________________
• अविद्यादिपञ्चविधक्लेशप्रतिपादनम् •
१७३५ अविद्या चाऽस्मिता चैव रागद्वेषौ तथाऽपरौ । पञ्चमोऽभिनिवेशश्च क्लेशा एते प्रकीर्तिताः ॥१८॥ ___ अविद्या चेति । क्लेशानां विभागोऽयम् । तदुक्तं- “अविद्याऽस्मिता-राग-द्वेषाऽभिनिवेशाः क्लेशा इति” (योगसूत्र २-३) ।।१८।। विपर्यासाऽऽत्मिकाऽविद्याऽस्मिता दृग्दर्शनैकता। रागस्तृष्णा सुखोपाये द्वेषो दुःखाऽङ्गनिन्दनम् ।।१९।।
विपर्यासाऽऽत्मिकेति। विपर्यासः = अतस्मिंस्तद्ग्रहः' तदात्मिका (=विपर्यासाऽऽत्मिका) अविद्या। ____ ननु तावत् के क्लेशा येषां प्रसुप्तत्वादिकमभिहितम् ? इत्याशङ्कायामाह- ‘अविद्य'ति । क्लिश्यन्ति = कर्मतत्फलप्रवर्तकाः सन्तः पुरुषं दुःखाकुर्वन्तीति क्लेशाः । तेषां क्लेशानां विभागोऽयं अविद्यादिः। तदुक्तं योगसूत्रे पतञ्जलिना ‘अविद्य'ति । ते च पञ्च बाधनालक्षणं परितापमुपजनयन्तः क्लेशशब्दवाच्या भवन्ति । ते हि क्लेशाः चेतसि प्रवर्तमानाः संसारलक्षणं गुणपरिणामं दृढयन्तीति राजमार्तण्डकाराऽऽशयः । एतद्वृत्तौ नागोजीभट्टः → ते हि चेतसि वर्तमानाः संसारधर्माऽधर्मकर्ममयं गुणपरिणामं दृढयन्ति । कर्मभिः क्लेशाः क्लेशैश्च कर्माणीति । अनवस्था तु बीजाकुरवदनादित्वान्न दोषाय - (यो.सू.२/३ ना.) इत्याह ।
__ योगसूत्रभाष्ये व्यासस्तु → क्लेशा इति पञ्च विपर्यया इत्यर्थः । ते स्पन्दमाना गुणाऽधिकारं दृढयन्ति, परिणाममवस्थापयन्ति, कार्यकारणस्रोत उन्नमयन्ति, परस्पराऽनुग्रहतन्त्रीभूत्वा कर्मविपाकं चाऽभिनिर्हारन्तीति - (यो.भा.२/३) इत्याचष्टे । इमे पञ्च क्लेशा विपर्ययत्वेनाऽप्युच्यन्ते । तदुक्तं साङ्ख्यसूत्रे
→ विपर्ययभेदाः पञ्च - (सां.सू.३/३७) इति । अविद्यादिवत् तमो-मोह-महामोह-तामिस्राऽन्धतामिस्ररूपेणाऽपीमे क्लेशाऽपराऽभिधानविपर्ययभेदाः तन्त्रान्तरेऽभ्युपगम्यन्ते इत्यवधेयम् ।।२५/१८।।
___ साम्प्रतमविद्यादिकं निरूपयति- 'विपर्यासे'ति । तदात्मिका = अतस्मिंस्तदिति प्रतिभासाऽऽत्मिका अविद्या इति अविद्यायाः सामान्यलक्षणम् । तस्या एव भेदप्रतिपादनम्- यथा अनित्येषु घटादिषु नित्यत्वस्य ઉપરોક્ત સાનુકૂળ દ્રવ્ય, ક્ષેત્ર, કાળ, ભાવમાં રાગ કાર્ય કરી રહેલ હોવાથી ઉદાર કહેવાય. (૨૫/૧૭)
ક્લેશના પાંચ પ્રકાર છે थार्थ :- सविधा, अस्मिता, २, द्वेष तथा पांयमी समिनिवेश- शवायरले.(२५/१८) ટીકાર્ય - અવિદ્યા વગેરે ક્લેશોનો વિભાગ છે. તેથી તો પતંજલિ ઋષિએ યોગસૂત્રમાં કહેલ छ ? → 'मविधा, मस्मिता, २, द्वेष, मत्मनिवेश - पांय देश. छे.' (२५/१८)
વિશેષાર્થ :-ઉપરોક્ત પાંચેય ક્લેશનું આગળની બે ગાથામાં ગ્રંથકારશ્રી નિરૂપણ કરશે.(૨પ/૧૮)
ગાથાર્થ :- અવિદ્યા વિપર્યાસસ્વરૂપ છે. પુરુષ અને દર્શનની એકતા = અસ્મિતા. સુખના ઉપાયને વિશે તૃષ્ણા એટલે રાગ. તથા દુ:ખના કારણની નિંદા કરવી તે ફેષ જાણવો. (૨૫/૧૯)
ટીકાર્થ :- જે પદાર્થ જે સ્વરૂપે રહેલ ન હોય તે પદાર્થનો તે વિપરીત સ્વરૂપે બોધ કરવો તે વિપર્યાસ = ગેરસમજ = ભ્રમ કહેવાય. અવિદ્યા વિપર્યાસસ્વરૂપ છે. જેમ કે અનિત્ય એવા ઘડા વગેરેમાં નિત્યત્વનો બોધ, અશુચિ એવી કાયા વગેરેમાં શુચિપણાનો = પવિત્રતા બોધ, દુઃખાત્મક વિષયોમાં સુખરૂપતાનું ભાન અને આત્મભિન્ન એવા શરીર વગેરેમાં આત્મપણાનું અભિમાન એ ગેરસમજરૂપ અવિદ્યા १. हस्तादर्श 'तहः' इत्यशुद्धः त्रुटितश्च पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org