________________
१६४२
• धारणासिद्धिचिह्नप्रज्ञापनम् •
द्वात्रिंशिका - २४/९
'देशबन्धो हि चित्तस्य धारणा तत्र सुस्थितः । प्रियो भवति भूतानां धर्मैकाग्रमनास्तथा ।।९।। देशेति । देशे = नाभिचक्र - नासाग्रादौ बन्धो = विषयान्तरपरिहारेण स्थिरीकरणात्मा ( = देशबन्धो ) हि चित्तस्य धारणा । यदाह - “ देशबन्धश्चित्तस्य धारणा ” ( यो. सू. ३-१ ) ।
धारणामेव व्याख्यानयति- 'देशे 'ति नाभिचक्र - नासाग्रादौ आदिपदगृहीते हृदयपुण्डरीके मूर्ध्नि उपरि द्वादशाङ्गुलपरिमिते देशे ज्योतिषि, जिह्वाग्रे ताल्वादौ वा । तदुक्तं गरुडपुराणे प्राङ् नाभ्यां हृदये वाऽथ तृतीये च तथोरसि । कण्ठे मुखे नासिकाऽग्रे नेत्रभ्रूमध्यमूर्द्ध ।। किञ्चित्तस्मात् परस्मिंश्च धारणा दश कीर्त्तिताः । । ← (गरु. १/२१८ / २१-२२ ) इति । कूर्मपुराणे च → हृत्पुण्डरीके नाभ्यां वा मूर्ध्नि पर्वतमस्तके । एवमादिप्रदेशेषु धारणा चित्तबन्धनम् ।। ← (कूर्म.उत्त.११/ २९) इत्युक्तम् । योगसूत्रसंवादमाह - ' देशबन्ध' इति । अत्र योगसुधाकरवृत्तिरेवं वर्तते → आधारादिदेशा अधस्तादभिहिताः तत्र आत्मनि वा चित्तस्य बन्धः = स्थापनं धारणोच्यते ← (यो. सू. ३/१) इति । याज्ञवल्क्यस्मृतौ अपि यमादिगुणयुक्तस्य मनसः स्थितिरात्मनि । धारणेत्युच्यते सद्भिर्योगशास्त्रविशारदैः । । ← (याज्ञ. स्मृ. ) इति गदितम् । तेजोबिन्दूपनिषदि अपरोक्षानुभूतौ च यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् । मनसो धारणं चैव धारणा सा परा मता ।। ← ( अपरो. १२२) इत्येवं धारणालक्षणमुक्तम् । त्रिशिखिब्राह्मणोपनिषदि तु चित्तस्य निश्चलीभावो = धारणा ← (त्रि.ब्रा. ३१) इत्युक्तम् । मण्डलब्राह्मणोपनिषदि तु विषयव्यावर्तनपूर्वकं चैतन्ये चेतःस्थापनं धारणम् ← (मं.ब्रा. १।७) इत्येवं तल्लक्षणमुक्तम् । गरुडपुराणे च कालमानगर्भं धारणालक्षणम् → प्राणायामैर्द्वादशभिर्यावत् कालः कृतो भवेत्। स तावत्कालपर्यन्तं मनो ब्रह्मणि धारयेत् ।। ← (गरु. १ / १२७/२४) इत्थमावेदितम्। विष्णुपुराणेच मूर्तं भगवतो रूपं सर्वोपाश्रयनिस्पृहम् । एषा वै धारणा ज्ञेया यच्चित्तं तत्र धार्यते ।। ← (वि.पु. ६/७/७८) इत्येवं धारणास्वरूपमुक्त्वा चिन्तयेत् तन्मयो योगी समाधायाऽऽत्ममानसम् । तावद् यावद् दृढीभूता तत्रैव नृप ! धारणा ।। (वि.पु. ६/७/८६) एतदातिष्ठतोऽन्यद् वा स्वेच्छया कर्म कुर्वतः । नाऽपयाति यदा चित्तं सिद्धां मन्येत तां तदा ।। ← (वि.पु. ६/७/८७) इत्येवं धारणासिद्धिलक्षणमावेदितम् । आदिपुराणे जिनसेनाचार्यस्तु धारणा = श्रुतनिर्दिष्टबीजानाम
वधारणम् ← (आ.पु. २१/२२७ ) इति प्राह ।
હોય છે. નબળા પાપકર્મો કાન્તા દૃષ્ટિવાળા પાસે પોતાનું કાર્ય કરાવી શકતા નથી.(૨૪/૮) * ધારણાની ઓળખાણ
ગાથાર્થ :- ચિત્તને એક સ્થાનમાં બાંધી રાખવું તે ધારણા કહેવાય છે. ધારણામાં રહેલા યોગી જીવોને પ્રિય બને છે. તથા તેનું મન ધર્મમાં એકાગ્ર હોય છે. (૨૪/૯)
ટીકાર્થ :- અન્ય વિષયોનો ત્યાગ કરીને નાભિચક્ર, નાકના અગ્ર ભાગ વગેરે કોઈ એક સ્થાનમાં ચિત્તને બાંધી રાખવું, સ્થિર કરવું, ધારી રાખવું તે ધારણા કહેવાય છે. કારણ કે પતંજલિએ યોગસૂત્રમાં જણાવેલ છે કે ‘ચિત્તને એક ઠેકાણે બાંધી રાખવું તે ધારણા કહેવાય.’ કાન્તા દૃષ્ટિમાં રહેલ યોગીનું ચિત્ત ધારણામાં લાંબો સમય સારી રીતે સ્થિર રહી શકે છે. કારણ કે (૧) તે યોગીનું મન મૈત્રી વગેરે ભાવનાઓના દીર્ઘ
१. हस्तादर्शे 'देशेबंधा' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
=
www.jainelibrary.org