________________
• धारणासिद्धिहेतूपदर्शनम् •
१६४३ तत्र = धारणायां सुस्थितः मैत्र्यादिचित्तपरिकर्मवासिताऽन्तःकरणतया, स्वभ्यस्तयमनियमतया, जिताऽऽसनत्वेन परिहृतप्राणविक्षेपतया, प्रत्याहृतेन्द्रियग्रामत्वेन ऋजुकायतया, जितद्वन्द्वतया, सम्प्रज्ञाताऽभ्यासाऽऽविष्टतया च सम्यग्व्यवस्थितः। भूतानां = जगल्लोकानां प्रियो भवति । तथा धर्मेकाग्रमना भवति ।।९।। ____मैत्र्यादिचित्तपरिकर्मवासिताऽन्तःकरणतयेति । इदं प्राथमिकभूमिकापेक्षयोक्तं, अग्रेतनभूमिकायाञ्च चिन्मात्रवासनावासितत्वमेवाऽवसेयम् । तदुक्तं मुक्तिकोपनिषदि →
मानसीर्वासनाः पूर्वं त्यक्त्वा विषयवासनाः । मैत्र्यादिवासनानाम्नीगुहाणाऽमलवासनाः ।।
ता अप्यन्तः परित्यज्य ताभिर्व्यवहरन्नपि । अन्तः शान्तः समस्नेहो भव चिन्मात्रवासनः ।। (मुक्ति.२/६९-७०) इति पूर्वोक्तं(पृ.१३४६) इहानुसन्धेयम् । निष्पन्नयोगानां निर्विकल्पसंस्कारेण मैत्र्यादिभावनानाशात् मैत्र्यादिशून्यमेव सद्बोधमात्रं चित्तमिति व्यक्तं त्रयोदशे षोडशके (षो.१३/१२)। शिष्टं स्पष्टम् ।
तथा धर्मेकाग्रमनाः = सद्धर्मस्थिरचित्तो भवति। धर्मैकाग्रमनस्त्वञ्चाऽनुदितपापानुदयेनोदिताऽवद्यविफलीकरणेनाऽनुदितसद्धर्मोदयकरणेनोदितसद्धर्मवृद्ध्यादिगोचरपराक्रमादिना चाऽत्राऽवसेयम् । योगचूडामण्युपनिषदि तु → धारणाभिर्मनो धैर्यं याति, चैतन्यमद्भुतम् + (यो.चू.११०) इत्येवं धारणाफलमुक्तं तदपि यथातन्त्रमिहा-ऽनुयोज्यम् । ___इत्थञ्च कान्तायां मायापुत्रीयोक्ताऽष्टाङ्गिकमार्गगतः सम्यग्व्यायामोऽपि सुखेनैव सम्पद्यते । तत्स्वरूपञ्च दीघनिकाये मज्झिमनिकाय च महास्मृतिप्रस्थानसूत्रे → कतमो च, भिक्खवे! सम्मावायामो? इध, भिक्खवे, भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति, वायमति, वीरियं आरभति, चित्तं पग्गण्हाति पदहति; उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति, वायमति, वीरियं आरभति, चित्तं पग्गण्हाति पदहति; अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति, वायमति, वीरियं आरभति, चित्तं पग्गण्हाति पदहति; उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय, भिय्योभावाय, वेपुल्लाय, भावनाय पारिपूरिया छन्दं जनेति, वायमति, वीरियं आरभति, चित्तं पग्गण्हाति पदहति । अयं वुच्चति, भिक्खवे, सम्मावायामो - (दी.नि.२/९/४०९, म.नि.भाग१/१/१०/१३५/पृ.९०) इत्थमावेदितम् । ‘पदहति = निगृह्णाति, ठितिया = स्थितये, असम्मोसाय = अनाशाय, भिय्योभावाय = भूयोभावाय पुनरुत्पादायेति यावत्, वेपुल्लाय = वैपुल्याय, भावनाय = અભ્યાસથી સુવાસિત થયેલું હોય છે. (૨) તેણે અહિંસાદિ પાંચ યમ અને (૩) સ્વાધ્યાયાદિ નિયમોનો सारी सते. अभ्यास ३८ डोय छे. (४) ५॥सन वगेरे सासनी ५९॥ मात्मसात् २८॥ होय छे. (५) શ્વાસ-ઉચ્છવાસના વિક્ષેપોને તેણે કાબૂમાં લઈ લીધા હોય છે. (૬) પ્રત્યાહારના પ્રતાપે ઈન્દ્રિયોને તેના વિષયોમાંથી સહજપણે પાછી વાળેલી હોય છે. (૭) તેની કાયા અક્કડ નથી હોતી પણ ઋજુ-મૃદુ હોય छ. (८) तो रति-मति, सुष-दु:1, भूम-तरस, 631-1२भी, अनुभूगता-प्रतिभ्रूणता वगैरे द्वन्द्वाने ती લીધા હોય છે. (૯) સંપ્રજ્ઞાતયોગનો અભ્યાસ કરવામાં તેનું મન પરોવાયેલું હોય છે. આ નવ કારણોને લીધે કાન્તા દૃષ્ટિવાળા યોગીનું અન્તઃકરણ ધારણામાં સારી રીતે લાંબો સમય ટકી શકે છે. આવા યોગી ४ातन पाने प्रिय बने छ. तथा धर्ममा तमर्नु भन में बने छ, ४४ बने. छ. (२४/) १. हस्तादर्श 'जितासत्वेन' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org