________________
• श्रद्धाद्वैविध्योपदर्शनम् .
९७१ परिशुद्धोहापोहयोगस्य हि प्रकृतेरप्रवृत्ति-विरोधि प्रवृत्तियोगाभ्यां सम्यगनुष्ठानाऽवन्ध्यकारणपरमं बलम् । श्रद्धैव ज्योतिषां ज्योतिः श्रद्धातः सर्वसम्पदः ।। - (म.गी.१/३५) इति महावीरगीतावचनमपि स्मर्तव्यम् । प्रकृते → असंशयवतां मुक्तिः - (मैत्रे.२/१६) इति मैत्रेय्युपनिषद्वचनमपि न विस्मर्तव्यम् । → श्रद्धावान् लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिमचिरेणाऽधिगच्छति ।। - (भ.गी.४/३९) इति भगवद्गीतावचनमपि यथातन्त्रमनुयोज्यमत्र समवतारपरायणैः । ___इदञ्चात्राऽवधेयम्- ग्रन्थिभेदपूर्वं जायमाना धर्मादिश्रद्धा हि मूलाऽविद्याहासोत्था निराकारा परोक्षा च बोध्या । ग्रन्थिभेदोत्तरं तु सा विद्याजाता हृदयनिविष्टा आत्मप्रतिष्ठिता सम्यग्दर्शनमूलिका बौद्धपरिभाषानुसारेण (मज्झिमनिकाय-वीमंसकसुत्त १/५/७/४९०) आकारवती प्रत्यक्षा प्रायशः कषादिपरीक्षोपहिता परैरप्रच्यावनीया सम्पद्यते । अविपरीते श्रद्धेयवस्तुनि अविपरीतधर्मदेशनाद्यतिशयितकारणशालिनी श्रद्धा ह्याकारवती श्रद्धेति बौद्धमतं मज्झिमनिकायगतापर्णकसूत्रटीकायां धर्मपालेन स्पष्टीकृतं तदिह यथागममनुयोज्यं विदितस्व-परतन्त्रपरमार्थैः ।
बौद्धानामपि धर्मश्रवणे श्रोत्रवधानस्य शुश्रूषाऽपराभिधानस्य, तत्र गुरुपर्युपासनायाः, तत्र गुरूपसङ्क्रमणस्य, तत्र च श्रद्धाया बहूपकारकत्वमिष्टम् । तदुक्तं भारद्वाजं प्रति सुगतेन मज्झिमनिकाये
→ 'धम्मस्सवनस्स खो, भारद्वाज ! सोतावधानं बहुकारं । नो चेतं सोतं ओदहेय्य नयिदं धम्म सुणेय्य । यस्मा च सो सोतं ओदहति तस्मा धम्मं सुणाति । तस्मा धम्मस्सवनस्स सोतावधानं बहुकार'न्ति । “सोतावधानस्स पन, भो गोतम, कतमो धम्मो बहुकारो ? सोतावधानस्स बहुकारं धम्मं मयं भवन्तं गोतमं पुच्छामा”ति । “सोतावधानस्स खो, भारद्वाज ! पयिरूपासना बहुकारा । नो चेतं पयिरूपासेय्य, नयिदं सोतं ओदहेय्य । यस्मा च खो पयिरुपासति तस्मा सोतं ओदहति । तस्मा सोतावधानस्स पयिरूपासना बहुकारा"ति ।
“पयिरूपासनाय पन, भो गोतम, कतमो धम्मो बहुकारो ? पयिरूपासनाय बहुकारं धम्मं मयं भवन्तं गोतमं पुच्छामा”ति । “पयिरूपासनाय खो, भारद्वाज ! उपसङ्कमनं बहुकारं । नो चेतं उपसङ्कमेय्य, नयिदं पयिरूपासेय्य । यस्मा च खो उपसङ्कमति तस्मा पयिरूपासति । तस्मा पयिरूपासनाय उपसङ्कमनं बहुकार"न्ति । ___ “उपसङ्कमनस्स पन, भो गोतम, कतमो धम्मो बहुकारो ? उपसङ्कमनस्स बहुकारं धर्म मयं भवन्तं गोतमं पुच्छामा”ति । “उपसङ्कमनस्स खो, भारद्वाज ! सद्धा बहुकारा” + (म.नि. २/ ५/५/४३४, पृ.३९३) इति यथागममत्र सर्वनयमये जिनप्रवचने योज्यं तत्त्वविशारदैः । __ परिशुद्धोहापोहयोगस्य = निरन्तरात्मविचार-केवलात्मविशुद्धिस्पृहा-पुण्योदयौदासीन्यादिसम्पादितमिथ्यात्वानन्तानुबन्धिकषायादिहासविशेष-दयादिप्रयुक्तपरिशुद्धिसङ्गतस्य भवमोक्षहेतु-स्वरूप-फलगोचरोहापोहयोगस्य
ખરેખર જેની વિચારસરણી-ઉહાપોહપદ્ધતિ અત્યંત વિશુદ્ધ થયેલી છે તેવા આત્માની કર્મપ્રકૃતિ સમ્યગુ અનુષ્ઠાનનું અવંધ્ય કારણ બને છે. કારણ કે તેની સુધારેલી કર્મપ્રકૃતિ અશુભ પ્રવૃત્તિ ન કરાવવામાં અને १. मुद्रितप्रतौ ....प्रकृति...' इति पाठः । २. हस्तादर्श 'सम्यगनुष्ठाव....' इत्यशुद्धः पाठः । मुद्रितप्रतौ च 'सम्यगनुष्ठानव....' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org