________________
१६२४
स्यात् ।।३।।
• स्थिरायां सम्यगाजीविकासमवतारः •
द्वात्रिंशिका -२४/३
← (पं.लि. ४७/४८) इत्येवं यदुक्तं तदप्यत्रानुसन्धेयं यथागमम् । एतेन निशामयति निःशेषमिन्द्रजालोपमं जगत् स्पृहयत्यात्मलाभाय गत्वाऽन्यत्राऽनुतप्यते ।। ← ( इष्टो. ३९) इति इष्टोपदेशवचनमपि व्याख्यातम् ।
इदञ्चात्रावधेयम्-तृष्णादिवर्धकभवाभिनन्दित्वदोषोच्छेदेन ग्रन्थिभेदपूर्वं चेतोविमुक्तिः सम्पद्यते ग्रन्थिभेदोत्तरं च तारतम्यशालिनी प्रज्ञाविमुक्तिः मिथ्यादर्शनविलयादिप्रयुक्तोदयते । स्थिरायामवस्थितो योगी ताभ्यां विमुक्तिभ्यां सम्यगालोचयति भवस्वरूपादिकमभ्रान्ततया अपुनर्बन्धकादपि सूक्ष्मतरम् । अत एव न भोगसुखकृते मिथ्याऽऽजीविकामस्यामवस्थितोऽवलम्बते । ततश्च शाक्यपुत्रोक्ताऽष्टाङ्गिकमार्गगता सम्यगाऽऽजीविकाऽप्यत्रानाविलैव । तदुक्तं मज्झिमनिकाये दीघनिकाये च कतमो च, भिक्खवे, सम्माआजीवो ? इध, भिक्खवे, अरियसावको मिच्छाआजीवं पहाय सम्माआजीवेन जीवितं कप्पेति। अयं वृच्चति, भिक्खवे, सम्माआजीवो ← ( दी. नि. २।९।४०९, म.नि. भाग - १/१/१०/१३५, सत्यविभङ्गसूत्र३ ।४ ।११ ।३७५ ।पृष्ठ-३०० ) इति । मज्झिमनिकाये महाचत्वारिंशत्कसूत्रे कुहना, लपना, नेमित्तिकता, निप्पेसिकता, लाभेन लाभं निजिगीसनता- अयं भिक्खवे ! मिच्छाआजीवो ← (म.नि.३ ।२ । ७ । १४० ) इत्येवमुपवर्णिता मिथ्याऽऽजीविका न स्वरसतः सम्यग्दर्शनशालिनि सम्भवति । न हि प्रज्ञादोषविमुक्तो मिथ्याऽऽजीविकामुपजीवति स्वरसतः, अन्यथा तत्त्वहान्यापत्तेः । भोगे प्रकृतिसुन्दरत्व-स्थिरत्वादिभानं तु मिथ्याऽऽजीविकादिप्रयोजकं महामोहविलसितमित्याकूतम् । तदुक्तं योगसारप्राभृते → गन्धर्वनगराऽऽकारं विनश्वरमवास्तवम् । स्थावरं वास्तवं भोगं बुध्यन्ते मुग्धबुद्धयः ।। ← (यो.सा. प्रा. ९ / १५ ) इति । तच्चात्र न सम्भवति, यतोऽस्यां दृष्टौ प्रलीनो महामोहराजः, उच्चाटितो महामिथ्यादर्शनपिशाचः, सञ्चूर्णिता अविद्याविकल्पाः, निरस्तो विषयतृष्णाऽनुबन्धः, निर्वासिता महामूढता, विपाटिता मकरध्वजगोचरा उपादेयता, निर्भिन्ना राग-द्वेषादयः, प्रज्ञया साक्षात्कृता आश्रवाः । अत एव न तत्र लीयतेऽसौ किन्तु साक्षिभावमव-लम्बते यथासामर्थ्यम् । बौद्धदर्शनाभिप्रेतः तात्त्विकः कायसाक्षी योगी परमार्थतः स्थिरायां सम्पद्यते (मज्झिमनिकाय- कीटागिरिसुत्त - २ २ १० । १८२ ) । मज्झिमनिकायदर्शितानि उपशमसम्बोधिगामीनि श्रद्धा-वीर्य- स्मृति-समाधि-प्रज्ञाबलानि प्रभवन्त्यस्यां वस्तुगत्येत्यवधेयम् (म.नि. महासकुलुदायिसुत्त - २ । ३७ ।२४७) । इत्थञ्च →
पाणच्चये वि न कुणइ जत्तो जिणसासणस्स उड्डाहो' । गुणिणो बहुमाणपरो दाराइसु सिढिलपडिबंधो।। संसारियअब्भुदये न मुणि हरिसं, असंजमे धणियं । वट्टन्तो परितप्पइ, मुणइ उवादेयमह धम्मं ।। चेइय- जइसूवजुज्जइ जत्तियमत्तं तदेव सहलं ति । अन्नमणत्थमणत्थस्स वड्ढयं मुणइ निच्वंपि ।। ← (पं.लि. २९/३०/३१ ) इति पञ्चलिङ्गिप्रकरणोक्ता सम्यग्दृष्टिदशाऽपि स्थिरायामनुसन्धेया मनीषिभिः यथागमम् ।। २४ / ३ ।।
પાંચમી દૃષ્ટિમાં રહેલા જીવને પોતાની તથાવિધ સાંસારિક પ્રવૃત્તિ લજ્જાસ્પદ લાગે છે. (૨૪/૩) વિશેષાર્થ :- ગ્રન્થિભેદના કારણે પાંચમી દૃષ્ટિમાં રહેલા જીવોમાં તથાવિધ બળવાન વિવેકદૃષ્ટિ ઊભી થયેલી હોય છે તેમ જ પ્રત્યાહાર નામનું યોગાંગ પ્રાપ્ત થયેલ હોય છે. તેથી બિનજરૂરી ભોગસુખ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org