________________
• नैरात्म्यज्ञानाऽसम्भवः .
१७०९ विवाहस्त्रीपुत्रज्ञानवत् विकल्पस्याऽपि = प्रतिपादकादिगतस्य स्थितं वस्तु विना वक्तुमशक्यत्वात् । कुमारीसुतबुद्धिरपि हि प्रसिद्धयोः कुमारी-सुतपदार्थयोः सम्बन्धमेवाऽऽरोपितमवगाहते। प्रकृते त्वात्मन एवाऽभावात्तत्प्रतिपादकादिव्यपदेशो निर्मूल एव, क्वचित्प्रमितस्यैव क्वचिदारोप्यत्वात् । गोचरस्य विकल्पस्याऽपि स्थितं सद्भूतं प्रतिपादकादिलक्षणं वस्तु विना वक्तुं अशक्यत्वात् । तदुक्तं समन्तभद्राचार्येण अपि युक्त्यनुशासने → मुख्यादृते गौणविधिर्न दृष्टः - (यु.अनु.१५) इति । कुमारीसुतबुद्धिरपि = कुमार्याः सुतजन्म-मरणादिगोचरस्वाप्निकबुद्धिरपि हि स्वातन्त्र्येण प्रसिद्धयोः = प्रमितयोः कुमारी-सुतपदार्थयोः सम्बन्धमेव आरोपितं = स्वप्नादिबलोत्थापितं अवगाहते । न हि कुमार्या अपि वन्ध्यापुत्रस्वप्नदर्शनं कदाचिदप्युपसम्पद्यते इत्यङ्गीक्रियते केनचित् । तदुक्तं साक्षेपपरिहारं योगबिन्दौ→
कुमारीसुतजन्मादिस्वप्नबुद्धिसमोदिता । भ्रान्तिः सर्वेयमिति चेत् ? ननु सा धर्म एव हि ।। कुमार्या भाव एवेह यदेतदुपपद्यते । वन्ध्यापुत्रस्य लोकेऽस्मिन्न जातु स्वप्नदर्शनम् ।।
- (यो.बि.४६६-७) इति । प्रकृते = प्रथमविकल्पे तु आत्मन एव सर्वथा अभावात् हेतोः तत्प्रतिपादकादिव्यपदेशः = नैरात्म्यप्रतिपादक-प्रतिपाद्याऽऽदिव्यवहारः निर्मूल एव = निर्निमित्तक एव प्रसज्यते। ततश्च प्रमाणतो नैरात्म्यजिज्ञासाऽपि तमोदीपन्यायमनुसरति । तथाहि- “नैरात्म्यं ज्ञातुमिच्छेद् यः प्रमाणेनाऽतिमूढधीः । स तु नूनं तमः पश्येद् दीपेनोत्तमतेजसा ।।” ( )
प्रमाणप्रवृत्तावात्मादिसमुपलब्ध्या तत्प्रतिक्षेपाऽयोगात्, अन्यथा प्रमाणव्याघातप्रसङ्गात् । एतेन गौरवकल्पना निरस्ता, प्रमाणाधीनत्वात् । तदुक्तं तन्त्रवार्तिके → प्रमाणवन्त्यदृष्टानि कल्प्यानि सुबहून्यपि । अदृष्टशतभागोऽपि न कल्प्यो ह्यप्रमाणकः ।। (त.वा.२/१/५) इति । एतेन आरोपिताऽऽत्मभानमपि प्रत्याख्यातम्, सर्वथाऽसतो ह्यनुयोगि-प्रतियोग्यन्यतररूपेणाऽन्यत्राऽऽरोपाऽसम्भवात् । ततश्च कुमारीसमः कश्चिदवस्थित आत्माऽभ्युपगन्तव्य एव शून्यवादिभिरपि भवद्भिः, यस्येमे नैरात्म्यप्रतिपादकत्वादयो विशेषाः सुतजन्मादिस्वप्नबुद्धिसमा भवद्भिः परिकल्पिताः कथञ्चित् सङ्गच्छेरन्, यतः क्वचित् कदाचित् प्रमितस्यैव = प्रमाणप्रसिद्धस्यैव धर्मस्य क्वचित् धर्मिणि आरोप्यत्वात् = आरोपसम्भवात्, अन्यथा कुड्यं विना चित्रकर्मन्यायप्रसङ्गो दुर्वारः। न चाऽस्माभिः तददृष्टेः तत्प्रतिक्षेप इति वाच्यम्, न हि रूपमन्धेन न दृश्यत इति चक्षुष्मतामपि दृश्यमानमभावप्राप्तं भवतीति (यो.सू.२/२२-त.वै.) व्यक्तमुक्तं वाचस्पतिमिश्रेण तत्त्ववैशारद्याम् । न हि स्थाणोरयमपराधो यदेनमन्धो न पश्यतीति न्यायोऽप्यत्र लब्धाऽवकाशः । एतेनाऽस्माकं शास्त्रेषु तदश्रवणान्नास्त्यात्मादिकमिति निरस्तम्, न हि क्वचिदश्रवणमन्यत्र નથી તેમ સ્થિર આત્માદિ વસ્તુ વિના નૈરાગ્યને બોલનારમાં પણ વિકલ્પ બતાવવો શક્ય નથી. કદાચ કુંવારી શીલવતી કન્યાને પુત્રજન્મની બુદ્ધિ થાય તો પણ તે બુદ્ધિ તો વાસ્તવિક એવા કુમારીપદાર્થ અને વાસ્તવિક પુત્રપદાર્થના આરોપિત સંબંધનું જ અવગાહન કરે છે.
જ્યારે પ્રસ્તુત નૈરામ્યવાદમાં તો આત્માનો જ અભાવ હોવાથી નૈરાજ્યનું પ્રતિપાદન કરનાર વગેરેનો વ્યવહાર નિર્મુલ = નિર્નિમિત્તક જ છે. કારણ કે કોઈક પ્રમાણથી ક્યાંક સિદ્ધ થયેલ પદાર્થનું જ અન્યત્ર આરોપણ થઈ શકે છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org