SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ • दीप्रायामवेद्यसंवेद्यपदप्राबल्यमीमांसा • १५२५ पक्षिच्छायायां जलसंसर्गिन्यां 'पक्षिधिया जलचरप्रवृत्तिरिवाभा वेद्यसंवेद्यपदसम्बन्धिनी यत्र तत्तथा (= पक्षिच्छायाजलचरप्रवृत्त्याभं) । तत्र हि न तात्त्विकं वेद्यसंवेद्यपदं, किं त्वारोपाधिष्ठानसंसर्गितया तात्त्विकं । कारणात् मित्राद्यासु चतसृषु दृष्टिषु अवेद्यसंवेद्यपदं अधिकं बलवद् सम्पद्यते । तटाक - सरो-नदी-समुद्रापरि गगने पक्षिषु डयमानेषु सत्सु जलसंसर्गिन्यां पक्षिच्छायायां तदाकारसादृश्यादिना पक्षिघिया भक्ष्यत्वप्रकारकपक्षिबुद्ध्या जलचरप्रवृत्तिः मांसभक्षणकारि-बुभुक्षितमहामत्स्य-मकर-ग्राह- तिमिंगल-शिशुमारप्रभृतिजलचराणां धावन-वल्गन - पाटन-भक्षणादिलक्षणविसंवादिप्रवृत्तिः इव वेद्यसंवेद्यपदसम्बन्धिनी = आसन्नतरवेद्यसंवेद्यपदसंलग्ना आभा = छाया यत्र अवेद्यसंवेद्यपदे तत् तथा = पक्षिच्छायाजलचरप्रवृत्त्याभम् । तथाविधाऽर्थक्रियाकारित्वविरहेण विसंवादीत्यर्थः । तत्र = मित्राद्यासु चतसृषु दृष्टिषु हि न = नैव तात्त्विकं पारमार्थिकं वेद्यसंवेद्यपदं सम्भवति, किन्तु आरोपाऽधिष्ठानसंसर्गितया अतात्त्वि - कमिति । तत्राऽसतः कथञ्चित्सादृश्यादिना सत्त्वधीरारोप उच्यते । ततश्च यथा पक्ष्यारोपस्याऽधिष्ठानभूतायाः पक्षिच्छायायाः संसर्गिणि जले न परमार्थतः पक्षित्वं तथा मित्राद्यासु चतसृषु वर्तमानानां योगिनां पिहितलोचनानां ध्यानाद्यवसरे जायमानस्य स्वानुभूत्याद्यारोपस्याऽधिष्ठानभूता येऽन्तः प्रतिभासमानाः श्वेत-रक्तादिप्रकाशादयः तत्संसर्गिणां श्वेत रक्तादिपुद्गलविशेषाणां नैव परमार्थतोऽपरोक्षस्वानुभूत्यपराभिधानपरमात्मसाक्षात्कारत्वं सम्भवति । न हि निरञ्जनस्य निराकारस्याऽमूर्त्तस्य शुद्धात्मनः तादृशश्वेतादिप्रकाशमानपुद्गलपुञ्जलक्षणं नाम-वितर्क-रूपादिसंज्ञासमेतं पारमार्थिकं स्वरूपं समस्ति येन तदनुभवोऽपरोक्षस्वानुभूतिरूपः स्यात् । तथापि सूक्ष्मभेदविज्ञानविरहेण तादृशाऽनुभवे स्वाऽनुभूतित्वमारोप्य स्वं कृतकृत्यं मन्यमाना ग्रन्थिदेशमागता अभिन्नग्रन्थयो योगिनः तादृशविपर्यासतो निबिडग्रन्थिमतिनिबिडीकृत्य ततः प्रत्यावर्तन्ते, न तु देहेन्द्रियाऽन्तःकरण-रागादिविभाव-शब्दान्तर्जल्पादिविकल्प-कर्म-रूपादिसमेतपुद्गलादिप्रतियोगिकाऽऽत्माऽनुयोगिकसूक्ष्मभेदविज्ञानशस्त्रेणाऽतिनिर्भीकतया ग्रन्थिं छिन्दन्ति । अनन्तश आत्मन इयमवस्था करुणास्पदा सञ्जाता । = Jain Education International = प्रकृते योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चौरेणाऽऽत्माऽपहारिणा । । ← (म.भा. आदिपर्व ७४ / ८५ ) इति महाभारतवचनमप्यवधातव्यम् । अत एव मित्राद्यासु चतसृषु दृष्टिषु अवेद्यसंवेद्यपदं उल्बणमुच्यते । योगाऽनुभवैकगम्यमेतद्रहस्यमकारणवत्सलस्वाऽनुभवसम्पन्नगुरुकृपैकलभ्यमासन्नमुक्तिगामिनामित्यवधेयम् । सिंहावलोकनन्यायेनात्र प्रागुक्ता ( द्वा. द्वा.२०/२६,पृ.१३९१) → यत्थ પડછાયો પાણીમાં પડે છે. નદીના પાણીમાં પડેલા પડછાયાને જોઈને માછલા-મગર વગેરે જળચર પ્રાણીઓ ‘આ સાચુ પંખી છે.’ આમ સમજીને તેને પકડવા દોડે છે. આ પ્રવૃત્તિ જેવી વેદ્યસંવેદ્યપદસંબંધી છાયા અવેઘસંવેદ્યપદમાં હોય છે. મિત્રા વગેરે પ્રથમ ચાર દૃષ્ટિઓમાં તાત્ત્વિક વેદ્યસંવેદ્યપદ વાસ્તવમાં હોતું નથી. પરંતુ અતાત્ત્વિક વેઘસંવેદ્યપદ હોય છે. કારણ કે સ્વાનુભૂતિ વગેરેના આરોપના અધિકરણભૂત અજવાળા વગેરેનો પુદ્ગલ વિશેષમાં ફક્ત સંસર્ગ રહેલો હોય છે. માટે જ પ્રથમ ચાર દૃષ્ટિમાં વેદ્યસંવેદ્યપદ અવ્યક્ત હોય છે. તથા આ અતાત્ત્વિક વેદ્યસંવેદ્યપદ १. सर्वत्र प्रतिसु 'जलधिया' इति पाठः । परं 'पक्षिधिया' इति पाठो युज्यते । २. मुद्रितप्रतौ 'वेद्यपदसंवेद्यसं...' इत्यशुद्धः पाठः । हस्तादर्शे च 'वेद्यपदसंवेद्यसंवेद्यसं...' इत्यशुद्धः पाठः । परं 'वेद्यसंवेद्यपदसं...' इति पाठ: शुद्धो भाति । www.jainelibrary.org = For Private & Personal Use Only
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy