________________
• स्वशक्ति-स्वामिशक्तिविमर्शः •
. १७४९ शक्यत्वात्, मुख्याऽर्थस्य च भवन्मतनीत्याऽद्याप्यसिद्धत्वादित्यर्थः ।।२५।। वास्तविकमभ्युपेयमेवेति वाच्यम्, मुख्यार्थस्य च = पारमार्थिकसत्यरूपस्य संसारस्य हि भवन्मतनीत्या = पातञ्जल-दर्शनसिद्धान्तप्रणालिकया अद्याऽपि प्रमाणतः असिद्धत्वात् = अनिर्णीतसत्ताकत्वात् । पुरुषगतत्वेन लोकप्रसिद्धस्य संसारस्य पातञ्जलैरनभ्युपगमात्, प्रकृतिगतस्य च तस्याऽद्यावध्यसिद्धत्वात्काल्पनिकत्वमेव स्यादिति मोक्षपुरुषार्थोच्छेदापत्तिरव्याहतप्रसरैवेत्याकूतम् ।
___ एतेन भोग्यत्वरूपस्वत्वसम्बन्धेनैव दुःखहानस्य पुरुषार्थत्वादिति (ना.भ.२/२५) नागोजीभट्टवचनं निराकृतम्, भोगस्याऽपि साक्षात्काररूपस्य नित्यस्यैव पातञ्जलैरभ्युपगमात् । न च दुःखभोगस्य दुःखवृत्त्यविभागाऽऽपन्नत्वेनाऽवधृतचित्स्वरूपत्वाद् घटाकाशादिवदनित्यता सम्भवतीति वाच्यम्, घटसत्त्वाऽसत्त्वाभ्यामाकाशस्याऽपि कथञ्चिदुत्पाद-व्ययवत् पुरुषस्याऽपि तदाऽऽपत्तेः कौटस्थ्यहानिरपरिहार्या। घटनाशेऽपि आकाशस्य घटाऽवच्छिन्नत्वस्वभावाऽपरित्यागे घटाऽऽकाशव्यवहारप्रसङ्गादिति व्यक्तं स्याद्वादकल्पलतायाम् (शा. वा.२/३१ स्या.क.) ।
एतेन → प्रतिसर्गाऽवस्थायां सहाऽन्तःकरणेन प्रधानसाम्यमुपगतोऽपि सर्गादौ पुनः कालवशादेव तादृगेव भवति । वर्षाऽत्यये मृद्भावमुपगतो मण्डूको यथा वृष्टौ पुनर्मण्डूकभावमापद्यते तद्वत् । अयं हि संयोगः चित्तस्यैव दुःखहेतुः तस्मिंस्तु दुःखिते तदाकाराऽनुरोधी दुःखित इव - (ना.भ. २/१७) इति नागोजीभट्टवचनं प्रत्यस्तम्, मृद्भावमुपगतस्य मण्डूकस्य वर्षायां पुनर्मण्डूकभावोदयस्येव सर्गादौ पुरुषस्य दुःखितत्वस्य वास्तविकत्वाऽऽपत्तेः ।
एतेन → बुद्धिसत्त्वं हि विविधशब्दाद्याकारेणेन्द्रियादिद्वारा परिणतं चिच्छायाऽऽपत्त्या पुरुषाऽभेदेन दृश्यमानं सन्निधिमात्रेणाऽयस्कान्तमणिवदुपकारकं स्वनिष्ठभोगाऽपवर्गों पुरुषं दर्शयत् स्वं भवति पुरुषस्य स्वामिनः। सोऽयमभेदभ्रान्तिरूपाऽविद्याकृतः पुरुषार्थाऽधीनस्थितिकः संयोगो हेयस्य दुःखस्य हेतु: 6 (म.प्र. २/१७) इति मणिप्रभाकृदुक्तिः प्रत्याख्याता, भ्रान्तिकृतत्वेन पुरुषप्रकृतिसंयोगस्य काल्पनिकतया मोक्षपुरुषार्थोच्छेदाऽऽपत्तेः । न हि भ्रान्तितः कश्चिदर्थः सिध्यति वस्तुगत्या । ततश्च सुष्ठुक्तं योगवाशिष्ठे → यन्नास्ति तत्तु नाऽस्त्येव + (यो.वा.निर्वाणप्रकरण उत्तरार्ध-१६/१९) इति ।
यत्तु राजमार्तण्डे भोजेन → स्वशक्तिः दृश्यस्य स्वभावः, स्वामिशक्तिः द्रष्टुः स्वरूपम् । तयोर्द्वयोरपि संवेद्य-संवेदकत्वेन व्यवस्थितयोः या स्वरूपोपलब्धिः तस्याः कारणं यः स संयोगः । स च सहजभोग्यभोक्तृभावस्वरूपान्नाऽन्यः । न हि तयोर्नित्ययोर्व्यापकयोश्च स्वरूपादतिरिक्तः कश्चित् संयोगः । यदेव भोग्यस्य भोग्यत्वं भोक्तुश्च भोक्तृत्वमनादिसिद्धं स एव संयोगः - (रा.मा.२/२३) इत्युक्तं तदसत्, पुरुष-प्रकृत्योर्नित्यत्वेन तत्स्वरूपयोरपि नित्यत्वसिद्ध्या तादृशसंयोगहानस्याऽसम्भवात् । ततश्च मोक्षपुरुषार्थोच्छेदाऽऽपत्तिरपरिहार्येव, अन्यथा पुरुष-प्रकृतिस्वरूपनिवृत्तिप्रसङ्गादिति दिक् ।।२५/२५ ।।
તથા મુખ્ય = વાસ્તવિક ભવપ્રપંચ પદાર્થ તો પાતંજલમતના સિદ્ધાન્તથી હજુ સુધી અસિદ્ધ જ छ. (२५/२५)
વિશેષાર્થ :- પાતંજલમતે આત્મા સર્વથા અપરિણામી છે. આત્માના કોઈ પણ પરિણામમાં આંશિક
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org