________________
• अपुनर्बन्धकस्याऽपि शुद्धनिश्चयानुसारिबोधः • तद्वियोगाश्रयोऽप्येवं सम्यगृहोऽस्य जायते । तत्तत्तन्त्रनयज्ञाने विशेषाऽपेक्षयोज्ज्वलः ॥१३।।
तदिति । तद्वियोगाऽऽश्रयो = भववियोगाऽऽश्रयः अप्येवं = हेतु-स्वरूप-फलद्वारेण सम्यगृहः = समीचीनविचारः अस्य = शान्तोदात्तस्य जायते । तेषां तेषां तन्त्राणां षष्टितन्त्रादीनां नयानां ज्ञाने (= तत्तत्तन्त्रनयज्ञाने) सति विशेषाऽपेक्षया = इतरांऽशजिज्ञासालक्षणया उज्ज्वलः = शुद्धनिश्चयानुसारी ।।१३।। । ननु भवहेतु-स्वरूप-फलोहनतः प्रकृते किमागतम् ? इत्याशङ्कायामाह - 'तदिति । हेतु-स्वरूपफलद्वारेण यथाक्रममतीत-वर्तमानाऽनागतकालसम्बन्धिना भववियोगाऽऽश्रयोऽपि = संसारोच्छेदविषयः किम्पुनर्भवगोचर इत्यपिशब्दार्थः, →
भावेष्वरतिरायाता पथिकस्य मरुष्विव । शाम्यतीदं कथं दुःखमिति तप्तोऽस्मि चेतसा ।। चिन्तानिचयचक्राणि नाऽऽनन्दाय धनानि मे । सम्प्रसूतकलत्राणि गृहाण्युग्रापदामिव ।।
- (महो.३/६-७) इति महोपनिषदादिकथितः समीचीनविचारः = ऊहनीयाऽर्थाऽव्यभिचारी परिणामः शान्तोदात्तस्य मार्गानुसारिक्षयोपशमतो जायते ।
एतेनाऽपुनर्बन्धकस्य मिथ्यात्वमोहनीयविपाकोदयाऽवस्थायामज्ञानित्वात्कथं हेतु-स्वरूपाऽनुबन्धादिरूपेण संसारादिगोचरसमीचीनज्ञानसम्भवः ? इत्याशङ्काऽपि समाहिता, ऋजुता-शुश्रूषादिगुणगणसम्पन्नतया तस्याऽपि मार्गस्थबोधाऽभ्युपगमात् । → आर्जवं गुरुशुश्रूषा विरक्तिश्चेन्द्रियाऽर्थतः । शौचं क्षान्तिरदम्भश्च जन्मादिदोषवीक्षणम् ।। समदृष्टिदृढा भक्तिरेकान्तित्वं शमो दमः । एतैर्यच्च युतं ज्ञानं तज्ज्ञानं विद्धि बाहुज !।।
(ग.गी. ९/२४-२५) इति गणेशगीतानुसारिनयाऽभिप्रायतस्तत्र तात्त्विकं ज्ञानमप्यनपलपनीयमेव | अयञ्च कदा कथं जायते ? इत्यत आह- षष्टितन्त्रादीनां नयानां ज्ञाने सति, इतरांशजिज्ञासालक्षणया स्याद्वादसम्मुखीनया विशेषाऽपेक्षया शुद्धनिश्चयाऽनुसारी = आत्मलक्षितपरिशुद्धनिश्चयनयाऽनुगामी। यथोक्तं योगबिन्दौ → एवमूहप्रधानस्य प्रायो मार्गानुसारिणः । एतद्वियोगविषयोऽप्येष सम्यक् प्रवर्तते ।। - (यो.बि.१९९) इति । → क्रियते यत्स्वधर्मस्य स्वदेशस्योपकारकम् । ज्ञानाऽनुशीलनं यत्र ज्ञेयमाध्यात्मिकं हि तत् ।। - (सं.गी.४/३१) इति संन्यासगीतादर्शितरीत्याप्यऽपुनर्बन्धकीयमिदं
ગાથાર્થ :- આ જ રીતે પ્રસ્તુત જીવને સંસારનો ઉચ્છેદ કરવાને વિશે પણ સમ્યક્ વિચાર જાગે છે. તે-તે ધર્મશાસ્ત્રોના અભિપ્રાયોનો બોધ થતાં વિશેષ ગુણધર્મોની જિજ્ઞાસા વડે તે વિચાર ઉજ્જવળ पने छे. (१४/१७)
ટીકાર્થ :- પ્રસ્તુત શાંત અને ઉદાત્ત એવા અપુનબંધક જીવને સંસારના ઉચ્છેદને વિશે પણ હેતુ, સ્વરૂપ અને ફળ દ્વારા સમ્યફ વિચાર પ્રગટે છે. તે-તે ષષ્ટિતંત્ર વગેરે દર્શનો સ્વરૂપ નયોનો (અથવા દર્શનોના નયોનો = અભિપ્રાયોનો) બોધ થતાં તે-તે દર્શનોમાં બતાવેલા આત્મગુણધર્મો સિવાયના અન્ય વિશિષ્ટ પ્રકારના આત્મગુણોની જિજ્ઞાસા થવા દ્વારા તે વિચાર શુદ્ધનિશ્ચય નયને અનુસરે છે, તે વિચાર (reqण बने छे. (१४/१७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org