________________
१६१८
अतिचारकारणमीमांसा •
मपि भवति, तथाऽतिचारभावात्, रत्नप्रभायामिव धूल्यादेरुपद्रवः ।
द्वात्रिंशिका - २४/१
दृष्टिमालिन्यं यथा भवति तथैव येनाऽनन्तानुबन्ध्यादिकषायाद्याः क्षयोपशममानीतास्तस्य तत्तुल्यं तत्त्वबोधमालिन्यमन्दत्वाऽस्पष्टतादिकं अपि भवति, तथाऽतिचारभावात् = शङ्का-काङ्क्षाद्यतिचारलक्षणप्रकोपसद्भावात् । एतेन शङ्कादिसद्भावे मूलतः तत्त्वबोधोच्छेदकल्पना निरस्ता, यतो रत्नप्रभायां = प्रक्षीणमलस्य जात्यरत्नस्य कान्तौ धूल्यादेः आवरणस्य उपद्रवः इव तत्त्वबोधनैर्मल्ये शङ्काद्यतिचारोपद्रवो वर्तते । यथा जात्यरत्नोपरि धूल्यादिप्रक्षेपे तदीयप्रभा केवलमाच्छाद्यते न तु मूलतः सर्वथोच्छिद्यते तथैव शङ्का-काङ्क्षाद्यतिचारधूल्युपद्रवे तत्त्वबोधीयनिर्मलता केवलमाच्छाद्यते, न तु मूलतः सर्वथैवोच्छिद्य यथा धूल्यादिः जात्यरत्नप्रभां प्रत्येवोपद्रवः, न तु जात्यरत्नं प्रति तथैव शङ्काद्यतिचारः तत्त्वबोधनिर्मलतां प्रत्येवोपद्रवः, न तु तत्त्वबोधं प्रति । तत्त्वबोधस्तु तदानीमपि विद्यत एव । अत एव शङ्काद्या अतिचारत्वेन भण्यन्ते, न त्वनाचारतया इत्यवधेयम् ।
ननु प्रक्षीणमलस्य जात्यरत्नस्य प्रभायां बहिरङ्गस्य धूल्यादेरावरणस्योपद्रवः सम्भवतु, स्थिरायां दृष्टौ तु नाऽतिचारः सम्भवति, सर्वविरतावेव सञ्चलनोदय एवाऽतिचाराऽभिधानादिति शङ्काद्युपधायकमिथ्यात्वविपाकोदयतः सर्वथा नाश एव तस्याः भवेद्, मिथ्यात्वप्रदेशोदयस्य शङ्काद्यतिचारोपधायकत्वे तु क्षायोपशमिकसम्यग्दर्शनसहचरितायां स्थिरायां निरतिचारत्वं दुर्लभं स्यादिति चेत् ? मैवम्, यतः → 'सव्वे वि य अइयारा संजलाणं तु उदयओ होंति । मूलच्छेज्जं पुण होइ बारसहं कसायाणं ।।' ← ( आ.नि. ११२) इति आवश्यकनिर्युक्तिवचनात् यथा सञ्ज्वलनोदये सर्वविरतिरवाप्यते तत्रातिचाराश्च भवन्ति, एवं प्रत्याख्यानावरणोदये देशविरतिः तदतिचाराश्च, अप्रत्याख्यानाऽऽवरणोदये सम्यक्त्वं जायतां तदतिचाराश्च भवन्तु, न्यायस्य समानत्वात् । विचित्रो ह्युदयः कषायाणां, ततोऽसौ गुणलाभस्याऽप्रतिबन्धकः तदतिचाराणाञ्च निमित्तं भवति, सञ्ज्वलनोदयवदिति । अन्ये पुनराहुः सम्यक्त्व - देशविरत्यतिचाराः क्रमेण प्रथम-द्वितीयकषायोदयाद् भवन्ति, विचित्रो हि तदुदयः देशतः सर्वतश्च विराधनाया हेतुर्भवतीति मतद्वयमिदं पञ्चाशकवृत्तौ ( पञ्चा. १ / ९ वृ.) स्पष्टम् । न चैवमपि क्षायोपशमिकसम्यक्त्वसहचरितायाः तु तस्याः निरतिचारत्वं दुर्लभमेव, अतिचारनिमित्तस्याऽ प्रत्याख्यानावरणोदयस्य सत्त्वेन शिथिलमूलत्वादिति वाच्यम्, अतिचारनिमित्तस्याऽप्रत्याख्यानावरणकषायोदयस्य सत्त्वेऽपि शङ्काद्यकरणेऽतिचाराऽसम्भवात् । न हि निमित्तमस्त्येतावता मात्रेण नैमित्तिकं निष्पद्यते, अतिप्रसङ्गात् । केवलकर्मोदयवशत उत्थितुका
આવે, બરાબર ન દેખાય, ઝાંખું દેખાય, તેમ તથાવિધ શંકા-કાંક્ષા વગેરે અતિચારોના ઉપદ્રવના કારણે સાતિચાર દૃષ્ટિમાં તત્ત્વબોધમાં થોડી મલિનતા-અસ્પષ્ટતા મંદતા આવી જાય છે. જેમ નિર્મળ શ્રેષ્ઠ રત્નની ઉ૫૨ કોઈ બહારથી ધૂળ-કાદવ વગેરે નાંખે તો નિર્મળ રત્નની પ્રભા માટે તે ઉપદ્રવભૂત સાબિત થાય છે તેમ નિર્મળ બોધ ઉપર અતિચારરૂપ ધૂળનો ઉપદ્રવ સમજવો. અર્થાત્ ધૂળ જેમ નિર્મળ રત્નની કાંતિને ઢાંકે છે, પ્રભાને આવરે છે પણ તેનો નાશ કરવાની તાકાત તેનામાં નથી તેમ અતિચાર પણ બોધની નિર્મળતાને આવરે છે. પરંતુ તેનો સંપૂર્ણ નાશ કરવાની તાકાત અતિચાર-ધૂળમાં નથી હોતી. શંકા વગેરે અતિચારો લાગે કે ન લાગે પરંતુ સ્થિરા દૃષ્ટિમાં રહેલા સાધકનું તત્ત્વદર્શન-તત્ત્વવિનિશ્ચય
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org