SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ ईशप्रणिधानफलोपवर्णनम् • प्रणिधानतः = ईश्वरप्रणिधानात् समाधिः स्यात्, ईश्वरभक्त्या प्रसन्नो हीश्वरोऽन्तरायरूपान् क्लेशान् परिहृत्य समाधिमुद्बोधयतीति । यथोक्तं- “समाधिसिद्धिरीश्वरप्रणिधानादिति" (यो.सू.२४५) । तपःस्वाध्यायेश्वरप्रणिधानानां त्रयाणामपि च शोभनाऽध्यवसायलक्षणत्वेन क्लेशकार्यप्रतिबन्धद्वारा कायस्य यथेच्छमणुत्त्वमहत्त्वादीनि ← ( रा.मा. २ / ४३ ) इति । प्रकृते तपसि सर्वं प्रतिष्ठितं तस्मात् तपः परमं वदन्ति ← ( म. ना. २२ / ३) इति महानारायणोपनिषद्वचनं तपसा प्राप्यते सत्त्वं सत्त्वात् सम्प्राप्यते मनः । मनसः प्राप्यते ह्यात्मा यमाप्त्वा न निवर्तते ।। ← (मैत्रा. ४ / ३) इति मैत्रायण्युपनिषद्वचनं, → तपसा प्राप्यते सत्त्वं सत्त्वात् सम्प्राप्यते मनः । मनसा प्राप्यते ह्यात्मा ह्यात्माऽऽपत्त्या निवर्तते ।। ← (मैत्रे. १।४।२) इति मैत्रेय्युपनिषद्वचनं च पूर्वोक्तं ( भाग - २ पृ. ५१७) यथातन्त्रमनुयोज्यम् ईश्वरप्रणिधानफलं प्रति योगसूत्रसंवादमाविष्करोति- 'समाधि'रिति । ईश्वरार्पितसर्वभावस्य समाधिसिद्धिः यया सर्वमीप्सितमवितथं जानाति देशान्तरे देहान्तरे कालान्तरे च । ततोऽस्य प्रज्ञा यथाभूतं प्रजानातीति (यो.सू.भा. २/४५) योगसूत्रभाष्ये व्यासो व्याचष्टे । अत्र मणिप्रभावृत्तिलेशस्त्वेवम् ईश्वरार्पितसर्वभावस्य भक्त्यैव योगसिद्धिर्भवति । न चैवं सति यमादिसप्ताङ्गवैयर्थ्यं स्यादिति वाच्यम्, अङ्ग्ङ्गैर्भक्त्या वा योगसिद्धिरिति विकल्पाऽभ्युपगमात् । तदुक्तं 'ईश्वरप्रणिधानाद् वे 'ति ( योगसूत्र- १/२३) । न वा भक्तिपक्षेऽङ्गवैकल्यम्, यमादीनां भक्तावप्यङ्गत्वसम्भवात् । तेषां भक्ति- योगोभयार्थत्वं दघ्न इन्द्रियक्रतूभयार्थत्ववदविरुद्धम् । न चाऽङ्गानामावश्यकत्वे तैरेव सिद्धेः किं भक्त्येति वाच्यम्, भक्तिहीनोपायैर्दूरे योगसिद्धिः भक्त्यमृतवर्षिभिरासन्नतमा योगसिद्धिरिति चिराऽचिरयोगरूपफलप्राप्तिसाधनत्वेन विकल्पोपपत्तेः (यो.सू.२/४५) इति । प्रकृते ईश्वरार्पितं नेच्छया कृतं चित्तशोधकं मुक्तिसाधकम् ← (उप.सा. ३) इति उपदेशसारवचनमप्यनुयोज्यं यथागमम् । सन्तोषादिसमुदितफलं सन्तोषतश्चोत्तमसौख्यलाभः स्वाध्यायतो दैवतदर्शनञ्च । तपेन कायेन्द्रिययोश्च सिद्धिः प्रोक्तः समाधिः प्रणिधानतश्च ।। ← (अ. तत्त्वा.३।९१) इत्येवं अध्यात्मतत्त्वालोके दर्शितम् । • १४८५ सर्वत्राऽनुष्ठाने मुख्यप्रवर्त्तकशास्त्रस्मृतिद्वारा तदादिप्रवर्तकपरमगुरोः हृदये निधानमीश्वरप्रणिधानम् । तदुक्तं षोडशके ‘अस्मिन् हृदयस्थे सति हृदयस्थः तत्त्वतो मुनीन्द्र इति । हृदयस्थिते च तस्मिन् नियमात् सर्वार्थसंसिद्धिः।।' (षोड. २/१४ ) इत्यस्मन्मतं योगसूत्रविवरणे (यो.सू.२ / १ वि.) व्यक्तम् । क्लेशकार्यप्रतिबन्धद्वारा = अविद्यादिक्लेशकार्यभूतकुशलाकुशलकर्मशक्तिविघटनद्वारा समाध्यनुकूलत्वमेव Jain Education International * ઈશ્વરપ્રણિધાનથી સમાધિલાભ આ प्रणि । तथा ईश्वरना प्रशिधानथी समाधि प्राप्त थाय छे. ईश्वरनी लड़ित डरवाथी प्रसन्न थयेला ઈશ્વર અંતરાયસ્વરૂપ ક્લેશોને દૂર કરીને સમાધિને પ્રગટાવે છે. જેમ કે યોગસૂત્ર ગ્રંથમાં જણાવેલ છે કે ‘ઈશ્વરના પ્રણિધાનથી સમાધિની સિદ્ધિ થાય છે.' તપ, સ્વાધ્યાય અને ઈશ્વરનું પ્રણિધાન ત્રણેય નિયમો સુંદર અધ્યવસાય સ્વરૂપ હોવાના કારણે ક્લેશના કાર્યને અટકાવવા દ્વારા સમાધિ પ્રત્યે અનુકૂળ જ છે - એવું સંભળાય છે. જેમ કે યોગસૂત્રમાં જ જણાવેલ છે કે ‘તપ, સ્વાધ્યાય અને ઈશ્વરપ્રણિધાન - આ ત્રણ ક્રિયાયોગ છે. સમાધિની ભાવના માટે તથા અવિદ્યાદિ ક્લેશને અલ્પ કરવા For Private & Personal Use Only www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy