________________
१४६२
चरमयथाप्रवृत्तकरणोत्कृष्टकालमानमीमांसा
द्वात्रिंशिका - २१/२४
सन्निधानात् (= अपूर्वाऽऽसत्तितः) फलव्यभिचारायोगात् इदं चरमं यथाप्रवृत्तकरणं तत्त्वतः = परमार्थतः । अपूर्वमेव विदुः = जानते योगविदः, यत उक्तं- “ अपूर्वाऽऽसन्नभावेन व्यभिचारवियोगतः । तत्त्वतोऽपूर्वमेवेदमिति` योगविदो विदुः " ( यो दृ.स. ३९ ) ।।२३।।
प्रवर्तते गुणस्थानपदं मिथ्यादृशीह यत् । अन्वर्थयोजना नूनमस्यां तस्योपपद्यते ।। २४ ।। प्रवर्तते इति । यद् इह जिनप्रवचने गुणस्थानपदं मिथ्यादृशि = मिथ्यादृष्टौ पुंसि प्रवर्त
=
मलधारवृत्तिवचनमपि व्याख्यातम्, विचित्रतया नैगमस्य बहुभेदत्वात् सामान्यग्राहकं नैगमविशेषं पुरस्कृत्य सैद्धान्तिक यथाप्रवृत्तकरणस्याऽनादिकालप्रवृत्तत्वसम्भवात् तथापि प्रकृते विशेषग्राहकव्यवहारनयाभिप्रायतः चरमयथाप्रवृत्तकरणं बोध्यम् । इदञ्च अपूर्वकरणस्य ग्रन्थिभेदफलकस्य सन्निधानात् = व्यवहारनयाऽभिप्रायेण एक-व्यादिभवग्रहणादारभ्य प्रतिबन्धकबाहुल्ये उत्कर्षतो देशोनपुद्गलावर्तलक्षणाद्, निश्चयनयाऽभिप्रायेण चाऽन्तर्मुहूर्त्तलक्षणात् सान्निध्यात् परमार्थतः अपूर्वमेव । चरमयथाप्रवृत्तकरणकालो निश्चयतोऽन्तर्मुहूर्त्तमात्रं । इदञ्च कर्मग्रन्थिकमतम्। परिस्थूल व्यवहारतश्चोत्कृष्टः स किञ्चिदूनैकपुद्गलपरावर्तलक्षणः । तथाविधकालक्षेपसहिष्णुतया परिस्थूलव्यवहारनयस्त्वतीतानन्तपुद्गलपरावर्तापेक्षयोत्कृष्टतः किञ्चिदुनैकपुद्गलपरावर्तमानकाललक्षणं चरमयथाप्रवृत्तकरणारम्भाऽपूर्वकरणव्यवधानं सन्निधानरूपेणैवाऽङ्गीकरोति । अत एव चरमावर्तिनो जीवस्य मुक्तिमप्यतीवाऽऽसन्नामेवाऽसौ मन्यते । तदुक्तं योगबिन्दौ आसन्न चेयमस्योच्चैश्चरमावर्तिनो यतः । भूयांसोऽमी व्यतिक्रान्तास्तदेकोऽत्र न किञ्चन ।। ← (यो . बिं. १७६) इति । व्यक्तगुणादिपरिणामग्राहकः शुद्धव्यवहारनयस्तु व्याख्याप्रज्ञप्तिदर्शितरीत्या (श.१४/उ.२१/सू.७१२) उत्कर्षतो निरन्तरदेव-मनुजभवग्रहणकालवत् प्रज्ञापनादर्शितरीत्या (१८/सू.२३७/पृ.३८३) पुरुषवेदकालवद् वा चरमयथाप्रवृत्तकरणकालं उत्कर्षतः सङ्ख्यातभवव्यापि सागरोपमशतपृथक्त्वलक्षणमङ्गीकरोति । एतेन ग्रन्थिदेशे वर्तमानो भव्योऽभव्यो वा, स च तत्र सङ्ख्येयं असङ्ख्येयं वा कालं तिष्ठति ← (बृ.क. भा. १०४वृत्ति) इति बृहत्कल्पभाष्यवृत्तिवचनं व्याख्यातम्, तस्य उत्कर्षतः सागरोपमशतपृथक्त्वलक्षणाऽसङ्ख्येयकालमानयथाप्रवृत्तकरणप्रतिपादनपरत्वादित्यस्माकमाभाति ।
फलव्यभिचाराऽयोगात् = ग्रन्थिभेदलक्षणं यदपूर्वकरणफलं तद्विसंवादविरहात् कारणात् चरमं यथाप्रवृत्तकरणं नैश्चयिकं व्यावहारिकञ्च परमार्थतः प्रयोजननिष्पत्तिलक्षणं परमार्थमाश्रित्य अपूर्वमेव अपूर्वकरणमेव अशुद्धनैगमनयाऽभिमतप्रस्थकोदाहरणेन इति जानते योगविदः । अत्र योगदृष्टिसमुच्चयसंवादमाह- ‘अपूर्वाऽऽसन्ने’ति। यथोक्तं अध्यात्मतत्त्वालोकेऽपि यथाप्रवृत्तौ करणेऽन्त्य ईदृग् आसत्तिमद्ग्रन्थिभिदः स्वरूपम्। अपूर्वतां तस्य यथाप्रवृत्तेस्ततस्तदासन्नतया वदन्ति ।। ← ( अ तत्त्वा.३/८८) । ।२१/२३ । । इहैव गुणस्थानयोजनामाह- 'प्रवर्तत' इति । यद् = यस्मात् कारणाद् यत्र यत्पदप्रवृत्तिनिमित्तं છે. કારણ કે યોગદૃષ્ટિસમુચ્ચયમાં જણાવેલ છે કે ‘અપૂર્વકરણની નજીક હોવાથી ફળપ્રાપ્તિમાં કોઈ વિસંવાદ ન હોવાથી ચરમયથાપ્રવૃત્તિકરણ ૫૨માર્થથી અપૂર્વ જ છે – એવું યોગવેત્તાઓ માને છે.’(૨૧/૨૩)
ગાથાર્થ :- અહીં મિથ્યાદષ્ટિમાં ગુણસ્થાનશબ્દ પ્રવર્તે છે. ખરેખર ‘ગુણસ્થાન’ શબ્દના યોગાર્થની સંગતિ મિત્રાદૃષ્ટિમાં જ સંગત થઈ શકે છે. (૨૧/૨૪)
ટીકાર્થ :- જિનશાસનમાં ‘ગુણસ્થાનક’ એવો શબ્દ સૌપ્રથમ પ્રસ્તુત મિથ્યાર્દષ્ટિ જીવમાં અસ્ખલવૃત્તિવાળા
=
१. हस्तादर्शे 'लयतिचारायोगात्' इत्यशुद्धः पाठः । २ हस्तादर्शे 'पैदमिति' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
=
www.jainelibrary.org