________________
१६७४
• संस्कारद्वैविध्यापवर्णनम् • द्वात्रिंशिका-२४/२३ मयस्य चित्तस्य निरोधजात् संस्कारात् स्यात् । तदाह- "तस्य प्रशान्तवाहिता संस्कारात्" (यो.सू.३-१०)। कोऽयं निरोध एवेत्यत आह- तद्व्युत्थानजयोः = निरोधजव्युत्थानजयोः संस्कारयोः प्रादुर्भाव-तिरोभावौ = वर्तमानाऽध्वाऽभिव्यक्ति-कार्यकरणाऽसामर्थ्याऽवस्थानलक्षणौ अयं निरोधः।
चलत्वेऽपि गुणवृत्तस्योक्तोभयक्षण'वृत्तित्वाऽन्वयेन चित्तस्य तथाविधस्थैर्यमादाय निरोधपरिणामशब्दव्यवहारात् । तदुक्तं- “व्युत्थान-निरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्ताऽन्वयो हृतविक्षेपतया सदृशप्रवाहपरिणामिता (रा.मा.३/१०) इति राजमार्तण्डकारः । वाचस्पतिमिश्रस्तु तत्त्ववैशारद्यां → व्युत्थानसंस्कारमलरहितनिरोधसंस्कारपरम्परामात्रवाहिता = प्रशान्तवाहिता - (त.वै.३/ १०) इत्याह । 'प्रशान्तवाहिता = निश्चलप्रवाहः' (भा.ग.३/१०) इति भावागणेशः । ‘प्रशान्तवाहिता = व्युत्थानसंस्काररहितचिरकालवाहिता' (ना.भ.३/१०) इति नागोजीभट्टः । वृत्ति-वृत्तिमतोरभेदादाहवृत्तेः = वृत्तिमयस्य चित्तस्य निरोधजात् = वृत्तिनिरोधनिष्पन्नात् संस्कारात् = दृढतरसंस्कारात् सा स्यात् । तदुक्तं योगवार्तिके विज्ञानभिक्षुणा → निरोधावस्थस्य चित्तस्य प्रशान्तवाहिता = निश्चलनिरोधधारया वहनं निरोधसंस्कारबलादेव भवति — (यो.वा.३/१०) इति। प्रकृते ग्रन्थकारः योगसूत्रसंवादमाह 'तस्येति । अत्र मणिप्रभावृत्तिः → निरोधसंस्कारप्रचयान्निरस्तसमस्तव्युत्थानसंस्कारमलस्य चित्तस्य निरोधसंस्कारपरम्परामात्रवाहिता भवति। ननु तर्हि चलमेव तदापि चित्तम्, सत्यम्, तदाऽपि तादृशी परिणाममाला स्थैर्यमित्युच्यते - (यो.सू.३/१० म.प्र.) इत्येवं वर्तते । 'निरोधसंस्कारात् निरोधसंस्काराभ्यासपाटवाऽपेक्षा प्रशान्तवाहिता चित्तस्य भवति । तत्संस्कारमान्ये व्युत्थानधर्मिणा संस्कारेण निरोधसंस्कारोऽभिभूयते' (यो.सू.भा.३/१०) इति योगसूत्रभाष्ये व्यासः ।।
सत्त्वादिगुणानां क्षणमप्यपरिणामस्याऽसम्भवेन चलत्वेऽपि = चलायमानत्वेऽपि गुणवृत्तस्य = सत्त्वादिगुणवृत्तिरूपस्य उक्तोभयक्षणवृत्तित्वाऽन्वयेन = व्युत्थान-निरोधद्वितयकालाऽवस्थानलक्षणाऽन्वयेन चित्तस्य निवातस्थानस्थितप्रदीपशिखावत् तथाविधस्थैर्यं = निरन्तरनिरोधधारावहनलक्षणं स्थिरत्वं आदाय निरोधपरिणामशब्दव्यवहारात् = 'निरोधाख्यः परिणाम' इति पदप्रयोगात् । तदुक्तं योगसूत्रे 'व्युत्थाने'ति । अत्र राजमार्तण्डव्याख्या → व्युत्थानं = क्षिप्त-मूढ-विक्षिप्ताऽऽख्यं भूमित्रयम् । निरोधः = प्रकृष्टसत्त्वस्य अङ्गितया चेतसः परिणामः । ताभ्यां = व्युत्थान-निरोधायां यौ जनितौ संस्कारौ तयोः यथाक्रम अभिभव-प्रादुर्भावौ यदा भवतः; अभिभवः = न्यग्भूततया कार्यकरणाऽसामर्थ्येनाऽवस्थानम्, प्रादुर्भावः ચિત્તના નિરોધથી ઉત્પન્ન થયેલા સંસ્કારથી પ્રશાંતવાહિતા પ્રગટે છે. તેથી યોગસૂત્રમાં જણાવેલ છે કે ‘ચિત્તના નિરોધજન્ય સંસ્કારથી પ્રશાન્તવાહિતા આવે છે. આ નિરોધ એટલે શું? આ પ્રશ્નનો જવાબ આપતા ગ્રન્થકારશ્રી કહે છે કે - નિરોધજન્ય સંસ્કારનો પ્રાદુર્ભાવ = વર્તમાન કાળમાં અભિવ્યક્તિ અને વ્યુત્થાનજન્ય સંસ્કાર પોતાનું કાર્ય કરી શકવાનું સામર્થ્ય ગુમાવી દે તે રીતે તેનો તિરોભાવ-વિલય કરવો આ નિરોધ કહેવાય.
चलत्वे. । सत्व गु. यसायमान-यण ही छत ५५ सत्याहि गुना वृत्ति तो व्युत्थान અને નિરોધકાલ બન્નેમાં રહેવાથી તેનો અન્વય ટકી રહે છે. તેથી ચિત્તની તથાવિધ સ્થિરતાને લઈને १. सर्वत्र मुद्रितप्रतौ ....भयक्षयवृ...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org