SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ १७९५ • सूर्यचन्द्रादिसंयमफलप्रदर्शनम् • सूर्ये चेति । सूर्ये च प्रकाशमये संयमाद् भुवनानां सप्तानां लोकानां ज्ञानं (=भुवनज्ञान) भवति । तदुक्तं- “भुवनज्ञानं सूर्य(2)संयमात्” (यो.सू.३-२६) । ताराव्यूहे = ज्योतिषां विशिष्टसंनिवेशे संयमाद् विधौ = चन्द्रे गतिः = ज्ञानं भवति, सूर्याऽऽहततेजस्कतया ताराणां सूर्यसंयमात्तज्ज्ञानं न शक्नोति भवितुमिति पृथगयमुपायोऽभिहितः । तदुक्तं- “चन्द्रे ताराव्यूहज्ञानम्” (यो.सू.३-२७)। ध्रुवे च निश्चले ज्योतिषां प्रधाने संयमात्तासां ताराणां गतेः (=तद्गतेः) नियतदेशकालगमनक्रियाया गतिर्भवति, ‘इयं तारा इयता कालेन अमुं राशिमिदं वा क्षेत्रं यास्यतीति । तदुक्तं- “ध्रुवे एतत्समानवृत्तान्तं सिद्ध्यन्तरमाह- 'सूर्य' इति । भुवनज्ञानसिद्धौ योगसूत्रसंवादमाह- ‘भुवने'ति । अत्र राजमार्तण्डव्याख्या → सूर्ये प्रकाशमये यः संयमं करोति तस्य सप्तसु भूर्भुवःस्वःप्रभृतिषु लोकेषु यानि भुवनानि तत्तत्सन्निधानभाञ्जि पुराणि तेषु यथावदस्य ज्ञानमुत्पद्यते । पूर्वस्मिन् सूत्रे सात्त्विकप्रकाश आलम्बनतयोक्तः इह तु भौतिक इति विशेषः - (रा.मा.३/२६) इत्येवं वर्तते । ‘सूर्यमण्डले संयमात् तद्गताऽशेषविशेषसाक्षात्कारे अशेषविशेषतः चतुर्दशविशेषभुवनज्ञानं भवतीत्यर्थः । एतत्संयमोपयोगो नानाविधलोकगतीदृष्ट्वाऽत्यन्तवैराग्यायेति (ना.भ.३/२६ वृ.) नागोजीभट्टः । 'अयमेव सकलभुवनसाक्षात्कारोऽस्मिन् शास्त्रे मधुमती सिद्धिरित्युच्यते' (यो.सुधा.३/२६) इति योगसुधाकरे सदाशिवेन्द्रः । सप्तपातालादिस्वरूपं तु विस्तरतो योगसूत्रभाष्यतोऽवसेयम् । भौतिकप्रकाशाऽऽलम्बनद्वारेणैव सिद्ध्यन्तरमाह- 'ताराव्यूह' इति । चन्द्रे = चन्द्रमण्डले संयमात् तद्गताऽशेषविशेषसाक्षात्कारपर्यन्तात् ज्योतिषां = नक्षत्रादीनां विशिष्टसंनिवेशे ज्ञानं भवति । न च सूर्यसंयमाद् भुवनज्ञाने कथं न ताराव्यूहज्ञानं स्यात् ? इति शङ्कनीयम्, ताराणां नक्षत्रादीनाञ्च सूर्याऽऽहततेजस्कतया = सूर्यप्रकाशेनाऽभिभूतप्रकाशतया सूर्यसंयमात् तज्ज्ञानं = ताराव्यूहज्ञानं न शक्नोति भवितुमिति पृथगुपायोऽभिहितः (रा.मा.३/२७) इति राजमार्तण्डे भोजः । 'चन्द्रे ताराव्यूहज्ञानमिति योगसूत्रं तु भावितार्थमेव । तारागतिज्ञानसिद्धौ योगसूत्रसंवादमाह- 'ध्रुव' इति । अत्र राजमार्तण्डवृत्तिरेवं → ध्रुवे = निश्चले ટીકાર્થ - પ્રકાશમય સૂર્યને વિશે સંયમ કરવાથી સાત લોકનું જ્ઞાન થાય છે. તેથી યોગસૂત્રમાં કહેલ છે કે – “સૂર્યને વિશે સંયમ કરવાથી ભુવનજ્ઞાન થાય છે.” ૯ ચંદ્ર ઉપર સંયમ કરવાથી જ્યોતિષચક્રની વિશિષ્ટ રચના સ્વરૂપ તારાઓના ભૂપનું જ્ઞાન થાય છે. તારાઓનું તેજ સૂર્યના પ્રકાશથી હણાઈ જાય છે. તેથી સૂર્યના વિશે સંયમ કરવાથી તેનું જ્ઞાન થઈ શકતું નથી. માટે સૂર્યસંયમ કરતાં તારાચંયમસ્વરૂપ આ જુદો ઉપાય પતંજલિ મુનિએ બતાવેલ છે. તેથી યોગસૂત્રમાં જણાવેલ છે કે – ચન્દ્ર ઉપર સંયમ કરવાથી તારાબૂહનું જ્ઞાન થાય છે.” ૯ જ્યોતિર્લોકના તારાઓમાં મુખ્ય અને નિશ્ચલ - સ્થિર એવા ધ્રુવ નામના તારાને વિશે સંયમ ४२वाथी तारामोनी नियत स्थम अने नियत समये थनारी. तिनुं शान थाय छे. 'म ता२॥ (Star) આટલા સમયમાં આ રાશિને અથવા આ ક્ષેત્રને પસાર કરશે.” આ પ્રમાણે તારાની ગતિનું જ્ઞાન ધ્રુવસંયમથી થાય છે. તેથી યોગસૂત્રમાં જણાવેલ છે કે – “ધ્રુવને વિશે સંયમ કરવાથી તારાઓની ગતિનું જ્ઞાન १. हस्तादर्श ‘समानां' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004943
Book TitleDwatrinshada Dwatrinshika Prakran Part 6
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages354
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy