________________
१५२६
• शुद्धात्मग्रहणोपायोपदर्शनम् • द्वात्रिंशिका-२२/२४ अत एवाऽनुल्बणमित्यर्थः । एतदपि 'पदमासु चरमयथाप्रवृत्तकरणेनरे एवेत्याचार्याः । नामञ्च रूपञ्च असेसं उपरुज्झति । पटिघं रूपसञा च एत्थेसा छिज्जते जटा ।। - (सं.नि. ११।३।३।२३ पृ.१६) इति संयुत्तनिकायगाथाऽप्यवश्यमनुसन्धेया मध्यस्थतादिगुणोपेतकोविदैः । प्रकृते → विकारप्रतिषेधादिं समाधिं विधिलक्षणम् । कुर्वनेकान्ततः सद्यः सम्यग्दर्शनमाप्नुयात् ।। - (रा.गी.८/ २५) रामगीतावचनमपि 'एकान्ततः = एकान्तमाश्रित्य = विजनमवलम्ब्य' इति यावदित्यर्थयोजनां कृत्वा यथातन्त्रमनुयोज्यम् ।
→ (१) न वाचं विजिज्ञासित, वक्तारं विद्यात् (२) न गन्धं विजिज्ञासित, घ्रातारं विद्यात् (३) न रूपं विजिज्ञासित, रूपविद्यं विद्यात् (४) न शब्दं विजिज्ञासित, श्रोतारं विद्यात् (५) नाऽन्नरसं विजिज्ञासित, अन्नरसस्य विज्ञातारं विद्यात् (६) न कर्म विजिज्ञासित, कर्तारं विद्यात् (७) न सुखदुःखे विजिज्ञासित, सुख-दुःखयोर्विज्ञातारं विद्यात् (८) नाऽऽनन्दं न रतिं न प्रजातिं विजिज्ञासित, आनन्दस्य रतेः प्रजातेर्विज्ञातारं विद्यात् (९) नेत्यां विजिज्ञासितैतारं विद्यात्, (१०) न मनो विजिज्ञासित मन्तारं विद्यात् - (कौषी.३/८) इति कौषीतकिब्राह्मणोपनिषद्वचनतात्पर्यमवलम्ब्य विवेक-विज्ञान-विविदिषाविरागता-विशुद्ध्याधुत्कर्षवशतः शुद्धात्मतत्त्वगोचराऽज्ञानाऽपगमे ध्यानादिकालीन-दिव्यध्वनिश्रवण-दिव्यगन्धघ्राणन-श्वेतादिप्रकाश-दिव्यरूपदर्शनादिगोचरौदासीन्यप्रादुर्भावद्वारा → न दृष्टेष्टारं पश्येः, न श्रुतेः श्रोतारं शृणुयाः, न मतेमन्तारं मन्वीथाः, न विज्ञातेः विज्ञातारं विजानीयाः । एष ते आत्मा सर्वान्तरः, अतोऽन्यदाऽऽर्तम् - (बृह.३/४/२) इति बृहदारण्यकोपनिषदैदम्पर्यार्थपरिणमनतः → अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायां रताः ।। - (बृह.४/४/१०) इति बृहदारण्यकोपनिषदाशयाऽऽकलनतः प्रज्ञां केवलं साधनीकृत्य → कह सो घिप्पइ अप्पा ? पण्णाए सो उ घिप्पए अप्पा - (स.सा.२९६) इति समयसारोक्तरीत्या शुद्धप्रज्ञयाऽऽत्मानं प्रगृह्य, → कम्ममहीरुहमूलच्छेदसमत्थो सकीयपरिणामो 6 (नि.सा.११०) इति नियमसारवचनानुसारेण निजविशुद्धस्वरूपा ऽवस्थानोद्देश्यकवीर्योल्लासगर्भनिजान्तरङ्गशुद्धपरिणामप्राबल्यतो ग्रन्थिं भिनत्ति कश्चिदेव भव्यसत्त्वः । प्रकृते → यदा ह्यज्ञानकालुष्यं जन्तोर्बुद्धिः क्रमिष्यति । तदाऽसौ याति वैराग्यं 6 (ग.गी.१/५१) इति गणेशगीतावचनमप्यनुयोज्यमत्र यथातन्त्रम् । अत्र अस्मदीयाः श्लोकाः
लौकिकैरपि शास्त्रैस्तु लोकोत्तराऽर्थनिश्चयः । तादृक्स्वशास्त्रविच्छेदात् सम्भवत्येव कुत्रचित् ।।१।। मार्गस्थो जायते हेतुः शुद्धाऽऽराधनयोगतः । क्षयोपशम एवाऽत्र, गुरुदेवाद्यनुग्रहात् ।।२।। मकरन्दं पिबन्भृङ्गो गन्धान्नाऽपेक्षते तथा । आत्माऽऽसक्तेन चित्तेन विषयो नैव लक्ष्यते ।।३।। स्वाचार-भक्ति-वैराग्यैः सञ्जातज्ञानवह्निना । दग्ध्वा ग्रन्थिमुदासीनो यत्पदं याति तद् भजे ।।४।।
अत एव = आद्यदृष्टिचतुष्के वेद्यसंवेद्यपदस्याऽतात्त्विकत्वादेव तत्र वेद्यसंवेद्यपदं अनुल्बणं = अव्यक्तं इत्यर्थः । एतदपि पदं = अतात्त्विकवेद्यसंवेद्यपदं आसु = मित्राद्यासु चतसृषु दृष्टिषु चरमयथाप्रवृत्तकरणेन हेतुना एव सम्भवति इति आचार्याः = योगाचार्याः प्राहुः । પણ પ્રથમ ચાર યોગદષ્ટિમાં ચરમ યથાપ્રવૃત્તકરણના કારણે જ હોય છે- આ પ્રમાણે યોગાચાર્યો કહે છે. १. सर्वत्र प्रतिसु 'चरमासु' इति पाठः । परं योगदृष्टिसमुच्चयवृत्त्यनुसारेणात्र ‘पदमासु' इति पाठः समीचीनः प्रतिभाति । २. हस्तादर्श '...करणि...' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org