________________
• अस्मितोपवर्णनम् .
१७३७ सुखोपाये = सुखसाधने तृष्णा सुखज्ञस्य सुखानुस्मृतिपूर्वो लोभपरिणामः = रागः । तदुक्तं 'सुखानुशयी रागः' (योगसूत्र २/७) इति । दुःखाङ्गानां = दुःखकारणानां निन्दनं = दुःखाऽभिज्ञस्य तदनुस्मृतिपूर्वकं विगर्हणं (=दुःखाऽङ्गनिन्दन) = द्वेषः । रेवम् → दृक्शक्तिः = पुरुषः, दर्शनशक्तिः = रजस्तमोभ्यामनभिभूतः सात्त्विकः परिणामः अन्तःकरणरूपः । अनयोः भोग्य-भोक्तृत्वेन जडाऽजडत्वेनाऽत्यन्तभिन्नरूपयोरेकताऽभिमानः = अस्मिता इत्युच्यते । यथा प्रकृतिः वस्तुतः कर्तृत्व-भोक्तृत्वरहिताऽपि 'कर्म्यहं भोक्त्र्यहमिति अभिमन्यते । सोऽयमस्मिताऽख्यो विपर्यासः क्लेशः - (रा.मा.२/६) इति । भावागणेशस्तु → दृग् = द्रष्टा । दृश्यतेऽनयेति दर्शनं = बुद्धिः । प्रलयादौ फलोपधानं नास्तीति शक्तिपदम् । दृक्शक्तेः दर्शनशक्तेश्चैकात्मतेव धर्मतश्च रूपतश्चाऽत्यन्तमेकाकारबुद्धिः = अस्मिता = अहङ्कार इत्यर्थः । अविद्यातश्चाऽस्मिताया अयं भेदो यद् बुद्ध्यादौ सामान्यतोऽहंबुद्धिः भेदाऽभेदसहिष्णुरुदेति, अत्यन्तभेदाऽग्रहणात् सैवाऽविद्या । अस्मिता तु स्वतो धर्मतश्च तयोरखण्डत्वभ्रमरूपा - (भा.ग.२/६) इत्याचष्टे ।
योगसूत्रभाष्ये व्यासोऽपि → पुरुषः = दृकशक्तिः, बुद्धिः = दर्शनशक्तिः इति एतयोरेकस्वरूपाऽऽपत्तिरिवाऽस्मिता क्लेश उच्यते । भोक्तृ-भोग्यशक्त्योः अत्यन्तविभक्तयोः अत्यन्ताऽसङ्कीर्णयोः अविभागप्राप्ताविव सत्यां भोगः कल्पते । स्वरूपप्रतिलम्भे तु तयोः कैवल्यमेव भवति, कुतो भोगः ? - (यो.भा.२/६) इत्याह ।
→ शक्तिशब्दो योग्यताऽर्थकः भोक्तृ-भोग्यत्वयोग्ययोरत्यन्तविविक्तयोर्दृग्दृश्ययोरविद्याकृतैकात्मता = तादात्म्यम्, ‘इव'शब्देन 'अहमस्मीति भ्रान्तिकृतत्वं तादात्म्यस्य द्योतयति । साऽस्मितेत्यर्थः । अयं हृदयग्रन्थिरित्युच्यते ब्रह्मवादिभिः 6 (म.प्र.२/६) इति मणिप्रभाकृत् ।।
बौद्धानामपि सम्मतमेवाऽस्मिताहानम्, → एको पहातब्बो-अस्मिमानो - (प.सं.म.१/१/१/६६) इति पटिसम्भिदामग्गवचनादित्यवधेयम् ।
राग इति । तदुक्तं योगसूत्रे 'सुखानुशयी रागः' (यो.सू.२/७) इति । अत्र राजमार्तण्डवृत्तिरेवम् → सुखं अनुशेते इति सुखानुशयी, सुखज्ञस्य सुखाऽनुस्मृतिपूर्वकं सुखसाधनेषु तृष्णारूपो गर्धी रागसञ्ज्ञकः क्लेशः - (रा.मा.२/७) 'इति । → सुखानुभवे सति स्मृत्या तज्जातीयसुखान्तरे तत्साधने वा या तृष्णा स रागः सुखमनुशेते = विषयीकरोतीति सुखानुशयीत्यर्थः - (यो.सू.२/७ म.प्र.) इति मणिप्रभाकृत् । प्रकृते → सुखाद् रागः - (वै.सू. ५।२।१०) इति वैशेषिकसूत्रमप्यवधातव्यम् ।
दुःखाऽनभिज्ञस्य तत्स्मृतेरभावाद् दुःखाऽभिज्ञस्य इत्युक्तम् । स्मर्यमाणे दुःखे द्वेषः दुःखाऽनुस्मृतिજાણે એકાત્મતા એટલે અસ્મિતા.”
સુખના જાણકારને સુખનું સ્મરણ થતાં જ સુખની સામગ્રીમાં જે લોભનો પરિણામ = તૃષ્ણા જાગે છે તે રાગ કહેવાય છે. તેથી યોગસૂત્રમાં જણાવેલ છે કે – “રાગ સુખાનુશયી = સુખને વિષય બનાવનાર છે.” ૯ તથા દુઃખનો જાણકાર જીવ દુઃખનું સ્મરણ થતાં જ દુઃખના કારણોની નિંદા-ગઈ કરે છે તે દ્વેષ સમજવો.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org