________________
• इच्छायोगादीनां परदर्शनोद्भुतता •
१२६७ ॥ अथ योगविवेकद्वात्रिंशिका ।।१९।। अध्यात्मादीन् योगभेदानुपदर्य तदवान्तरनानाभेदप्रदर्शनेन तद्विवेकमेवाहइच्छां शास्त्रं च सामर्थ्यमाश्रित्य त्रिविधोऽप्ययम् । गीयते योगशास्त्र निर्व्याजं यो विधीयते ॥१॥
इच्छामिति । इच्छां शास्त्रं सामर्थ्य चाश्रित्य त्रिविधोऽप्ययं योगो योगशास्त्रज्ञैर्गीयते, इच्छायोगः शास्त्रयोगः सामर्थ्ययोगश्चेति । यो निर्व्याजं = निष्कपटं विधीयते । सव्याजस्तु
नयलता यदवन्ध्याऽवबोधेन योगी याति परं महः। तस्य योगस्य भेदा हि दर्श्यन्ते स्वान्यतन्त्रतः।।
अनन्तरं योगभेदद्वात्रिंशिकायां अध्यात्मादीन् योगभेदान् = मोक्षप्रधानहेतुभूताऽऽत्मव्यापारप्रकारान् उपदर्श्य = योगबिन्दुप्रभृतिशास्त्राऽऽधारेणोपदर्य साम्प्रतमिह तदवान्तरनानाभेदप्रदर्शनेन = योगत्वव्याप्यधर्मावच्छिन्नप्रकारताऽऽश्रयाणां प्रत्येकमुपदर्शनेन तद्विवेकं = यथाऽऽगमं यथासम्भवं यथाशक्ति योगभेदं प्रकृतप्रकरणोपकारकं ग्रन्थकार आह- ‘इच्छामिति । योगशास्त्रज्ञैः = योगस्वरूप-हेतु-फल-प्रकार-विध्यादिप्रतिपादकनानातन्त्रशास्त्रविशारदैः योगिनामुपकाराय गीयते = अभिधीयते । इच्छायोगः = इच्छाप्रधानो योगः, शास्त्रादेरत्रोपसर्जनभावेनैव सत्त्वात् । शास्त्रयोगः = शास्त्रमुख्यो योगः, आत्मसामर्थ्यस्यात्राऽप्रधानतयैव विद्यमानत्वात् । सामर्थ्ययोगः = सामर्थ्यप्रचुरो योगः, शास्त्रादेरत्र दिग्दर्शनमात्रेणैवोपयोगात्। तदुक्तं ललितविस्तरायां → अथ क एते इच्छायोगादयः? उच्यते, अमी खलु न्यायतन्त्रसिद्धा इच्छादिप्रधानाः क्रियया विकलाऽविकलाऽधिकाः तत्त्वधर्मव्यापाराः (ल.वि.पृ.१३) इति । 'न्यायः = युक्तिः, स एव तन्त्रं = आगमः, तेन सिद्धाः = प्रतिष्ठिताः, सूत्रतः समये क्वचिदपि तदश्रवणात्' (ल.वि.पं.पृ.१५) इति ललितविस्तरापञ्जिकाकृतः । प्रकृते च →
प्रकृत्येच्छादियोगानां यत् कार्यमनुवर्तते । क्षयोपशमसामर्थ्यादिति तत्त्वविदो विदुः ।। नमस्कारादिको योगः सर्वोऽपि त्रिविधो मतः । सदिच्छा-शास्त्र-सामर्थ्ययोगभेदेन तत्त्वतः ।।। - (ब्र.सि.स.१८७-१८८) इति ब्रह्मसिद्धान्तसमुच्चयकारिकायुगलमप्यविस्मर्तव्यमवधाननिपुणैः ।
निष्कपटं = निर्दम्भं विधीयते । इह खलु दम्भसेवनविनिर्मोकेण योगाराधनाया आसन्नमुक्तिगामित्वमृतेऽनुपपत्तिः। अत एव दम्भस्य दुस्त्यजत्वं अध्यात्मसारे → सुत्यजं रसलाम्पट्यं, सुत्यजं देहभूषणम् । सुत्यजाः कामभोगाश्च, दुस्त्यजं दम्भसेवनम् ।। (अ.सा.३।६) इत्येवमुक्तमिति पूर्व(पृ.९३७) उपवर्णितम् ।
યોગવિવેકદ્વાબિંશિક પ્રમશ ૪ અધ્યાત્મ, ભાવના .....વગેરે યોગના પ્રકારો ૧૮મી બત્રીસીમાં બતાવીને ૧૯મી બત્રીસીમાં યોગના અનેક અવાજોર ભેદોને બતાવવા દ્વારા યોગસંબંધી વિવેકને = યોગના ભેદોને ગ્રંથકારશ્રી જણાવે છે.
ગાથાર્થ - ઇચ્છા, શાસ્ત્ર અને સામર્થ્યને આશ્રયીને આ યોગ યોગશાસ્ત્રવેત્તાઓ વડે ત્રણ પ્રકારનો ५९॥ उपाय छ निमप ४२राय छे. (१८/१)।
હ યોગના ત્રણ ભેદ છે ટીકાર્ય - ઇચ્છા, શાસ્ત્ર અને સામર્થ્યને આશ્રયીને આ યોગ યોગશાસ્ત્રજ્ઞો દ્વારા ત્રણ પ્રકારનો પણ કહેવાય છે. તેના નામ છે ઇચ્છાયોગ, શાસ્ત્રયોગ અને સામર્મયોગ. યોગ તે કહેવાય છે કે જે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org