________________
१५३२
• वेद्यसंवेद्यपदनियामकव्याख्यानम् • द्वात्रिंशिका-२२/२५ यद्यपि शुद्धं यथावद्वेद्यसंवेदनं माषतुषादावसम्भवि, योग्यतामात्रेण च मित्रादिदृष्टिष्वपि सम्भवि, तथापि वेद्यसंवेद्यपदप्रवृत्तिनिमित्तं ग्रन्थिभेदजनितो रुचिविशेष एवेति न दोषः ।।२५।। बुद्धिरेष तृप्त्यै नृभोगेषु विचेष्टते ही !।। (अ.तत्त्वा.१/२४-२५) अवेक्षमाणा अपि जन्म-मृत्यु-जराऽऽमयोपद्रवदुःखपूर्णम् । संसारमल्पेतरमोहदोषात् समुद्विजन्ते न ततोऽङ्गभाजः ।। (अ.तत्त्वा. ४/ ५) 6 इत्येवमावेदितः । अवेद्यसंवेद्यपदप्राबल्ये हि पारमार्थिकहेयोपादेयविभागाऽपरिज्ञानेन न तेषामकुशलधर्मोच्छेद-कुशलधर्मलाभसम्भवः ।
सम्मतञ्चेदं बौद्धानामपि । तदुक्तं मज्झिमनिकाये महाधर्मसमादानसूत्रे → यमिदं धम्मसमादानं पच्चुप्पन्नदुक्खञ्चेव आयतिञ्च दुक्खविपाकं, तं अविद्वा अविज्जागतो यथाभूतं नप्पजानाति- 'इदं खो धम्मसमादानं पच्चुप्पन्नदुक्खञ्चेव आयतिञ्च दुक्खविपाक न्ति । तं अविद्वा अविज्जागतो यथाभूतं अप्पजानन्तो तं सेवति, तं न परिवज्जेति । तस्स तं सेवतो, तं अपरिवज्जयतो, अनिट्ठा अकन्ता अमनापा धम्मा अभिवड्ढन्ति, इट्ठा कन्ता मनापा धम्मा परिहायन्ति । तं किस्स हेतु ? एवज्हेतं, भिक्खवे, होति यथा तं अविद्दसुनो - (म.नि.१/५/६/४७६, पृ.३९२) इति । 'धम्मसमादानं = प्राणातिपाताद्यकुशलधर्मग्रहणं, अविद्वा = अविद्वान्, अविज्जागतो = अविद्यागतः अवेद्यसंवेद्यपदस्थित इति यावत्, अमनापा = असुन्दराः, अविद्दसुनो = अविद्वान्' शिष्टं स्पष्टम् । यथागममत्रैतद् भावनीयं बहुश्रुतैः ।
यद्यपि शुद्धं = नैश्चयिकशुद्ध्युपेतं यथावद् = यथार्थमनेकान्तवादोत्थापितोत्सर्गाऽपवाद-नय-निक्षेपप्रमाण-सप्तभङ्ग्याद्यनुविद्धं वेद्यसंवेदनं = हेयोपादेयगोचरसंवेदनं माषतुषादौ ज्ञानावरणक्षयोपशमविशेषशून्यतया असम्भवि । न च तदानीं तादृशसंवेदनाऽभावेऽपि तद्योग्यतया तदुपचारसम्भवान्नाऽयं दोष इति वाच्यम्, यतो योग्यतामात्रेण = शुद्धयथार्थसंवेदनयोग्यतामात्रेण शक्त्या मित्रादिदृष्टिष्वपि शुद्धवेद्यसंवेद्यपदं सम्भवि । इत्थमव्याप्त्यतिव्याप्ती प्रतिभासेते तथापि वेद्यसंवेद्यपदप्रवृत्तिनिमित्तं हि ग्रन्थिभेदजनितो रुचिविशेष एव, न तु तादृशशुद्धसंवेदनम् । स च भिन्नग्रन्थितया माषतुषादावपि व्यक्त्या यथावस्थितवेद्यगोचरशुद्धसंवेदनशून्ये वर्तत एवेति नाऽव्याप्तिः । न ह्यविकलकारणसामग्रीसत्त्वे कार्योदयाऽयोगसम्भवः, तस्याः स्वाऽव्यवहितोत्तरक्षणाऽवच्छेदेन तद्व्याप्यत्वात् । न वा मित्राद्यासु चतसृषु दृष्टिषु शक्त्या यथावस्थितिवेद्यगोचरसंवेदनोपेतासु अतिव्याप्तिसम्भवः, तद्विरहादिति न कोऽपि दोषः । न हि कारणविरहे कार्योदयः सम्भवति । एतेन → ण सेणिओ आसि तहा बहुस्सुओ न या वि पन्नत्तिधरो न वायगो - (आ.नि.११५८) इति आवश्यकनियुक्तिवचनतः क्षायिकसम्यग्दर्शनवतोऽपि श्रेणिकादेः तथाविधश्रुतविवेकगर्भशुद्धसंवेद्यवेदनविरहेऽपि न क्षतिरित्यावेदितम् ।।२२/२५।।
જો કે શુદ્ધ યથાવસ્થિતસ્વરૂપે વેદ્યપદાર્થનું સંવેદન ભાષ-તુષ મુનિ વગેરેમાં સંભવતું નથી. તેમ જ માત્ર યોગ્યતારૂપે યથાવસ્થિતપણે વેદ્ય પદાર્થનું સંવેદન તો મિત્રા વગેરે ચારેય દષ્ટિઓમાં પણ સંભવી શકે છે. તેથી ક્રમશઃ અવ્યાપ્તિ અને અતિવ્યાપ્તિ દોષ આવે છે. તેમ છતાં પણ વેદસંવેદ્યપદનું પ્રવૃત્તિ નિમિત્ત ગ્રંથિભેદજન્ય વિશિષ્ટ રુચિ જ છે. માટે ઉપરોક્ત અવ્યાપ્તિ કે અતિવ્યાપ્તિસ્વરૂપ દોષને અવકાશ २तो नथी. (२२/२५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org