________________
यथावद् दर्शनेऽसङ्गभावोपलब्धिः
१६४९ धातुमुद्दिश्य विपश्यनाधिकारे । 'न एतत् मम, नाऽस्याहमस्मि न ममैष आत्मा' इत्येवं ज्ञानचक्षुषा यथाभूतदर्शनेऽनात्मद्रव्याद् ज्ञातदोषबहुलाद् निर्वेद - वैराग्ये सुलभे एव ।
परमार्थतस्तु विषयाऽऽकाङ्क्षोच्छेदिनी दृष्टिरेव चक्षुष्ट्वेन सम्मता । तदुक्तं सूत्रकृताङ्गे हु चक्खू मणुस्साणं, जे कंखाए य अन्तए ← (सू. कृ. १ ।१५।१४ ) इति । इत्थञ्च प्रकृते इंदियाणं विसया मणुन्ना, न तेसु भावं निसिरे कयावि ← ( उत्त. ३२ । २१ ) इति उत्तराध्ययनसूत्राऽऽशयपरिणमनेन भुज्यमानविषयेषु रुच्यकरणतो नेक्षणमात्राद्दोषः तथाविधः । न हि रागाद्यकरणे शब्दादिविषयेषु स्वरूपतो विषमतादिजनकत्वमस्ति । तदुक्तं उत्तराध्ययनसूत्रे न कामभोगा समयं उवेंति, न यावि भोगा विगई उवेंति । जे तप्पदोसी य परिग्गहीयं, सो तेसु मोहा विगईं उवेति । । ← (उत्त. ३२/१०१) इति । यथावत्स्वरूपदर्शने त्वाश्रवमुक्तिः सुलभा ।
बौद्धानामपि सम्मतमिदम्। तदुक्तं मज्झिमनिकाये कन्दरकसूत्रे 'इमे आसवा'ति यथाभूतं पजानाति; ‘अयं आसवसमुदयो'ति यथाभूतं पजानाति, 'अयं आसवनिरोधो 'ति यथाभूतं पजानाति, 'अयं आसवनिरोधगामिनी पटिपदाति यथाभूतं पजानाति । तस्स एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्चति, भवासवापि चित्तं विमुच्चति, अविज्जासवापि चित्तं विमुच्चति । विमुत्तस्मिं विमुत्तमिति आणं होत ← (म.नि. २ ।१ । १ ।१६, पृ. ११) इति, पाशराशिसूत्रे च इमे पञ्च कामगुणे अगथिता अमुच्छिता अनज्झोपपन्ना आदीनवदस्साविनो निस्सरणपञा परिभुञ्जन्ति, ते एवमस्सु वेदितब्बा- 'न अनयमापन्ना, न ब्यसनमापन्ना, न यथाकामकरणीया पापिमतो' ← (म.नि. १ । ३ ।६ । २८७, पृ. २३४) इति भावनीयं स्व-परतन्त्रैदम्पर्यार्थविभावनपरायणैर्यथागममतिगम्भीरधिया । सर्वमद्भुतमज्ञानां जानतां तु न किञ्चन ← ( स.रं. श. १०) इति सभारञ्जनशतकोक्तिरपि स्मर्तव्याऽत्र ।
प्रकृते न लिप्पई भवमज्जे वि संतो जलेण व पोक्खरिणीपलासं ← ( उत्त. ३२/४७) इति उत्तराध्ययनसूत्रवचनं, → णाणी रागप्पजहो सव्वदव्वेसु कम्ममज्झगदो । जो लिप्पइ रजएण दु कद्दममझे जहा कणयं ।। ← ( स.सा. २१८) इति समयसारवचनं, जह सलिलेण ण लिप्पइ कमलिणीपत्तं सहावपयडीए । तह भावेण ण लिप्पइ कसाय - विसएहिं सप्पुरिसो ।। ← ( भा. प्रा. १५४ ) इति भावप्राभृतवचनं, → ज्ञानवैभव - विरागताबलात् सेवकोऽपि तदसावसेवकः ← ( ना. स. सा. ना. निर्जरा. ३) इति नाटकसमयसारकलशवचनं यो न भुङ्क्ते भुज्यमानानपि भोगान् स बुद्धिमान् ← ( यो. वा. निर्वाण. पूर्वा.५९/३२) इति योगवाशिष्ठवचनं किं वा विमोहाय विवेकिनां स्यात् ? ← (ध. श. ४ ६१) इति धर्मशर्माभ्युदयवचनञ्च यथागममनुयोज्यम् ।
ननु मायोदकत्वज्ञाने कथं तत्र प्रवृत्तिः स्यादिति चेत् ? न, कर्मबन्धं प्रति जीवस्य स्वतन्त्रत्वेऽपि तत्फलभोगं प्रति परतन्त्रत्वात्, यथोक्तं बृहत्कल्पभाष्ये कम्मं चिणंति सवसा तस्सुदयम्मि उ परव्वसा होंति । रुक्खं दुरुहइ सवसो विगलइ स परव्वसो तत्तो ।। ← (बृ. क. भा. २६८९) इति । तदुक्तं दर्शनशुद्धिप्रकरणे अपि रागोरगगरलभरो तरलइ चित्तं तावइ दोसऽग्गी । कुणइ कुमग्गपवित्तिं महामईणं पहा ! मोहो।। ← (द.शु. ३ / ४३ ) इति । प्रकृते च केवलबलवत्कर्मोदयमाहात्म्यतः तथा सम्भवेऽपि ज्ञानिनः तत्र निर्दोषत्वात् । तदुक्तं अध्यात्मोपनिषदि स्वत एव समायान्ति कर्माण्यारब्धशक्तितः । एकक्षेत्राऽवगाहेन ज्ञानी तत्र न दोषभाक् ।। ← ( अ. उप. २ / ३२ ) इति । प्रकृते च → વિશેષાર્થ :- ઉનાળામાં રણપ્રદેશમાં ભરબપોરે અણસમજુ વ્યક્તિ મૃગજળને સાચું જળ માની બેસે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
•
से
जे