________________
• संशय-विपर्ययादिराहित्येन भाव्यबोध •
।। अथ योगावतारद्वात्रिंशिका ॥२०॥ अनन्तरोक्तो योगविवेकः स्वाभिमतयोगभेदे परोक्तयोगानामवतारे सति' व्यवतिष्ठत इत्यतोऽयं निरूप्यते
सयतेसम्प्रज्ञातोऽपरश्चेति द्विधाऽन्यैरयमिष्यते । सम्यक् प्रज्ञायते येन सम्प्रज्ञातः स उच्यते ॥१॥
सम्प्रज्ञात इति । सम्प्रज्ञातोऽपरो = असम्प्रज्ञातः चेति अन्यैः = पातञ्जलैः अयं = योगो द्विधेष्यते । सम्यक् = संशय-विपर्ययाऽनध्यवसायरहितत्वेन प्रज्ञायते = प्रकर्षेण ज्ञायते भाव्यस्य
नयलता, स्वतन्त्रदर्शितो योगविवेकोऽन्योक्तयोगतः । अवतारे कृते तिष्ठेदित्यन्योक्तोऽवतार्यते ।।१।।
विंशतितमद्वात्रिंशिकाया अवतरणिकामाह- अनन्तरोक्तः = अनन्तरमेकोनविंशतितमद्वात्रिंशिकायां विस्तरेणाऽभिहितो यो योगविवेकः = योगपदार्थभेदः स स्वाभिमतयोगभेदे = जैनदर्शनसम्मतयोगप्रकारेषु परोक्तयोगानां = परतन्त्राभिहितयोगप्रकाराणां अवतारे = अन्तर्भावे सति व्यवतिष्ठते = व्यवस्थितः सम्पद्यते इति = एवं अतो हेतोः अस्यां द्वात्रिंशिकायां अयं = योगावतारो निरूप्यते- 'सम्प्रज्ञात' इति । व्युत्पत्त्यर्थमनुरुध्य व्याख्यानयति- सम्यक् = संशय-विपर्ययाऽनध्यवसायरहितत्वेन = समारोपशून्यत्वेनेति। तल्लक्षणानि प्रमाणनयतत्त्वालोकालङ्कारे वादिदेवसूरिभिः → अतस्मिंस्तदध्यवसायः समारोप इति । स विपर्यय-संशयाऽनध्यवसायभेदात् विधेति । विपरीतैककोटिनिष्टङ्कनं विपर्यय इति । यथा शुक्तिकायां 'इदं रजतमिति । साधक-बाधकप्रमाणाभावादनवस्थिताऽनेककोटिसंस्पर्शि ज्ञानं संशय इति । यथा 'अयं स्थाणुर्वा पुरुषो वेति । 'किम् ?' इत्यालोचनमात्रमनध्यवसाय इति । यथा गच्छत्तृणस्पर्शज्ञानमिति - (प्र.न.त. १/८-१५) इत्युक्तानि । एतेन → अनुभयत्रोभयकोटिस्पर्शी प्रत्ययः = संशयः (प्र.मी.१/५) विशेषानुल्लेखोऽनध्यवसायः (प्र.मी.१/६) अतस्मिंस्तदेवेति विपर्ययः - (प्र.मी.१/७) इति प्रमाणमीमांसासूत्राणि अपि व्याख्यातानि, शब्दभेदेऽपि तात्पर्यतोऽर्थाऽभेदादिति भावनीयम् ।
प्रकर्षेण = उत्तरोत्तरविशेषधर्माऽभिमुखतया ज्ञायते वेद्यते वा भाव्यस्य = भावनाविषयस्य वक्ष्यमाणस्याऽनेकविधस्य स्वरूपं येन योगेन स सम्प्रज्ञातः समाधियोगो भावनाविशेषः इति पातञ्जलैः उच्यते ।
હ યોગાવતાર બત્રીસી પ્રક્રશ હ. ૧૯મી બત્રીસીમાં યોગસંબધી વિવેકને ગ્રંથકારશ્રીએ જણાવ્યો. આ યોગવિવેક = યોગભેદ ત્યારે જ ટકી શકે કે જ્યારે જૈન દર્શનને માન્ય યોગના પ્રકારોમાં અન્યદર્શને જણાવેલા યોગોનો સમાવતાર થાય. માટે આ બત્રીસીમાં યોગસમવતારનું નિરૂપણ કરવામાં આવે છે.
હ સંપ્રજ્ઞાત યોગનો પરિચય હિ ગાથાર્થ - અન્યદર્શનીઓ વડે સંપ્રજ્ઞાત અને અસંપ્રજ્ઞાત એમ બે યોગ માન્ય કરાય છે. જેના વડે સારી રીતે જણાય તે સંપ્રજ્ઞાત યોગ કહેવાય છે. (૨૦૧૨)
ટીકાર્થ :- પાતંજલ વિદ્વાનો સંપ્રજ્ઞાત અને અસંપ્રજ્ઞાત - આમ યોગના બે પ્રકાર માને છે. ભાવ્યા પદાર્થનું સ્વરૂપ વાસ્તવમાં સંશય - વિપર્યય – અજ્ઞાનરહિતપણે પ્રકૃષ્ટ રીતે જેના વડે જણાય તે સંપ્રજ્ઞાત १. हस्तादर्श'...वतारेऽवतिष्ठत' इति पाठः । २. हस्तादर्शान्तरे ‘स तिष्ठत' इति पाठः । ३. हस्तादर्श 'प्रज्ञा...' इति त्रुटितः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org