________________
१७१०
• नैरात्म्यदर्शनस्योच्छृङ्खलताप्रयोजकत्वम् • द्वात्रिंशिका-२५/७ श्रुतं निवारयितुमुत्सहत इति न्यायात् । किञ्च यमुद्दिश्य नैरात्म्यप्रतिपादकं वचनं प्रयुज्यते तस्य शून्यत्वे व्यर्थ एव परिश्रमः प्रकृतप्रयोगस्य, अन्यथा शशशृङ्गमप्युद्दिश्य प्रकृतप्रयोगप्रसङ्गात् । ततश्च सुष्ठुक्तं श्लोकवार्तिके कुमारिलभट्टेन → सर्वदा सदुपायानां वादमार्गः प्रवर्तते । अधिकारोऽनुपायत्वाद् न वादे शून्यवादिनः ।। (श्लो.वा.निरा.१२८) इति । न च नैरात्म्यदृष्टिपदं शरीरात्मभिन्नतत्त्वज्ञानपरमिति वाच्यम्, नैरात्म्यशब्दघटकस्य निरः संसर्गाभावबोधकतया तादृशज्ञानस्य तदर्थत्वाऽसम्भवादिति (आ. त.वि.पृष्ठ १९/मा.वृ.) आत्मतत्त्वविवेकवृत्तौ मथुरानाथः ।
स्यादेतत्- सिद्धोऽप्ययमात्मा हेय एव, आत्मदर्शी हि तदुपकारिणि रज्यते तदपकारिणं च द्वेष्टि, राग-द्वेषौ च मूलं संसारस्य । यस्तु तं न पश्येत् नाऽसौ तदुपकारिणि रज्येत न वा तदपकारिणं द्विष्याद्वा, ततो न संसरेदिति जाङ्गुलिकेन नैर्विष्यवन् मुमुक्षुणाऽपि नैरात्म्यमेव भावनीयमिति चेत् ? न, अनात्मदर्शिनो मुमुक्षुत्वव्याघातात् । न ह्यात्मानमप्रतिसन्धाय कश्चिद्दःखं हातुमिच्छेत्, सुखं वाऽवाप्तुं, 'मया स्वर्गापवर्गभागिना भवितव्यमि'त्यभिप्रायस्य यावदभियोगमनुवृत्तेः, अभियोगः प्रवृत्तिः, अननुवृत्तावभियोगनिवृत्तौ फलाऽसिद्धेः । इयं च नैरात्म्यदृष्टिर्नास्तिक्यं द्रढयेत् । 'नास्ति परलोकः, नास्ति कर्मफलमि ति निश्चयो नास्तिक्यं, तच्चाऽऽमुष्मिकभयाऽभावेन प्रबलविषयतृष्णां, सा च तमोऽनन्तं प्रस्रवति, न चेदेवं कुतो ‘यावज्जीवेदि'त्यादयो निःशङ्कमुल्लापाः (न्या.खं.खा.गा.६१/पृ.६२२) इत्यधिकं न्यायखण्डखाद्याद् विज्ञेयम्।
तदुक्तं शास्त्रवार्तासमुच्चयेऽपि → शून्यं चेत् ? सुस्थितं तत्त्वमस्ति चेत् ? शून्यता कथम् ? । तस्यैव ननु सद्भावादिति सम्यग् विचिन्त्यताम् ।। प्रमाणमन्तरेणाऽपि स्यादेवं तत्त्वसंस्थितिः । अन्यथा नेति सुव्यक्तमिदमीश्वरचेष्टितम् ।। उक्तं विहाय मानं चेच्छून्यताऽन्यस्य वस्तुनः । शून्यत्वे प्रतिपाद्यस्य ननु व्यर्थः परिश्रमः ।। तस्याऽप्यशून्यतायाञ्च प्राश्निकानां बहुत्वतः । प्रभूताऽशून्यताऽऽपत्तिरनिष्टा सम्प्रसज्यते ।। यावतामस्ति तन्मानं प्रतिपाद्यास्तथा च ये । सन्ति ते सर्व एवेति प्रभूतानामशून्यता ।।
6 (शा.वा.स.६/५८-६२) इति ।
वाक्यपदीये → अन्यथा दाहसम्बन्धाद् दाहं दग्धोऽभिमन्यते । अन्यथा दाहशब्देन दाहार्थः सम्प्रतीयते ।। 6 (वा.प.२/४२५) इति भर्तृहरिवचनमपि नैरात्म्यवाद-शून्यवादैकान्तनिराकरणपरतया व्याख्येयं बहुश्रुतैः । यदि च → उत्पाद-व्ययबुद्धिश्च भ्रान्ताऽऽनन्दादिकारणम् । कुमार्याः स्वप्नवज्ज्ञेया पुत्रजन्मादिबुद्धिवत् ।। - (शा.वा.स.६/५६) इति शून्यवादिमतं परमार्थाऽपेक्षया सुगतेन प्रतिपादितं स्यात् ? तदा सार्वलौकिकाबाधितात्मनीनसत्प्रमाणबाधितत्वात्, बहूनामुन्मार्गप्रवर्तकत्वाच्च निरस्तं मन्तव्यम् । न हि अस्खलवृत्तिकाऽबाधितसार्वजनीनबाह्यार्थप्रतीतिरपह्नोतुं शक्या । अत्रार्थे → न विज्ञानमात्रं बाह्यप्रतीतेः - (सां.सू.१/४२) इति, → अबाधांददुष्टकारणजन्यत्वाच्च नाऽवस्तुत्वम् 6 (सां.सू.१ ७९) इति च साङ्ख्यसूत्रस्य विज्ञानभिक्षुकृतं साङ्ख्यप्रवचनभाष्यमवलोकनीयम् । विस्तरं बुभुत्सुभिः स्याद्वादकल्पलता-न्यायखण्डखाद्यादिकमीक्षणीयम् । प्रकृते → नैरात्म्यवादकुहकैमिथ्यादृष्टान्तहेतुभिः भ्राम्यल्लोको न जानाति - (मैत्रा.७।८) इति मैत्रायण्युपनिषद्वचनमपि यथातन्त्रमनुयोज्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org