________________
• सर्वे नयाः स्वस्थाने शुद्धाः
१६०९
कथं तेऽयुक्तभाषिणः ? ।। (शा.वा.स. ३/१५) अभिप्रायस्ततस्तेषां सम्यग् मृग्यो हितैषिणा । न्यायशास्त्राऽविरोधेन ← (शा. वा. स. ३/१६) इत्युक्तमिति प्रागुक्तं (पृ. ११४१) अत्र स्मर्तव्यम् । अत्यन्तकुदृष्टीनां लोकायतादीनां परलोकाऽवद्याद्यभीरुणां व्यवच्छेदाय 'प्राय' इत्युक्तम् ।
सव्वे
एतेनैवं सर्वेषां दर्शनानामाकाङ्क्षणे सर्वाऽऽकाङ्क्षाऽभिधानः सम्यग्दर्शनाऽतिचारः प्रसज्येतेति निरस्तम्, यथोचितविवेकदृष्टिप्रभावेन तदनवकाशात् । तदुक्तं अध्यात्मसारे अर्वाग्दशायां दोषाय वैषम्ये साम्यदर्शनम् । निरपेक्षमुनीनां तु राग-द्वेषक्षयाय तत् ।। ← ( अ.सा. १५ / ४६ ) इति । प्रकृते वि होंति सुद्धा नत्थि असुद्धो नयो उ सट्ठाणे ← (व्य.भा.पी. ४७ ) इति व्यवहारभाष्यपीठिकावचनमपि स्मर्तव्यम् । ततश्च न शब्दभेदे दृष्टिरागादिना वितण्डावादादिपरतया भवितव्यमत्र । तदुक्तं अध्यात्मतत्त्वालोके अपि →
न वादमार्गान्न च तर्कशास्त्रात् प्रकाशमायात्यकृतात्मनां धीः । तत्त्वस्य सिद्धेः परमस्तु पन्था योगः सतां सम्मत एक एव ।। शास्त्रार्थशक्त्या न पराभिभूतेरभ्यासमात्रान्न च शास्त्रराशेः । सिद्धिं समागच्छति तत्त्वभूमिरालम्बतेऽसौ शमशालि शीलम् ।। न शब्दभेदे कलहो विधेयो नानाविधानां खलु दर्शनानाम् । विचारणीयं परमार्थतत्त्वं समं हि पश्यन्ति समेक्षिणस्तु ।। स्वजीवनं शोधयितुं प्रयत्नः तत्त्वाऽवबोधाय सदा विधेयः । समाहिते चेतसि शुद्धिभाजि सम्यग्दृशः सम्भविता प्रकाशः 11 ← (अ.त.३/११२-११५ ) इति । युक्तञ्चैतत्, इत्थमेव सम्यग्दृष्टिपरिगृहीतस्य मिथ्या श्रुतस्याऽपि सम्यक् श्रुतत्वसिद्धेः । वेषवैलक्षण्यमात्रेण निर्व्याजपरार्थकरणशीलतन्त्रान्तरीयमहर्षितिरस्कारेऽखिलमहर्षितिरस्काराऽऽपत्तिः, एकस्याऽपि गुणिनः तिरस्कारे तद्गतगुणतिरस्कारेण तद्द्वारा निखिलगुणितिरस्कारस्य न्याय्यत्वात् । इत्थमेवैकस्मिन् साधौ हीलिते पूजिते वा सकलसाधूनां हीलना पूजा वेति सङ्गच्छते । यथा चैतत्तथा स्पष्टीभविष्यति विनयद्वात्रिंशिकायाम् (भाग-७, पृ.१९७६) । इत्थञ्च (शास्त्रवार्तासमुच्चय ३/४४) दिव्यमहामुनिकपिलाद्यभिप्रायमनुन्नीय तद्देशनाद्वेषस्तु दृष्टिवादद्वेषपर्यवसायित्वान्न युक्तो वीतरागसमयस्थितानाम् । तदुक्तं उपदेशपदे → जं अत्थओ अभिन्नं अण्णत्था सद्दओ वि तह चेव । तम्मि पओसो मोहो विसेसओ जिणमयठियाणं ← (उप.प.६९३) इति पूर्वं (पृ. १०४) उक्तमेव । तदुक्तं अध्यात्मगीतायामपि सर्वदर्शनभेदेषु
•
વિશેષાર્થ :- સર્વજ્ઞની દેશના તો સર્વનયમય એકસરખી જ હતી. પણ દુઃષમ કાળ, ભરતક્ષેત્ર, ભારેકર્મી જીવો, તેમના ભાવો- વગેરેને આધારે કપિલ વગેરે મહર્ષિઓએ તે જીવોને જેવી ધર્મદેશનાથી આત્મકલ્યાણ આદિ લાભ થવાનું જોયું તે મુજબ દ્રવ્યાસ્તિક નય વગેરેને મુખ્ય બનાવીને સદ્ધર્મદેશના આપી. પણ તે દેશનાનું મૂળ તો પરમાર્થથી સર્વજ્ઞની જ દેશના હોવાના કારણે તે નયદેશના વિવિધ પ્રકારની બની હોવા છતાં પણ તે ધર્મદેશના અપ્રમાણભૂત ન કહેવાય. તેને અપ્રમાણભૂત કહેવા દ્વારા સર્વજ્ઞની અવજ્ઞા કરવી તે અત્યંત નુકશાનકારક છે. (૨૩/૨૯)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org