोः परमं पदम् । ← (वरा.४/३९-४१) इति । अणिमादिसिद्धावनासक्तास्तु योगिनो लब्ध्वाऽपि ताः भीम-भासदृढन्यायेनाऽचिरेणापवर्गमवाप्नुवन्ति । भीम -भास - दृढाख्याः त्रयोऽसुराः शम्बरेण स्वमायया निर्मिताः ते च तलप्रहारादिना मेर्वादिचूर्णीकरणे शक्ता ज्ञानप्रभावात् तत्राऽनासक्ताः चिरं जीवन्मुक्तिसुखमनुभूय निर्वाणपदं प्राप्ता इति योगवाशिष्ठे प्रसिद्धमिति प्रागपि (पृ.४३०) दर्शितम् । प्रकृते दाम व्याल - कटन्यायो न तव स्यात् कदाचन् । भीमभास- दृढन्यायः सर्वदा तेऽस्तु राघव ! ।। योगवाशिष्ठकारिका स्मर्तव्या । प्रकृते योगसूत्रसंवादमाह - 'त' इति । ते प्रातिभादयः समाहितचित्तस्योत्पद्यमाना उपसर्गाः तद्दर्शनप्रत्यनीकत्वात् । व्युत्थितचित्तस्योत्पद्यमानाः सिद्धयः ← (यो.सू.भा.३/ ३७) इति योगसूत्रभाष्ये व्यासः । ध्यानाद्वैश्वर्यमतुलमैश्वर्यात्सुखमुत्तमम् । ज्ञानेन तत्परित्यज्य विदेहो मुक्तिमाप्नुयात् ।। ← (शि. धर्मो . ) इति शिवधर्मोत्तरवचनमप्यत्र यथागममनुयोज्यम् ।
←
(यो. वा. २५ / ३४) इति
बौद्धमते त्वणिमादयः सिद्धयः साश्रवाः सोपधिका अनार्याश्च । निराश्रवा निरुपधिका आर्याश्च ऋद्धयः प्रतिकूलादावप्यनुकूलत्वादिप्रतिसन्धानेन विहरणादयः । इदमेवाऽभिप्रेत्य सूत्रपिटकान्तर्गते दीघनिकाये पाथिकवर्गे सम्प्रसादनीयसूत्रे एकच्चो समणो वा ब्राह्मणो वा आतप्पमन्वाय... पे०.. तथारूपं चेतोसमाधिं फुसति, यथासमाहिते चित्ते अनेकविहितं इद्धिविधं पच्चनुभोति । एकोपि हुत्वा बहुधा होति, बहुधापि हुत्वा एको होति; आविभावं तिरोभावं तिरोकुट्टं तिरोपाकारं तिरोपब्बतं असज्जमानो गच्छति सेय्यथावि आकासे । पथवियापि उम्मुज्ज - निमुज्जं करोति, सेय्यथापि उदके । उदकेपि अभिज्जमाने गच्छति, सेय्यथापि पथवियं । आकासेपि पल्लङ्केन कमति, सेय्यथापि पक्खी सकुणो । इमेपि તેથી યોગસૂત્રમાં જણાવેલ છે કે → તે દિવ્ય જ્ઞાનો સમાધિમાં ઉપસર્ગ છે. વ્યુત્થાન દશામાં ते सिद्धि हेवाय छे.' ← (२६ / ११ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org