SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ • अविद्यारचितः संसारप्रपञ्चः • १७४५ इत्थं दृग्दृश्ययोगात्माऽऽविद्यको भवविप्लवः । नाशान्नश्यत्यविद्याया इति पातञ्जला जगुः ।।२३।। इत्थमिति । इत्थं दुःखरूपो दृगदृश्ययोः = पुरुष-बुद्धितत्त्वयोर्योगो = विवेकाऽख्यातिपूर्वकः संयोग आत्मा = कारणं यस्य स (=दृग्दृश्ययोगात्मा) तथा आविद्यको = अविद्यारचितः भवविप्लवः = संसारप्रपञ्चो अविद्याया' नाशानश्यति । अविद्यानाशात्स्वकार्यदृग्दृश्यसंयोगनाशे तत्कार्यभवप्रपञ्चनाशोपपत्तेः इति पातञ्जला जगुः = भणितवन्तः ।।२३।। परिज्ञातक्लेशादिविवेकस्य परिदृश्यमानं सकलमेव भोगसाधनं सविषं स्वादु अन्नमिव दुःखमेव प्रतिकूलवेदनीयमेवेत्यर्थः । यस्मादत्यन्ताऽभिजातो योगी दुःखलेशेनाऽप्युद्विजते यथाऽक्षिपात्रमणुतन्तुस्पर्शमात्रेणैव महतीं पीडामनुभवति नेतरदङ्ग, तथा विवेकी स्वल्पदुःखाऽनुबन्धेनाऽपि उद्विजते कथमित्याह- परिणामताप-संस्कारदुःखैः । विषयाणामुपभुज्यमानानां यथायथं- गर्धाऽभिवृद्धेस्तदप्राप्तिकृतस्य दुःखस्याऽपरिहार्यतया दुःखान्तरसाधनत्वाच्चाऽस्त्येव दुःखरूपतेति परिणामदुःखत्वम् । उपभुज्यमानेषु सुखसाधनेषु तत्प्रतिपन्थिनं प्रति द्वेषस्य सर्वदैवाऽवस्थितत्वात्सुखाऽनुभवकालेऽपि तापदुःखं दुष्परिहरमिति तापदुःखता । संस्कारदुःखत्वं च स्वाभिमताऽनभिमतविषयसंनिधाने सुखसंविद्द:खसंविच्चोपजायमाना तथाविधमेव स्वक्षेत्रे संस्कारमारभते, संस्काराच्च पुनस्तथाविधसंविदनुभव इत्यपरिमितसंस्कारोत्पत्तिद्वारेण संसाराऽनुच्छेदात्सर्वस्यैव दुःखत्वम् । गुणवृत्तिविरोधाच्चेति । गुणानां सत्त्वरजस्तमसां या वृत्तयः सुख-दुःख-मोहरूपाः परस्परमभिभाव्याऽभिभावकत्वेन विरुद्धा जायन्ते तासां सर्वत्रैव दुःखानुबन्धाद् दुःखत्वम् । एतदुक्तं भवतिऐकान्तिकीमात्यन्तिकीं च दुःखनिवृत्तिमिच्छतो विवेकिन उक्तरूपकारणचतुष्टयं यावत्सर्वे विषया दुःखरूपतया प्रतिभान्ति तावत् सर्वकर्मविपाको दुःखरूप एवेत्युक्तं भवति 6 (रा.मा.२/१५) वर्तते ।।२५/२२ ।। पातञ्जलमतेन क्लेशहानोपायमेव विशदयति- 'इत्थमिति । पुरुष-बुद्धितत्त्वयोः विवेकाऽख्यातिपूर्वकः = अत्यन्ताऽभेदभ्रमजन्यः संयोगः = भोग्य-भोक्तृत्वेन सन्निधानं कारणं यस्य भवविप्लवस्य स तथा = दृग्दश्ययोगात्मा । सोऽयं अविद्यारचितः = पूर्वोक्ताऽविद्याजनितः संसारप्रपञ्चः अविद्यायाः संसारकारणीभूताया नाशात् = निवृत्त्या नश्यति = निवर्तते । तदुक्तं योगसूत्रे → द्रष्ट-दृश्ययोः संयोगो हेयहेतुः (यो.सू.२/१७) इति । अत्र राजमार्तण्ड ગાથાર્થ - આ રીતે દૃગુ = પુરુષ અને દશ્ય = બુદ્ધિ- આ બન્નેના યોગ સ્વરૂપ ભવપ્રપંચ અવિદ્યાનિર્મિત છે. અવિદ્યાના નાશથી તે નાશ પામે છે. આમ પાતંજલ વિદ્વાનો કહે છે. (૨૫/૨૩) કાર્થ :- આ રીતે સમગ્ર ભવપ્રપંચ દુઃખાત્મક જ છે. અવિદ્યાસ્વરૂપ ક્લેશના કારણે સંસારપ્રપંચ નિર્માયેલ છે. કારણ કે ભવપ્રપંચનું કારણ તો પુરુષ અને બુદ્ધિતત્ત્વનો વિવેકઅખ્યાતિપૂર્વકનો સંયોગ છે. વિવેકઅખ્યાતિ એટલે પુરુષતત્ત્વ અને બુદ્ધિતત્ત્વ વચ્ચે રહેલા અત્યંત ભેદનું અજ્ઞાન અર્થાત અવિદ્યા. માટે વિવેકખ્યાતિ ઉત્પન્ન થાય તો વિવેકઅખ્યાતિસ્વરૂપ અવિદ્યા નાશ પામે છે. તથા અવિદ્યાના નાશથી અવિદ્યાનિર્મિત ભવપ્રપંચ નાશ પામે છે. કારણ કે અવિદ્યાના નાશથી તેનું કાર્ય પુરુષ-બુદ્ધિતત્ત્વસંયોગ નાશ પામે છે. તે નાશ પામતાં તેના કાર્યભૂત ભવપ્રપંચનો ઉચ્છેદ થવો તે યુક્તિસંગત જ છે. આમ पात४८ विद्वानो छे. (२५/२3) १. हस्तादर्श ‘अविद्यानाशा...' इति पाठः । स च शुद्धोऽपि मूलानुसारेणाऽनुचितत्वादत्र न गृहीतः । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.004943
Book TitleDwatrinshada Dwatrinshika Prakran Part 6
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages354
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy