________________
१६३१
• पुण्यस्य हेममयबन्धनत्वम् • संसारप्रवेशकत्वेन कुशीलत्वाऽविशेषात् ।।५।। सति अपि निश्चयतः संसारप्रवेशकत्वेन = संसाराऽवस्थाननिमित्तत्वेन पुण्य-पापयोः कुशीलत्वाऽविशेषात् = कुशीलत्वसाम्यात् । यथोक्तं आवश्यकनियुक्तौ → सव्वं कम्मं पावं, भामिज्जइ जेण संसारे 6 (आ.नि.१५०९) इति । तदुक्तं विशेषावश्यकभाष्येऽपि → पुण्णफलं दुहं चिय कम्मोदयओ फलं व पावस्स - (वि.आ.भा.२००४), → विसयसुहं दुक्खं चिय दुक्खपडियारओ तिगिच्छ व्व 6 (वि. आ.भा.२००६) इति पूर्वोक्तं(भाग-५ पृ.१३६४) अत्रानुसन्धेयम् । ततश्च पुण्ये कर्मणि सुशीलत्वं गौणमेव, गौणलक्षणयोगात् । तदुक्तं काव्यानुशासने श्रीहेमचन्द्रसूरिभिः → मुख्यार्थबाधे निमित्ते प्रयोजने च भेदाऽभेदाभ्यां आरोपितो गौणः - (काव्यानु.१/१७) इति । अत एव पुण्यस्य स्वर्णशृङ्खलात्वं पापस्य च लोहशृङ्खलात्वमुच्यते, बन्धनत्वन्तूभयत्र परमार्थतः तुल्यमेव । तदुक्तं कुन्दकुन्दाचार्येण समयसारे → कम्ममसुहं कुसीलं सुहकम्मं वाऽवि जाणह सुसीलं । कह तं होदि सुसीलं जं संसारं पवेसेदि ?|| सोवण्णियं पि णियलं बंधदि कालायसं पि जह पुरिसं । बंधदि एवं जीवं सुहमसुहं वा कदं कम्मं ।।
6 (स.सा.१४५/१४६) इति । शास्त्रवार्तासमुच्चये श्रीहरिभद्रसूरिभिः अपि → न चाऽऽयसस्य बन्धस्य तथा हेममयस्य च । फले कश्चिद् विशेषोऽस्ति पारतन्त्र्याऽविशेषतः ।। (शा.वा.स. ११८) इत्युक्तम् । प्रकृते → हेमं वा आयसं वा वि बंधणं दुक्खकारणं । महग्घस्सा वि दंडस्स णिवाए दुक्खसंपदा ।। - (ऋ.भा. ४५/५०) इति ऋषिभाषितवचनमपि स्मर्तव्यम् ।
इदमेवाऽभिप्रेत्य ग्रन्थकृताऽपि वैराग्यकल्पलतायां → फलैकरूपे भुवि पुण्यपापे, न संगिरन्ते व्यवहारमत्ताः । समाधिभाजस्तु तदेकभावं जानन्ति हैमाऽऽयसबन्धनीत्या ।। पुण्यस्य पापस्य च चिन्त्यमानो, न पारतन्त्र्यस्य फलस्य भेदः । समाहिताः पुण्यभवे सुखेऽपि दुःखत्वमेव प्रतियन्ति तेन ।। रम्यं सुखं यद्विषयोपनीतं, नरेन्द्रचक्रित्रिदशाधिपानाम् । समाहितास्तज्ज्वलदिन्द्रियाग्निज्वालाघृताहुत्युपमं विदन्ति ।। उक्तो हेममयो बन्धः पुण्यं पुण्यानुबन्ध्यपि (वै.क.स्त. ६/२२६-२२८,२८०) इत्युक्तम् ।
अध्यात्मसारेऽपि ग्रन्थकृता → न ह्यायसस्य बन्धस्य तपनीयमयस्य च । पारतन्त्र्याऽविशेषेण फलभेदोऽस्ति कश्चन ।। - (अ.सा.१८/६१) इत्युक्तम् । परेषामपि सम्मतमिदम् । अत एवोक्तं रामगीतायां → पापानीव च पुण्यानि विधूयन्ते बुधैः खलु (रा.गी.१६/४७) । अत एव उद्योतकरेणापि न्यायसूत्रवार्तिके सुखमपि षडिन्द्रिय-तद्विषयषट्कतदनुभवषट्क-देह-दुःख-सुखलक्षणैकविंशतिदुःखमध्ये निवेशितम् (न्या.वा.१/१/२,९) । ततश्च सुखजनकमपि पुण्यं तत्त्वतः पापरूपमेव । तथापि तयोर्भेदोपगमे दुरन्तभवकान्तारभ्रमणमनिवारितप्रसरमेव स्यात् । इदमेवाभिप्रेत्य प्रवचनसारे → जदि संति हि पुण्णाणि य परिणामसमुब्भवाणि विविहाणि । जणयंति विसयतण्हं जीवाणं देवदंताणं ।। ते पुण उदिण्णतण्हा दुहिदा तण्हाहिं विसयसोक्खाणि । इच्छंति अणुभवंति य आमरणं दुक्खसंतत्ता ।। सपरं बाधासहियं विच्छिण्णं बंधकारणं विसमं । जं इंदियेहिं लद्धं तं सोक्खं दुक्खमेव तहा ।। ફળ અનાત્મધર્મ હોવાથી નિશ્ચયથી સમાન જ છે. વ્યવહારદષ્ટિએ સુશીલત્વ અને કુશીલત્વ એમ બે જુદા ગુણધર્મના લીધે પુણ્ય અને પાપમાં ભેદ હોવા છતાં નિશ્ચય દષ્ટિએ તો તે બન્ને સંસારમાં રખડાવવાના લીધે કુશીલ જ છે. ભવભ્રમણકારણત્વની અપેક્ષાએ પુણ્ય અને પાપ સમાન જ છે.(૨૪/૫)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org