________________
• प्रातिभज्ञानमीमांसा •
१७९९ तथा हृदये शरीरप्रदेशविशेषेऽधोमुखस्वल्पपुण्डरीकाऽऽकारे (संयमतः) संयमात् चेतसः संवित् स्वपरचित्तगतवासना-रागादिज्ञानं भवति । तदुक्तं- “हृदये चित्तसंवित्" (यो.सू.३-३४)।
'प्रतिभा = ऊहः, तद्भवं = प्रातिभम् । प्रसङ्ख्यानहेतुसंयमवतो हि तत्प्रकर्षे प्रसङ्ख्यानोदयपूर्वलिङ्गं यदूहजं तेन सर्वं विजानाति योगी । तच्च प्रसङ्ख्यानसंनिधानेन संसारात् तारयतीति तारकम्' (त.वै.३/३३) इति तत्त्ववैशारद्यां वाचस्पतिमिश्रः । 'प्रातिभं = स्वप्रतिभोत्थमनौपदेशिकं ज्ञानं संसारतरणोपायत्वात् तारकं' (यो.वा.३/३३) इति योगवार्तिके विज्ञानभिक्षुः ।
मतद्वयमिदं मणिप्रभायां → विवेकख्यातिः हि प्रसङ्ख्यानं = संसारतारकम् । तदर्थं संयमे क्रियमाणे प्रसङ्ख्यानोपसूचकं प्रतिभया ऊहमात्रेण जातं = प्रातिभं ज्ञानं भवति । तेन वा योगी सर्वं जानाति । यथा सूर्योदयसूचकाऽरुणप्रभया लोकः पश्यति तद्वत् । राजवार्तिके तु 'सर्वनिमित्ताऽनपेक्षमनोमात्रजन्यं यथार्थं झटित्युत्पद्यमानं ज्ञानं = प्रतिभा । तस्याः संयमात् प्रातिभं विवेकख्यातेः पूर्वभावि तारकमुदेति । तेन सर्वं योगी जानातीति व्याख्यातम् + (म.प्र.३/३३) इत्थमाविष्कृतम् ।।
संयमस्य क्षुद्रसिद्धय उक्ताः । इदानीमात्मसाक्षात्काररूपां संयमस्य मुख्यसिद्धिं वक्तुमादौ तत्संयमहेतोः चित्तसाक्षात्कारस्य कारणं संयममाह- 'तथेति । स्व-परचित्तसंवित्सिद्धौ योगसूत्रसंवादमाह- 'हृदये' इति । अत्र राजमार्तण्डवृत्तिः → हृदयं = शरीरस्य प्रदेशविशेषः, तस्मिन् अधोमुखस्वल्पपुण्डरीकाऽभ्यन्तरेऽन्तःकरणसत्त्वस्य स्थानं, तत्र कृतसंयमस्य स्व-परचित्तज्ञानमुत्पद्यते । स्वचित्तगताः सर्वा वासनाः परचित्तगतांश्च रागादीन् जानातीत्यर्थः - (रा.मा.३/३४) इत्येवं वर्तते । यदपि शाण्डिल्योपनिषदि → नासाग्रे चित्तसंयमादिन्द्रलोकज्ञानम् । तदधश्चित्तसंयमादग्निलोकज्ञानम् । चक्षुषि चित्तसंयमात्सर्वलोकज्ञानम् । श्रोत्रे चित्तस्य संयमाद्यमलोकज्ञानम् । तत्पाघे संयमान्निर्ऋतिलोकज्ञानम् । पृष्ठभागे संयमाद्वरुणलोकज्ञानम् । वामकर्णे संयमाद्वायुलोकज्ञानम् । कण्ठे संयमात्सोमलोकज्ञानम् । पादाधोभागे संयमादतललोकज्ञानम् । पादे संयमाद्वितललोकज्ञानम् । पादसन्धौ संयमान्नितललोकज्ञानम् । जङ्घ संयमात्सुतललोकज्ञानम् । जानौ संयमान्महातललोकज्ञानम् । ऊरौ चित्तसंयमाद्रसातललोकज्ञानम् । कटौ चित्तसंयमात्तलातललोकज्ञानम् । नाभौ चित्तसंयमाद् भूलोकज्ञानम् । कुक्षौ संयमाद् भुवर्लोकज्ञानम् । हृदि चित्तस्य संयमात्स्वर्लोकज्ञानम् । हृदयो_भागे चित्तसंयमान्महर्लोकज्ञानम् । कण्ठे चित्तसंयमाज्जनोलोकज्ञानम् । भ्रूमध्ये चित्तसंयमात्तपोलोकज्ञानम् । मूर्ध्नि चित्तसंयमात्सत्यलोकज्ञानम् । - (शां.१/६९) इत्युक्तं तदपि यथातन्त्रमिहाऽनुयोज्यमन्यतन्त्रमर्मवेदिभिः ।।
चित्ते ज्ञाते सति चित्ताद् विवेकेनाऽऽत्मसाक्षात्कारो भवति इति औत्सर्गिकक्रममनुसृत्याहબધું જાણે છે. કારણ કે યોગસૂત્ર ગ્રન્થમાં પતંજલિ ઋષિએ કહેલ છે કે – “પ્રાતિભસંયમથી સર્વ જાણે છે.*
જ હૃદયસંયમથી સ્વ-પર ચિત્તજ્ઞાન જ तथा.। शरीरमा छातीन 14 मामi Gधा भोढावाणा नान53. भगना मा२ वाणु ४६५ मावेला છે. તેને વિશે સંયમ કરવાથી પોતાના અને બીજાના મનમાં રહેલા રાગ-દ્વેષ-સંસ્કાર વગેરેનું જ્ઞાન થાય छ. तेथी योगसूत्रमा ४॥वेल छ ? → 'हयभ संयम ४२वाथी. वित्तनुं शान थाय छे.' 6
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org