________________
१६८०
• महासमाधिबीजनिर्देशः .
द्वात्रिंशिका-२४/२५ अस्यां व्यवस्थितो योगी त्रयं निष्पादयत्यदः। ततश्चेयं विनिर्दिष्टा सत्प्रवृत्तिपदाऽऽवहा ॥२५॥
अस्यामिति । अस्यां = प्रभायां व्यवस्थितो योगी त्रयमदो निरोधसमाध्येकाग्रतालक्षणं निष्पादयति = साधयति । ततश्चेयं प्रभा सत्प्रवृत्ति पदावहा विनिर्दिष्टा, सर्वैः प्रकारैः प्रशान्तवाहिताया एव सिद्धेः ।।२५।।
प्रभायाः सत्प्रवृत्तिपदावहत्वमावेदयति- 'अस्यामिति । यतः प्रभायां योगी निरोध-समाध्येकाग्रतालक्षणं = निरोधपरिणामं समाधिपरिणामं एकाग्रताख्यं च चित्तपरिणामं साधयति ततः = तस्मात् कारणात् प्रभा दृष्टिः सत्प्रवृत्तिपदाऽऽवहा = असङ्गाऽनुष्ठानाद्यपराभिधानस्य सत्प्रवृत्तिपदस्योपधायिका विनिर्दिष्टा योगिभिः, देहात्मविवेकविज्ञानबलसमुत्थाऽसङ्गसाक्षिभावपरिपाकात् सर्वैः एव कायिकप्रवृत्त्यादिरूपैः कृत-कारितादिभिन्नैः प्रकारैः प्रभायां प्रशान्तवाहिताया एव सिद्धेः = निष्पत्तेः । तदुक्तं योगदृष्टिसमुच्चये → एतत्प्रसाधयत्याशु यद् योग्यस्यां व्यवस्थितः । एतत्पदावहैषैव तत् तत्रैतद्विदां मता ।। - (यो.दृ.स.१७७) इति । ‘एतत् = असङ्गाऽनुष्ठानं', ‘एतत्पदावहा = सत्प्रवृत्तिपदावहा' शिष्टमतिरोहितार्थम् । इतश्चाऽऽरभ्य तात्त्विकी अप्रमत्तता प्रकृष्यते । तदुक्तं ब्रह्मसिद्धान्तसमुच्चये → स्वल्पावरणभावेन स्ववीर्योत्कर्षयोगतः । नित्योपयुक्तः सत्कृत्ये त्वप्रमत्त इति स्मृतः ।। कर्ममल्लं समाश्रित्य जयकक्षाव्यवस्थितः । सिद्धिक्रियायामुद्युक्तो धैर्यौदार्यसमन्वितः ।। असङ्गशक्त्या सर्वत्र वर्ततेऽयं महामुनिः । यत्नतो वृत्तिरप्यस्य न बन्धायेति तद्विदः ।। तदेतत् परमं धाम विद्याजन्मोद्भवं तु यत् । महासमाधेः सद्बीजं गीयते सिद्धयोगिभिः ।। प्रशान्तवाहिता सैषा तद्धि तत्तत्फलं परम् । सन्नद्यम्भोधिसंयोग-सम्प्रज्ञातो महानयम् ।।
6 (ब्र.सि.१७-२१) इति भावनीयम् । सम्प्रज्ञातस्वरूपं तु प्राक् योगावतारद्वात्रिंशिकायां (द्वा.द्वा.२०/१ भाग-५ पृ.१३२५) प्रतिपादितमेव । → जं मया दिस्सदे रूवं, तं ण जाणादि सव्वहा । जाणगं दिस्सदे ण तं, तम्हा जंपेमि केण हं ।। - (मो.प्रा.२९) इति मोक्षप्राभृतवचनं प्रभायामवस्थितस्य
વિશેષાર્થ - ક્રમાન્યત્વ પરિણામાખ્યત્વ પ્રત્યે કારણ છે - આ પ્રમાણે જે પાતંજલસૂત્ર અહીં સંવાદરૂપે ઉપાધ્યાયજી મહારાજે જણાવેલ છે તેનો આશય એ છે કે પહેલાં માટીનો પિંડ હોય છે. પછી તેમાંથી સ્થાસ-કોશ-કુશૂલ-કપાલ વગેરે બને છે. પછી છેલ્લે ઘટ બને. માટીમાંથી સીધે-સીધો ઘડો થઈ નથી જતો. મતલબ કે ચોક્કસ ક્રમમાં કાર્ય ગોઠવાયેલ હોય છે. આ ક્રમ પ્રત્યેક સમયે જુદા-જુદો હોવાથી માટીના પરિણામો પણ જુદા-જુદા દેખાય છે. આમ ક્રમભેદ પરિણામભેદનો હેતુ છે - એમ સિદ્ધ થાય छे. (२४/२४)
ગાથાર્થ :- પ્રભા દૃષ્ટિમાં રહેલા યોગી આ ત્રણ પરિણામને નિપજાવે છે. તેથી આ દષ્ટિ સત્ प्रवृत्तिपहने दावनारी उवायेली छे. (२४/२५)
ટીકાર્ય - સાતમી પ્રભા નામની યોગદષ્ટિમાં રહેલા યોગી નિરોધ પરિણામ, સમાધિપરિણામ અને એકાગ્રતાપરિણામને સાધે છે. માટે આ પ્રભા દૃષ્ટિ સત્યવૃત્તિપદને લાવનારી કહેવાયેલ છે. કારણ કે અહીં સર્વ પ્રકારે પ્રશાન્તવાહિતા જ સિદ્ધ થાય છે. (૨૪/૨૫) १. मुद्रितप्रतौ '...त्तिपादव...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org