________________
१६१०
• कपिलादीनां सर्वज्ञत्वमीमांसा • द्वात्रिंशिका-२३/२९ विरुद्धेषु सुपण्डिताः। राग-द्वेषौ न कुर्वन्ति शुद्धब्रह्मोपयोगिनः ।। (अध्या.गी.६३) परस्परविरुद्धेषु धर्मेषु दर्शनेषु च। सत्यं सापेक्षिकं यत् तद् गृह्णन्ति नयकोविदाः ।। (अध्या.गी.६८) इति ।
तथापि सम्प्रदायादिप्राधान्येन कुतर्कवादिनो धर्ममुपसर्जयन्तीति करालकलिकालविलासो बोध्यः । तदुक्तं शम्भुगीतायां अपि → धार्मिके विप्लवे जाते धर्मं गौणं विदन्त्यहो !। अहम्मन्या जनाः सर्वे पाषण्डे पण्डिता भृशम् ।। 6 (शं.गी.१/५३) इति । प्रकृते → भिन्नेषु धर्मशास्त्रेषु विरुद्धाऽऽचारकर्मसु । अविरोधे प्रपश्यन्ति मद्रूपं ज्ञानयोगिनः ।। - (म.गी.२/३७६) इति महावीरगीतावचनमपि दृढतरमवधेयम् । ततश्चाऽन्यदर्शनेष्वपि क्षीर-नीरन्यायेनाऽपुनर्बन्धकादिगृहीतानां सुविशुद्धशीलादिपदार्थानां सर्वज्ञवचनाऽनुसारितया सर्वज्ञशासन-भावस्याऽव्याहतत्वमेव । इदमेवाभिप्रेत्य ग्रन्थकृताऽपि वैराग्यकल्पलतायां → हंसेनेव जलात् क्षीरमपुनर्बन्धकेन तत् । विवेकेन गृहीतं तु स्यात् स्वरूपेण सुन्दरम् ।। इत्थं स्वरूपशुद्धत्वं, तत्राऽन्यपदमिश्रणात् । निहन्यते न सिद्धान्ते, यथा मिथ्यात्विसंग्रहात् ।।
अत एवाऽन्यशास्त्रस्य, सत्यार्थपददूषणे । तन्मूलपूर्वजलधेर्भवत्याशातना ध्रुवा ।। तदेवं सर्वतीर्थेषु, भावात् सर्वगुणात्मकम् । जैनतीर्थं स्थितं ज्ञेयं, न लिङ्गं धर्मकारणम् ।। तदेतद् व्यापकं प्रोक्तं, मया ते जैनदर्शनम् । यद् वेद्यसंवेद्यपदस्थितैर्भावेन दृश्यते ।। उपलब्धे हि तत्तत्त्वे, जीवानां मलसम्भवाः । स्वयमेव निवर्तन्ते, मोहिन्यो भेदबुद्धयः ।।
नयेषु स्वार्थसत्येषु, मोघेषु परचालने । समशीलं मनो यस्य, स हि सम्यक्त्वभूषितः ।। उच्यतां वैष्णवं वा तद् ब्राह्मणं वाऽभिधीयताम् । बौद्धं वा गीयतां यद् वा माहेश्वरमुदीर्यताम् ।। कथ्यतां वाऽथ जैनेन्द्रं ज्ञातार्थेनिवैर्मतम् । अविनष्टे हि भावार्थे शब्दभेदो न दुष्यति ।। प्रसीदन्त्यर्थवैशद्याद् न बुधाः शब्दमात्रतः । विनाऽर्थं 'देव' इत्युक्तो मूर्ख एव हि तुष्यति ।।
6 (वै.क.ल.९/१००५-८,१०४७-४९,१०८३-१०८५) इत्युक्तम् । अत्र 'जैनतीर्थं यद्वा जैनदर्शनं = सर्वज्ञशासनम्' इत्यर्थः कार्यो मध्यस्थैः ।
प्रकृते कपिलादीनां सर्वज्ञत्वं दिव्यज्ञानाऽपेक्षया यद्वाऽतीत-व्यवहित-विप्रकृष्टाद्यर्थविज्ञानविवक्षयोपचाराद् बोध्यम्, न तु कृत्स्नद्रव्य-पर्यायगोचराऽपरोक्षकृत्स्नज्ञानापेक्षयेति ध्येयम् ।
केचित्तु प्रकृते → लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहारः ।... लौकिकपरीक्षकग्राह्येषु उपचारगम्येषु यथास्थूलार्थेषु सम्प्रत्ययो व्यवहारः।... समुदाय-व्यक्त्याकृति-सत्ता-संज्ञादिनिश्चयापेक्षम् । लोकोपचारनियतं व्यवहारं विस्तृतं विद्यात् ।। - (त.सू.१/३५ भा.पृष्ठ ११८-१२३-१२७) इति तत्त्वार्थभाष्यवचनतः, → लोगववहारपरो ववहारो (वि.आ.भा.३५८९) → ववहारपरो व जओ विसेसओ तेण ववहारो - (वि.आ.भा.२२१२) इति विशेषावश्यकभाष्यवचनतश्च कपिलादीनां सर्वज्ञत्वोक्तिः तथाविधतत्कालीनलोकप्रवादापेक्षया व्यवहारनयाभिप्रायेण बोध्येति वदन्ति । ___ एतेन → कलिकलुषकृतानि यानि लोके मयि निपतन्तु विमुच्यतां स लोकः। मम हि सुचरितेन सर्वसत्त्वाः परमसुखेन सुखावनी प्रयान्तु ।। 6 ( ) इति सुगतभावना पूर्वं (द्वा.द्वा.१८/४ भाग-४ पृ.१२२४) मोहगर्भकरुणारूपतयाऽऽवेदिता तादृशकरुणायुक्ततच्चित्तस्य चाऽप्रामाणिकत्वं पूर्वं (द्वा.द्वा.४/२४ भाग-१, पृ.२८८) दर्शितं इह च सुगतस्य सर्वज्ञत्वमुक्तिमिति कथं न विरोधः ? इति समस्याऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org