________________
• पातञ्जलदर्शने एकस्याऽपि अनेकपरिणामाश्रयता •
"
“ एतेन भूतेन्द्रियेषु धर्म - लक्षणाऽवस्थापरिणामा व्याख्याताः (यो.सू. ३-१३ ) ” शान्तोदिताऽव्यपदेश्यधर्माऽनुपाती धर्मी (यो.सू. ३ -१४ ) “ क्रमाऽन्यत्वं परिणामाऽन्यत्वे हेतुरिति (यो.सू.३-१५)”।।२४।। उक्तेन चित्तपरिणामेन भूतेषु स्थूल सूक्ष्मेषु इन्द्रियेषु बुद्धि - कर्मलक्षणभेदेनाऽवस्थितेषु धर्मलक्षणाऽवस्थाभेदेन त्रिविधः परिणामो व्याख्यातोऽवगन्तव्यः । अवस्थितस्य धर्मिणः पूर्वधर्मनिवृत्तौ धर्मान्तराऽऽपत्तिः परिणामः । यथा मृल्लक्षणस्य धर्मिणः पिण्डरूपधर्मपरित्यागेन घटरूपधर्मान्तरस्वीकारो धर्मपरिणाम इत्युच्यते । लक्षणपरिणामो यथा तस्यैव घटस्याऽनागताऽध्वपरित्यागेन वर्तमानाऽध्वस्वीकारः तत्परित्यागेन चाऽतीताऽध्वपरिग्रहः । अवस्थापरिणामो यथा तस्यैव घटस्य प्रथम-द्वितीययोः सदृशयोः क्षणयोरन्वयित्वेन । यतश्च गुणवृत्तिः नाऽपरिणममाना क्षणमप्यस्ति (यो.सू. ३/१३ रा.मा.) ।
=
=
=
ननु कोऽयं धर्मी ? इत्याशङ्क्य धर्मिणो लक्षणमाह शान्ताः ये कृतस्व-स्वव्यापारा अतीतेऽध्वनि अनुप्रविष्टाः, उदिताः येऽनागतमध्वानं परित्यज्य वर्तमानेऽध्वनि स्वव्यापारं कुर्वन्ति । अव्यपदेश्याः ये शक्तिरूपेण स्थिता व्यपदेष्टुं न शक्यन्ते । तेषां यथास्वं सर्वात्मकत्वमित्येवमादयो नियत - कार्यकारणरूपयोग्यतयाऽवच्छिन्ना शक्तिरेवेह धर्मशब्देनाऽभिधीयते । तं त्रिविधमपि धर्मं योऽनुपतति अनुवर्तते अन्वयित्वेन स्वीकरोति स शान्तोदिताऽव्यपदेश्यधर्माऽनुपाती धर्मीत्युच्यते । यथा सुवर्णं रुचकरूपधर्मपरित्यागेन स्वस्तिकरूपधर्मान्तरपरिग्रहे सुवर्णरूपतयाऽनुवर्तमानं तेषु धर्मेषु कथञ्चिद् भिन्नेषु धर्मिरूपतया सामान्याऽऽत्मना धर्मरूपतया विशेषाऽऽत्मना स्थितमन्वयित्वेनाऽवभासते ( रा.मा.३/१४) । एकस्य धर्मिणः कथमनेके परिणामाः ? इत्याशङ्कामपनेतुमाह - धर्माणामुक्तलक्षणानां यः क्रमः तस्य यत्प्रतिक्षणमन्यत्वं परिदृश्यमानं तत् परिणामस्योक्तलक्षणस्य अन्यत्वे ज्ञापकं नानात्वे हेतुः लिङ्गं भवति । अयमर्थः योऽयं नियतः क्रमो मृच्चूर्णाद् मृत्पिण्डः, ततः कपालानि, तेभ्यश्च घट इत्येवंरूपः परिदृश्यमानः परिणामस्याऽन्यत्वमावेदयति । तस्मिन्नेव धर्मिणि यो लक्षणपरिणामस्याऽवस्थापरिणामस्य वा क्रमः सोऽपि अनेनैव न्यायेन परिणामाऽन्यत्वे गमकोऽवगन्तव्यः । सर्व एव भावा नियतेनैव क्रमेण प्रतिक्षणं परिणममानाः परिदृश्यन्ते । अतः सिद्धं क्रमाऽन्यत्वात् परिणामान्यत्वम् । सर्वेषां चित्तादीनां परिणममानानां केचिद् धर्माः प्रत्यक्षेणैवोपलभ्यन्ते, यथा सुखादयः संस्थानादयश्च । केचिच्चै - कान्तेनाऽनुमानगम्याः, यथा धर्मसंस्कारशक्तिप्रभृतयः । धर्मिणश्च भिन्नाभिन्नरूपतया सर्वत्राऽनुगमः ← ( रा. मा. ३ / १५ ) इति ।
=
अधिकं बुभुत्सुभिस्तु अत्रत्ये योगसूत्रभाष्य - नागोजीभट्टवृत्ती विलोकनीये । अतिग्रन्थविस्तरभयान्नेह ते दर्श्यते । । २४ / २४ ।।
१६७९
For Private & Personal Use Only
=
=
માટે કોઈ અસંગતિ પ્રસ્તુતમાં નથી આવતી. તેથી યોગસૂત્રમાં જણાવેલ છે કે → ‘ચિત્તના પરિણામ બતાવવા દ્વારા પૃથ્વી આદિ પાંચ ભૂતતત્ત્વ, કાન વગેરે પાંચ જ્ઞાનેન્દ્રિય અને હાથ વગેરે પાંચ કર્મેન્દ્રિયને વિશે ધર્મપરિણામ, લક્ષણપરિણામ અને અવસ્થાપરિણામની વ્યાખ્યા થઈ ગઈ તેમ સમજવું. શાંત, ઉદિત અને અવ્યપદેશ્ય આમ ત્રણ પ્રકારના ગુણધર્મોમાં જે અનુગત હોય તે ધર્મી = साधार ऐवाय. तथा મૃŃિડ, કપાલ, ઘટ વગેરે સ્વરૂપે જુદો-જુદો કાર્યનો ક્રમ ગોઠવાયેલ છે તે કારણે પ્રતિક્ષણ જુદા-જુદા परिणामो जाय छे.' ← (२४/२४)
Jain Education International
www.jainelibrary.org