________________
=
• विद्याप्रभावोपवर्णनम् •
अन्यत्'
अवेद्यसंवेद्यपदम् एतद्विपर्ययात्'
उक्तलक्षणव्यत्ययात् ।
६ । नाणाविहेसु जुद्ध-भंडण -संगामाऽडवीसु मुहारणगिण्हण-सीउण्हदुक्ख-किलेसमाइएस पुरिसे लालेंति त्ति लगाओ ७ । पुरिसे जोग-निओएहिं वसे ठाविंति त्ति जोसियाओ ८ । पुरिसे नाणाविहेहिं भावेहिं वणिति त्ति वणियाओ ९ । ← (तं. वै. १५७ ) इति तन्दुलवैचारिक प्रकीर्णकदर्शितानि स्त्र्यादीनां निरुक्तानि भावनीयानि । अनेन ब्रह्मचर्यस्याऽतिदुष्करता द्योतिता । तदुक्तं उत्तराध्ययनसूत्रे उग्गं महव्वयं बंभं धारेयव्वं सुदुक्करं ← (उत्त. १९ / २९) इति । प्रकृते कामभोगाणुराएणं केसं संपडिवज्जइ ← (उत्तरा. ५/७ ) इति उत्तराध्ययनवचनोक्तरीत्या नरकक्लेशकारणीभूतं स्त्र्यादिकं भावयोगित्वावच्छिन्नेन सन्देहादिकं विना हेयतयैव निश्चीयते, स्वर्गादिकारणीभूतं दानादिकन्तु प्रयोजनभूततयैव, मोक्षकारणीभूतञ्च चारित्रादिकमुपादेयतयैव । ज्ञेयविषये कदाचित्क्षयोपशमवैगुण्यात्सन्देहादिकं स्यादपि, परं हेयोपादेययोस्तु नैव कदापि । प्रवर्तनं तु चारित्रमोहक्षयोपशमाद्यनुसारेणैव भिन्नग्रन्थीनामपि भवति । अन्वर्थयोगतो भिन्नग्रन्थ्यादिस्वरूपं वेद्यसंवेद्यपदमत्राऽवसेयम् । तदुक्तं योगदृष्टिसमुच्चये तत्पदं साध्वस्थानाद् भिन्नग्रन्थ्यादिलक्षणम् । अन्वर्थयोगतः तन्त्रे वेद्यसंवेद्यमुच्यते ।। ← ( यो. दृ.स. ७४) इति । → यत्राऽऽत्मा दृश्यते शुद्धः सच्चिदानन्दलक्षणः । आसक्तिः यत्र नैवाऽस्ति शुद्धप्रेमाऽस्ति तत्र हि ।। ← (प्रे.गी. २) इति प्रेमगीतादर्शित शुद्धप्रेमयोगबलेन वेद्याऽऽत्मसंवेदनमत्राऽवसेयम् । प्रकृते → अज्ञानिना न संवेद्यः संवेद्यः प्रेमयोगिना । शुद्धप्रेममयं ब्रह्म स्वेनाऽनुभूयते स्वयम् ।। ← ( प्रे.गी. ५० ) इति प्रेमगीतावचनमप्यनुयोज्यमागमानुसारेण । एतच्च विद्यामाहात्म्यमवसेयम्, जेण बंधं च मोक्खं च जीवाणं गतिरागतिं। आयाभावं च जाणाति सा विज्जा दुक्खमोयणी ।। ← (ऋ.भा. १७/२ ) इति ऋषिभाषितवचनात् । अत्र च आशुप्रज्ञत्वं, तीव्रप्रज्ञत्वं क्षिप्रप्रज्ञत्वं, तीक्ष्णप्रज्ञत्वं, महाप्रज्ञत्वं, निषेधिकप्रज्ञत्वञ्चोपजायत इत्यवधेयम् ।
=
अवेद्यसंवेद्यपदं उक्तलक्षणव्यत्ययात् मतम् । तथाहि अवेद्यं अवेदनीयं = वस्तुस्थित्या न तथाभावयोगिसामान्येनाऽप्यविकल्पकज्ञानग्राह्यम्, तथाविधसमानपरिणामाऽनुपपत्तेः, तत् संवेद्यते = 3Tज्ञानावरणक्षयोपशमाऽनुरूपं निश्चयबुद्ध्योपप्लवसारया मृगतृष्णोदकवत् ज्ञायते यस्मिन् पदे तत्तथाविधम् । अत एव मिथ्यात्वोदयतोऽपायहेत्वासेवनसमाकुलम् । तदुक्तं योगदृष्टिसमुच्चये अवेद्यसंवेद्यपदं विपरीतमतो मतम् । भवाऽभिनन्दिविषयं समारोपसमाकुलम् इत्यसत्परिणामाऽनुविद्धो बोधो न सुन्दरः । तत्सङ्गादेव नियमाद् विषसम्पृक्तकान्नवत् ।। एतद्वन्तोऽत एवेह विपर्यासपरा नराः । हिताऽहितविवेकान्धाः खिद्यन्ते साम्प्रतेक्षिणः ।। जन्म-मृत्यु-जरा-व्याधि-रोग-शोकाद्युपद्रुतम् । वीक्षमाणा अपि भवं नोद्विजन्तेऽतिमोहतः ।।
← (यो. दृ. ७५, ७७-७९) इति । महामोहविलासः अध्यात्मतत्त्वालोकेऽपि शरीरमेवात्मतया विदन्तो विदन्ति नैतत् खलु 'कोऽहमस्मि ? ' । इदं जगत् विस्मृतवत् स्वमेव स्वस्मिन् भ्रमः स्फूर्जति कीदृशोऽयम् !? ।। अटन् भवेऽयं विविधानभुङ्क्त संसारभोगान् बहुशः शरीरी । तथाप्यतृप्तो जडઆના કરતાં ઊલટા લક્ષણવાળું અવેઘસંવેદ્યપદ હોય છે.
१. हस्तादर्शे 'अन्यवेदवेद्य' इत्यशुद्धः पाठः । २ हस्तादर्शे 'विदर्या ...' इत्यशुद्धः पाठः ।
Jain Education International
=
१५३१
For Private & Personal Use Only
www.jainelibrary.org