SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ • मित्रायां सत्सङ्गाऽऽवश्यकता • १४६९ 'विनैनमतिमूढानां येषां योगोत्तमस्पृहा । तेषां हन्त विना नावमुत्तितीर्षा महोदधेः ।। ३१ ।। तन्मित्रायां स्थितो दृष्टौ सद्योगेन गरीयसा । समारुह्य गुणस्थानं परमानन्दमश्नुते ।। ३२ ।। ।। शिष्टा सप्तश्लोकी सुगमा ।।२६-२७-२८-२९-३०-३१-३२।। ।। इति मित्राद्वात्रिंशिका ।। २१ ।। सद्योगमाहात्म्यमाह- ‘यथे’ति । स्पष्टार्था कारिका । नवरं अत्र सम्यक्त्वादिगुणप्राप्तिर्भवेत् तेन ये क्रियया = ।। ← (अ.उप.३/ ।।२१ / ३१ ।। साधुसमागमात् । दोषान् त्यक्त्वा गुणा ग्राह्याः सतां सेवापरायणैः ।। ← (महा. गी. १३/८७) इति महावीरगीतावचनमवश्यमनुस्मर्तव्यम् । कोऽहं कथमिदं चेति संसारमलमाततम् । प्रविचार्यं प्रयत्नेन प्राज्ञेन सह साधुना ।। ← ( महो. ४ / २१ ) इति महोपनिषद्वचनमपि नात्र विस्मर्तव्यम् ।।२१ / ३० ।। निश्चयाऽऽभासग्रस्तान् शिक्षयति- 'विने 'ति । एनं = सुसाधुसमागमं विना येषां अतिमूढानां ज्ञानलवदुर्विदग्धानां अत एव प्रच्छन्ननास्तिकानां तदुक्तं अध्यात्मोपनिषदि मुक्ता ज्ञानमात्राऽभिमानिनः । ते भ्रष्टा ज्ञान - कर्मभ्यां नास्तिका नाऽत्र संशयः ३८) इति । योगोत्तमस्पृहा हन्त तेषां नावं विना महोदधेः उत्तितीर्षा विज्ञेया उपसंहरति- 'तदिति । तत् तस्मात् कारणात् मित्रायां दृष्टौ स्थितो योगी गरीयसा अवञ्चकेन सद्योगेन शुद्धात्मस्वरूपविचार-शम-दमादिगुणगणाऽऽलम्बनतो यथार्थं गुणस्थानं समारुह्य परमानन्दं निर्व्याज-निर्निदान-निरतिशययोगोपासनालभ्यमधुरतराऽऽनन्दं अश्नुते = लभते । प्रकृते बाल्ये खलानां सहवासहेतोरकृत्यकार्याऽऽचरणोत्थदोषः धर्मज्ञसङ्गाद् विलयं प्रयाति यथाऽर्कसङ्गेन हिम तृणस्थम् ।। ← (ना.डि. १७१ ) इति नालडियारे पदुमनाराचार्यवचनं सङ्गाद् महतां भवन्त्यपि गुणैः हीना गुणानां गृहम् ← (क. प्र. ८१ ) इति कस्तूरीप्रकरणे हेमविजयगणिवचनं, मोक्षद्वारे द्वारपालाः चत्वारः परिकीर्त्तिताः । शमो विचारः सन्तोषश्चतुर्थः साधुसङ्गमः ।। ← (महो.४ / २) इति च महोपनिषद् - वचनं स्मर्तव्यमिति शम् ।।२१ / ३२ ।। तथाभव्यत्वपाकेन संशुद्धयोगबीजतः । यमाऽवञ्चकयोगाद्यैः मित्रा दृष्टिर्विशुध्यति ।।१।। इति मुनियशोविजयविरचितायां नयलतायां मित्राद्वात्रिंशिकाविवरणम् ।।२१।। = 7 = ગાથાર્થ :- જે અતિમૂઢ થયેલા જીવોને સાધુસમાગમ વિના ઉત્તમ યોગની સ્પૃહા છે તે જીવોને, ખરેખર ખેદની વાત છે કે, નાવ વિના જ મહાસાગરને પાર કરવાની ઈચ્છા છે. (૨૧/૩૧) વિશેષાર્થ :- જેમ નાવ વિના મહાસમુદ્રનો પાર પામી શકાતો નથી તેમ સાધુસમાગમ વિના ભવસાગરનો પાર પામી શકાતો નથી અને ઉત્તમ ચારિત્રાદિ ધર્મયોગો સાધી શકાતા નથી. માટે ઉત્તમ યોગને સાધવા દ્વારા ભવસાગરને પાર કરવાની ઝંખના ધરાવનારે અવશ્ય સુસાધુનો સમાગમ, પરિચય, उपासना उरवानुं लूस न भेजे. (२१/३१ ) ગાથાર્થ :- તેથી મિત્રાદષ્ટિમાં રહેલો સાધક મહાન = અવંચક એવા સાધુસમાગમથી ગુણસ્થાનક ઉપર આરૂઢ થઈને પરમાનંદને પ્રાપ્ત કરે છે. (૨૧/૩૨) વિશેષાર્થ :- મિત્રાદૃષ્ટિમાં સદ્યોગાવંચક યોગની મુખ્યતા હોવાથી સાધક અહોભાવે, ગુણાનુરાગથી १. मुद्रितप्रतौ 'विनैनं मति...' इत्यशुद्धः पाठः 1 Jain Education International = For Private & Personal Use Only www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy