________________
१६४८
तेनैव प्रकारेण मायोदकोपमान् प्रयात्येव परं पदं तथाऽनभिष्वङ्गतयाऽपरवशभावात् ।।१२।।
• तात्त्विकविपश्यनाविद्योतनम् •
द्वात्रिंशिका - २४/१२
असारान् भुञ्जानोऽपि हि कर्माऽऽक्षिप्तान् असङ्गः ' सन्
Jain Education International
=
तदुक्तं अध्यात्मोपनिषदि
आस्वादिता सुमधुरा येन ज्ञानरतिः सुधा । न लगत्येव तच्चेतो विषयेषु विषेष्विव ।। ← (अ.उप. २ / ७) इति । निकाचिताऽऽदिकर्मपरवशश्चेत् तर्हि तेनैव = समारोपशून्येनैव प्रकारेण असारान् मायोदकोपमान् कर्माऽऽक्षिप्तान् = विशिष्टप्रयत्नमन्तरेण कर्मविपाकोदयोपनतान् तान् भुञ्जानोऽपि = अनुभवन्नपि सम्मद्दिट्ठी सया अमूढे ← ( द. वै.१०/७ ) इति दशवैकालिकसूत्रवचनप्रामाण्यात्, → सव्वस्स लोगस्स सदेवगस्स कामाणुगिद्धिप्पभवं खु दुक्खं ← (उत्त. ३२/१९) इति उत्तराध्ययनसूत्रतात्पर्योपलम्भात्, जं इंदियेहिं लद्धं तं सोक्खं दुक्खमेव तहा ← (प्र.सा. १/७६) इति प्रवचनसारवचनैदम्पर्यार्थपरिणमनाच्च भोगमृगजले असङ्गः = असङ्गसाक्षिमात्रः सन् तत्र रागाद्यकरणेन ‘अकुव्वओ णवं णत्थि ' ( सू.कृ.१ ।१५।७) इति पूर्वोक्तसूत्रकृताङ्गसूत्रप्रामाण्यादभिनवं कर्म अबध्नन्, अत एव → तुट्टंति पावकम्माणि नवं कम्ममकुव्वओ ← (सू.कृ. १ ।१५।६ ) इति सूत्रकृताङ्गसूत्रप्रामाण्यात् प्राक्तनकर्माणि क्षपयन् कामनियत्तमई खलु संसारा मुच्चइ खिप्पं ← ( आ.नि. १७७) इति आचाराङ्गनिर्युक्तिवचनानुसारतः रत्तो बंधदि कम्मं मुंचदि जीवो विरागसंपत्तो ← ( स.सा. १५० ) इति समयसारवचनानुसारतश्च परं पदं मोक्षाऽभिधानं प्रयात्येव, आत्मज्ञाने मुनिर्मग्नः सर्वं पुद्गलविभ्रमम् । महेन्द्रजालवद् वेत्ति नैव तत्राऽनुरज्यते ।। ← ( अ. उप. २ / ६) इति अध्यात्मोपनिषद्वचनानुसारतः तथाऽनभिष्वङ्गतया = मोक्षबाधकाऽऽसक्तिशून्यतया अपरवशभावात् = परिणामतो भोगादिपारवश्यविरहात्। तदुक्तं धर्मामृते अपि यो भुञ्जानोऽपि नो भुङ्क्ते विषयांस्तत्फलाऽत्ययात् । यथा परप्रकरणे नृत्यन्नपि न नृत्यति ।। ← (धर्मा.८/३) इति । केवलं कर्मपारवश्याद् भोगप्रवृत्तिरियमवसेया । तदुक्तं विद्यापरिणयने → मोहस्य किल स वेगः केनाऽपि न निवार्यते ← (वि.प. ५ । ४० ) इति । अत एव बृहन्नारदीयपुराणे अपि नास्ति मोहसमं भयम् ← (बृ.ना. ७ । ५४) इत्युक्तमिति प्रागुक्तं (पृ.१४२८) स्मर्तव्यम् । प्रकृते भोगप्रवृत्तौ अपि कर्माऽबन्धं प्रति 'भोगान् स्वरूपतः पश्यन्' इति प्रधानहेतुः बोध्यः, यथा - वस्थितभोगस्वरूपदर्शनेन वैराग्योत्कर्षात्कर्मलेपाऽसम्भवात् । तदुक्तं उत्तराध्ययनसूत्रे सव्वेसु कामजाए सु पासमाणो न लिप्पई ताइ ← ( उत्त. ८ । ४ ) इति । प्रकृते अन्नो जीवो, अन्नं सरीरं ← (सू. कृ. २ 19 ।९) इति, → अन्ने खलु कामभोगा, अन्नो अहमंसि ← (सू. कृ. २ ।१ । १३) इति च सूत्रकृताङ्गसूत्रोक्तिरपि यथागममनुशीलनीया । इयमेव हि तात्त्विकी विपश्यना विज्ञेया बुधैः, यतो निर्वेद-वैराग्ये सम्पद्येते ।
सम्मतञ्चेदं बौद्धानामपि । तदुक्तं मज्झिमनिकायेतं 'नेतं मम, नेसोहमस्मि, न मेसो अत्ता 'तिएवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं । एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा पथवीधातुया निब्बिन्दति, पथवीधातुया चित्तं विराजेति ← (म.नि. महारारुलोवादसुत्त - २ ।२।२ । ११४ पृष्ठ.९२) इत्येवं पृथ्वीછે. આ રીતે કર્મની નિર્જરા કરતા તે યોગી પરમપદ મોક્ષને પામે છે. કારણ કે આસક્તિ-ભોગતૃષ્ણા ન હોવાથી તે યોગી ભોગસુખોને પરવશ થતા નથી. માટે નવા કર્મથી તે બંધાતા નથી. (૨૪/૧૨)
१. हस्तादर्शे 'असंगतः' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
www.jainelibrary.org