________________
१३७६
• प्रागभावोच्छेदस्वरूपमीमांसा • द्वात्रिंशिका-२०/२३ वापगमस्याऽपि योग्यताविगमाऽऽख्यस्य हेत्वकरणनियमेनैव फलवत्त्वात् तद्विरहितस्य तस्य फलनियतत्वात् । तदुक्तं- “मण्डूकभस्मन्यायेन वृत्तिबीजं महामुनिः । योग्यताऽपगमाद्दग्ध्वा ततः कल्याणमश्नुते ।।" (योगबिन्दु-४२३) इति ।।२३।। नरकगमनादेर्दुर्निवारत्वं स्यात्, प्रागभावोच्छेदस्य तत्प्रतियोगिजननव्याप्तत्वादिति वक्तव्यम्, तत्प्रागभावापगमस्य = नरकगमनादिलक्षणवृत्तिप्रतियोगिकप्रागभावोच्छेदस्य प्रागभावप्रतियोगिजननव्याप्यत्वाऽसिद्धेः । न हि घटोत्पादपूर्वकालावच्छेदेन मार्तकपालस्य भस्मीकरणे घटप्रागभावो नापति, न वा तदपगमे घटोत्पत्तिस्तत्र सम्मता केषाञ्चित् । अत एव जैनदर्शने प्रागभावोच्छेदः फलजननयोग्यतोच्छेदस्वरूप एवाऽङ्गीक्रियते । निरुक्तप्रागभावाऽपगमकाले प्रतियोगिसामग्रीसत्त्वे प्रतियोग्युत्पादो भवति, यथा शिल्पिप्रयत्नगोचरदार्वादेः प्रतिमाप्रागभावाऽपगमे प्रतिमानिष्पत्तिः। प्रतियोगिसामग्रीविरहे तु नैव प्रतियोग्युत्पत्तिः, यथा दार्वादेः भस्मीकरणतः प्रतिमाप्रागभावाऽपगमे प्रतिमाऽनुदय इति । इत्थञ्च प्रतियोग्युत्पादः प्रतियोगिजननसामग्रीविघटनं वा प्रागभावाऽपगमफलमिति सिध्यति ।
प्रकृते नरकगमनादिलक्षणवृत्तिप्रागभावापगमस्य अपि योग्यताविगमाख्यस्य = नरकगमनादियोग्यतोच्छेदस्वरूपस्य हेत्वकरणनियमेनैव = नरकगमनादिकारणीभूतमहाऽऽरम्भपरिग्रहादिलक्षणपापगोचराऽकरणनियमद्वारैव फलवत्त्वात् = सफलत्वात् । अकरणनियमस्य प्रतियोगिसामग्रीविघटकत्वात् प्रकृते वृत्तिस
ङ्क्षयाभिधानो योग्यताविगमस्वरूपो यः प्रागभावापगमः तत्फलं नरकगमनादिसामग्रीविघटनमेव द्रष्टव्यम् । तद्विरहितस्य = प्रकृताऽकरणनियमशून्यस्य तस्य = नरकगमनादिप्रागभावाऽपगमस्य तु तच्छमनात्मकस्य तद्दमनस्वरूपस्य वा फलनियतत्वात् = नरकगमनादिलक्षणफलोपधायकत्वात्, तत्सामग्रीसम्पत्तेः । इत्थञ्चाऽकरणनियमस्याऽपि नरकगमनादिवृत्तिदाहकतया सफलत्वं सिद्धम् । ____ अधिकृतसमर्थनाय ग्रन्थकृद् योगबिन्दुसंवादमावेदयति- ‘मण्डूके'ति । तद्वृत्तिस्तु → मण्डूकभस्मन्यायेन = दर्दुरशरीरक्षारीकरणदृष्टान्तेन वृत्तिबीजं = शारीर-मानसचेष्टानिमित्तं तत्तत्कर्मरूपं महामुनिः = क्षपकः अनिवृत्तिबादरादिः तत्तद्गुणस्थानकस्थः योग्यतापगमात् = तत्तत्कर्मसम्बन्धयोग्यतात्यन्तोच्छेदात् दग्ध्या = शुक्लध्यानदावानलेन भस्मभावमापाद्य ततः = सर्वदहनानन्तरं कल्याणं निवृत्तिरूपं अश्नुते = लभते - (यो.बिं.४२३ वृ.) इति । अध्यात्म-भावना-ध्यान-समता-वृत्तिसङ्क्षय-सम्प्रज्ञाताऽसम्प्रज्ञातयोग-धर्ममेघसमाधि-पापाऽकरणनियमादिसहायात् तथाभव्यत्वात् तत्तत्कर्मबन्धाऽपगम इव तत्तत्कर्मबन्धयोग्यताऽपगमोऽपि सम्पद्यत इत्यत्रत्यं तात्पर्यमवधेयं मनीषिभिः ।।२०/२३ ।।। પ્રાગભાવની નિવૃત્તિ પણ યોગ્યતાવિલય નામે ઓળખાય છે. તેના હેતુને વિશે અકરણનિયમ કરવાથી જ નરકાદિયોગ્યતાવિલય પણ સફળ થાય છે. અકરણનિયમરહિત નરકાદિયોગ્યતાવિલય તો નરકાદિગમન સ્વરૂપ ફળનું અવિનાભાવી જ છે. તેથી યોગબિંદુ ગ્રંથમાં જણાવેલ છે કે – “દેડકાની ભસ્મના ઉદાહરણથી મહામુનિ યોગ્યતાવિલયથી વૃત્તિબીજને બાળીને ત્યાર બાદ આત્મકલ્યાણને મેળવે છે.” ૯ (૨૦૧૩)
વિશેષાર્થ - તત્ત્વજ્ઞાન સાક્ષાત્ મિથ્યાજ્ઞાનનો અત્યંત ઉચ્છેદ ન કરી શકે પરંતુ “પાપને નહિ કરું' તેવા પ્રકારના દેઢ પ્રણિધાન સ્વરૂપ અકરણનિયમથી જ મિથ્યાજ્ઞાનનો સર્વથા ઉચ્છેદ થઈ શકે १. मुद्रितप्रतौ 'तस्य' इति पदं नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org