________________
१४५४
• वाचनादिगुणप्रकाशना • द्वात्रिंशिका-२१/१६ वाचना स्वयमेवाऽस्य । उद्ग्रहो = विधिग्रहणमस्यैव । प्रकाशना गृहीतस्य भव्येषु । अथ स्वाध्यायो = वाचनादिरस्यैव । चिन्तना 'ग्रन्थार्थतोऽस्यैव । भावनेति च एतद्गोचरैव योगबीजम् ।।१६।। स्वयमेव अस्य वैराग्यबोधादिनिमित्तसत्पुस्तकादेः वाचना = स्वभूमिकौचित्यतः पठनम् । वाचनादिः = गुर्वादिदत्तवाचना-पृच्छनादिः अस्यैव सच्छास्त्रस्य । प्रकृते च वाचनादिस्वाध्यायगुणाः → आयहियं जाणंतो, अहियनिवित्तीए हियपवित्तीए । हवइ जतो सो तम्हा, आयहियं आगमेयव्यं ।। सज्झायं जाणंतो, पंचिंदियसंवुडो तिगुत्तो य । होइ य एक्कग्गमणो, विणएण समाहिओ साहू ।। नाणेण सव्वभावा, नज्जंते जे जहिं जिणक्खाया । नाणी चरित्तगुत्तो, भावेण उ संवरो होइ ।। जह जह सुयमोगाहइ, अइसयरसपसरसंजुयमपुव्वं । तह तह पल्हाइ मुणी, नव नव संवेगसद्धाओ।। णाणाणत्तीए पुणो, दंसण-तव-नियम-संजमे ठिच्चा । विहरइ विसुज्झमाणो, जावज्जीवं पि निक्कंपो।। बारसविहम्मि वि तवे, सब्भिंतरबाहिरे कुसलदिढे । न वि अत्थि न वि अ होही, सज्झायसमं तवोकम्मं ।।
6 (बृ.क.भा. ११६४-६९) इत्यादिरूपेण बृहत्कल्पभाष्योक्ता यथासम्भवमत्र योज्याः । → वायणाए णं निज्जरं जणयइ + (उत्त. २९/१९) इति उत्तराध्ययनोक्तिरप्यत्राऽनुसन्धेया । चिन्तना = अनुप्रेक्षा ग्रन्थार्थतः = ग्रन्थपदार्थ-वाक्यार्थादिकमवलम्ब्य अस्यैव = सच्छास्त्रस्यैव “इमस्स नु खो, आवुसो, अत्थस्स इमानि वा ब्यञ्जनानि एतानि वा ब्यञ्जनानि कतमानि ओपायिकतरानि, इमेसिञ्च ब्यञ्जनानं अयं वा अत्थो एसो वा अत्थो कतमो ओपायिकतरो”ति ? - (दी.नि. ३/६/१७८पृ.९५) इति दीघनिकायदर्शितरीत्या । भावना च → जिनधर्मविनिर्मुक्तो मा भूवं चक्रवर्त्यपि । स्यां चेटोऽपि दरिद्रोऽपि जिनधर्माऽधिवासितः ।। त्यक्तसङ्गो जीर्णवासा मलक्लिन्नकलेवरः । भजन्माधुकरी वृत्तिं मुनिचर्यां कदा श्रये ?।। त्यजन् दुःशीलसंसर्ग गुरुपादरजः स्पृशन् । कदाऽहं योगमभ्यस्य प्रभवेयं भवच्छिदे ?।। महानिशायां प्रकृते कायोत्सर्गे पुराद् बहिः । स्तम्भवत् स्कन्धकर्षणं वृषाः कुर्युः कदा मयि ?।। वने पद्मासनाऽऽसीनं क्रोडस्थितमृगाऽर्भकम् । कदा घ्रास्यन्ति वक्त्रे मां चरन्तो मृगयूथपाः ।।
6 (यो.शा.३/४१-४५) इति योगशास्त्रोक्तादिस्वरूपा एतद्गोचरैव = गृहीत-परिपृष्ट-परावर्तिताऽनुप्रेक्षित-प्रकाशितादिशास्त्रविषयिण्येव योगबीजं संशुद्धमिति वर्तते । प्रथमयोगदृष्टिवतः प्रकृतदशविधज्ञानयोगबीजोपदर्शनद्वारा श्रुत-चिन्ता-भावनाज्ञानाऽऽराधकत्वं स्वभूमिकौचित्याऽनुसारतो विद्योतितमित्यवधेयम् ।।२१/१६।। શાસ્ત્રો વાંચવા. (૬) સુગુરુ વગેરે પાસેથી વિધિપૂર્વક શાસ્ત્ર અને તેના પદાર્થ-પરમાર્થ વગેરેને જ પોતાની ભૂમિકા મુજબ ગ્રહણ કરવા. (૭) ગુરુ વગેરે પાસેથી ગ્રહણ કરેલા શાસ્ત્રો યોગ્ય જીવોને સમજાવવા. (૮) તથા સુંદર શાસ્ત્રનો જ વાચના, પૃચ્છનાદિ પંચવિધ સ્વાધ્યાય કરવો. (૯) પ્રસ્તુત પવિત્ર ગ્રન્થનું ४ अनुसार शिंतन ५२. (१०) तथा ते ४ शाखनी मावन मावी ते योगी४ छे. (२१/१६) १. मुद्रितप्रतौ 'ग्रंथार्थताऽस्यैव' इति पाठः । ...... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org