________________
१३६४
• पद-पदार्थ-प्रतीतीनां तुल्यनामधेयत्वमीमांसा • द्वात्रिंशिका-२०/१९ तुल्याऽभिधानत्वाद् न त्वर्थज्ञानयोः कश्चनैकवृत्त्यारूढतया एकत्वपरिणामः सम्भवति, चेतनत्वाऽचेतनत्वयोर्विरोधादिति भावः । आत्मनस्तु समापत्तिर्द्रव्यस्य = परमात्मदलस्य तात्त्विकः = सहजशुद्धो भावः = परिणामः ।।१९।। ल्याभिधानत्वात् = गौरिति शब्दः, गौरित्यर्थः गौरिति च ज्ञानमित्येवं समाननामधेयत्वात् । तदुक्तं बृहत्कल्पभाष्यपीठिकावृत्तौ → अर्थाऽभिधान-प्रत्ययाः तुल्यनामधेयाः । तथाहि- घटोऽपि बाह्यो 'घट' इत्युच्यते, घटशब्दोऽपि ‘घट' इति, घटज्ञानमपि 'घट' इति । ज्ञानं च ज्ञानिनोऽपृथग्भूतम् । अतो घटज्ञान्यपि घट इत्युच्यते, अग्निज्ञान्यपि अग्निरिति + (बृ.क.भा.पी. १६/पृ.८) इति । युक्तञ्चैतद्, अन्यथाऽतिप्रसङ्गात् । तदुक्तं बृहत्कल्पभाष्ये पीठिकायां → चेयण्णस्स उ जीवा, जीवस्स उ चेयणाओ अन्नत्ते । दवियं अलक्खणं खलु हविज्ज ण य बंध-मोक्खा उ।। 6 (बृ.क.भा.पी.१८) इति भावनीयम् ।
प्रकृते उपयोगः, ज्ञानं, संवेदनं, प्रत्यय इति तावदनन्तरम्, अर्थाऽभिधान-प्रत्ययाश्च लोके सर्वत्र तुल्यनामधेयाः, बाह्यः पृथुबुध्नोदराऽऽकारो अर्थोऽपि ‘घट' उच्यते, तद्वाचकमभिधानमपि घटोऽभिधीयते तज्ज्ञानरूपः प्रत्ययोऽपि घटो व्यपदिश्यत इत्यर्थः । तथा हि लोके वक्तारो भवन्ति- किमिदं पुरतो दृश्यते ?, घटः । किमसौ वक्ति ?, घटम् । किमस्य चेतसि स्फुरति ? घटः । एवं च सति यद् ‘घट' इति ज्ञानं तदव्यतिरिक्तो ज्ञाता तल्लक्षणो गृह्यते । अन्यथा यदि ज्ञान-ज्ञानिनोरव्यतिरेको न स्यात् तदा ज्ञाने सत्यपि ज्ञानी नोपलभेत वस्तुनिवहम्, अतन्मयत्वात्, प्रदीपहस्ताऽन्धवत्, पुरुषान्तरवद् वा । न चाऽनाकारं तज्ज्ञानं, पदार्थान्तरवद् विवक्षितपदार्थस्याऽप्यपरिच्छेदप्रसङ्गात् (वि.आ.भा.वृ. गा.४९) इत्यादिकं व्यक्तमुक्तं विशेषावश्यकभाष्यवृत्तौ श्रीहेमचन्द्रसूरिभिरित्यवधेयम् । ज्ञानज्ञानिनोरैक्यमत्राऽभेदनयार्पणयाऽवगन्तव्यम् । पूर्वं (द्वा.द्वा.२०/११ पृ.१३३८) सवितर्कसमाधिनिरूपणावसरे ये भावागणेश-नागोजीभट्टाद्यभिप्राया दर्शिताः तेऽपीहानुसन्धेयाः ।
प्रकृतव्यवच्छेदमाह- न तु अर्थ-ज्ञानयोः शब्द-ज्ञानयोर्वा कश्चन एकवृत्त्यारूढतया = अभिन्नस्वरूपाऽऽक्रान्ततया एकत्वपरिणामः = अभेदभावः सम्भवति । कस्मात् ? चेतनत्वाऽचेतनत्वयोः विरोधात् = सहानवस्थानाऽभिधानविरोधात् । न हि शब्दगता वर्णानुपूर्वी अर्थ-ज्ञानयोः वर्तते, न वाऽर्थगतं संस्थानादिमत्त्वं पद-प्रतीत्योः सम्भवति, न वा ज्ञानगतो विषयित्वादिपरिणामः वाच्य-वाचकयोः भवति । गौणमेवैकत्वमत्रावगन्तव्यम् । तदुक्तं काव्यानुशासने श्रीहेमचन्द्रसूरिभिः → मुख्यार्थबाधे निमित्ते प्रयोजने च भेदाभेदाभ्यामारोपितो गौणः - (काव्या.१/१७) इति । एतेन ऐकान्तिकः शब्दाऽद्वैतवादो ब्रह्माऽद्वैतवादो ज्ञानाद्वैतवादश्च प्रतिक्षिप्तः ।
आत्माभिधानभाव्यगोचरसमापत्तिमावेदयति- आत्मनस्तु भाव्यमानस्य समापत्तिः हि परमात्मदलस्य = परमात्मदशोपादानकारणीभूतद्रव्यस्य सहजशुद्धः = शुद्धनिश्चयनयमान्योऽनादिशुद्धः ध्यानाधभिव्यङ्ग्यः परिणामः = अभिव्यक्तकेवलचिद्रूपपरिणामः प्रोच्यते । इत्थमेव परमात्मनो भावध्येयत्वं स्याद्, अन्यथा द्रव्यध्येयत्वमेव स्यात् । इदमेवाऽभिप्रेत्य नागसेनमुनिना तत्त्वानुशासने → द्रव्यध्येयं बहिर्वस्तु चेतनाअर्थ = 4 पार्थ. ४ छ. तथा शान येतन छे. ४-येतनमा ५२मार्थथा. अमेहमा१ न. संमवे.
પરમાત્મદશા પ્રાપ્ત થવાના ઉપાદાને કારણભૂત જે આત્મદ્રવ્ય છે તેનો સહજ શુદ્ધ પરિણામ એ मात्मानी समापत्ति ४३वाय छे. (२०/१८).
Jain Education Internationa
For private & Personal Use Only
www.jainelibrary.org