SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ • मुनिचन्द्राचार्याऽभयदेवसूरिमतभेदद्योतनम् • योग्यत्वेऽपि व्यवहितौ परे त्वेतौ पृथग् जगुः । अन्यत्राप्युपचारस्तु सामीप्ये बह्वभेदतः ।।३।। ___ योग्यत्वेऽपीति । परे त्वेतौ = मार्गपतित-मार्गाभिमुखौ योग्यत्वेऽपि व्यवहितौ = अपुनर्बन्धकाऽपेक्षया दूरस्थाविति पृथग् = अपुनर्बन्धकाद् भिन्नौ' जगुः । अन्यत्राऽपि = सकृद्बन्धकादावपि उपचारस्तु 'पूर्वसेवायाः सामीप्ये अपुनर्बन्धकसन्निधानलक्षणे सति बह्वभेदतः = अतिभेदाऽभावात् ।।३।। योगबिन्दुवृत्तिकृतां श्रीमुनिचन्द्रसूरीणां मतमुक्त्वा साम्प्रतं पञ्चाशकवृत्तिकृतां श्रीअभयदेवसूरीणामभिप्रायमावेदयन्नाह- 'योग्यत्वेऽपि' इति । परे = श्रीअभयदेवसूरयः तु मार्गपतित-मार्गाभिमुखौ योग्यत्वेऽपि = भावधर्माधिकारितया योगपूर्वसेवायोग्यत्वेऽपि अपुनर्बन्धकावस्थां सम्प्राप्य क्षीयमाणकुग्रहादिना द्रुतं मोक्षमार्गेऽभिसर्पन्तौ अपुनर्बन्धकाऽपेक्षया अतीवोच्चतरदशामारूढत्वेन दूरस्थौ इति अपुनर्बन्धकाद् भिन्नौ इति जगुः । यथा चैतत् तत्त्वं तथा बुभुत्सुभिः द्वितीयपञ्चाशकचरमश्लोकवृत्तिर्विलोकनीया । परमेतन्मतेऽपि द्वितीयपञ्चाशकचरमश्लोकवृत्तिस्थ सकृद्बन्धकादी'त्यत्रादिपदाद् द्विर्बन्धकादिग्रहणं कार्यं न तु मार्गपतित-मार्गाभिमुखयोः, तथाविधभववैराग्यसद्भावात् । एतेन → ण य अपुणबंधगाओ परेण इह जोग्गयावि जुत्त ति - (पञ्चा.३/८) इति पञ्चाशकवचनमपि व्याख्यातम्, ‘परेण = परतः सकृद्बन्धकादीनामिति पञ्चाशकवृत्तिकृता व्याख्यानात्, तत्र चाऽऽदिपदेन द्विर्बन्धकादेरेव ग्राह्यत्वसम्भवादिति ध्येयम् । तृतीयपञ्चाशकवृत्तौ तु अभयदेवसूरिभिः → न पुनरपुनर्बन्धकादिभ्योऽपरे मार्गाभिमुख-मार्गपतितसकृद्बन्धक-तदन्यमिथ्यादृशोऽधिकारिणः - (पञ्चा.३/७) इत्युक्तं तच्चिन्तनीयं नयान्तराऽभिप्रायेण । ____ अत एव → यद्यप्यत्राऽपुनर्बन्धक-मार्गपतित-मार्गाभिमुखाः त्रयोऽप्येकरूपा एव लभ्यन्ते तथापि चैत्यवन्दनपञ्चाशकवृत्तौ (पञ्चा.३ ।३-७) अभयदेवसूरिभिः भाववन्दनाधिकारितायामपुनर्बन्धकवदेतावनधिकृतौ सकृद्बन्धकादिवत् पृथक्कृतौ च 6 (उ.र.गा.६४ वृ.) इति उपदेशरहस्यवृत्तौ कथितम् । ___ ननु प्राक् (द्वा.द्वा.१४/२ पृ.९३६) सकृद्वन्धकादेरुपचारतः पूर्वसेवोक्ता परं स उपचारः कदा कर्तव्यः? इत्याशङ्कायामाह- सकृद्बन्धकादावपि पूर्वसेवाया उपचारस्तु अपुनर्बन्धकसन्निधानलक्षणे सामीप्ये सति अपुनर्बन्धकतः अतिभेदाऽभावात् कर्तव्यः, न तूत्कृष्टकर्मस्थितिबन्धलक्षणेऽपुनर्बन्धकवैलक्षण्ये सति ।।१४/३॥ ગાથાર્થ - અન્ય વિદ્વાનો એવું કહે છે કે માર્ગાભિમુખ અને માર્ગપતિત - આ બન્ને જીવો યોગ્ય હોવા છતાં દૂર રહેલા હોવાથી અપુનબંધક કરતાં ભિન્ન છે. તથા સકુબંધક વગેરેમાં પણ પૂર્વસેવાનો ७५यार होय छे. १२९. ॐ अपुन उनी न होपाथी मां धो अमे छे. (१४/3) ટીકાર્થ - અન્ય આચાર્ય ભગવંતો એમ કહે છે કે માર્ગાભિમુખ અને માર્ગપતિત જીવ જિનાજ્ઞાને જાણવાની યોગ્યતા ધરાવવા છતાં પણ અપુનબંધક કરતાં ઘણાં દૂર રહેલા હોવાથી એ બન્નેને અપુનબંધક કરતાં શાસ્ત્રમાં જુદા બતાવેલા છે. તથા સકૃબંધક વગેરે જીવોમાં પણ પૂર્વસેવાનો ઉપચાર થાય છે. કારણ કે અપુનબંધક જીવની નજીક આવેલા સકૃબંધક વગેરે જીવોમાં અપુનબંધક કરતાં બહુ ઝાઝો ભેદ રહેતો નથી. (૧૪/૩) વિશેષાર્થ - પ્રસ્તુત ગાથામાં પંચાશક-વૃત્તિકાર શ્રીઅભયદેવસૂરિજી મહારાજનો મત ગ્રંથકારશ્રીએ દર્શાવેલ છે. શ્રીઅભયદેવસૂરિજી મહારાજના મતે, અપુનબંધક અવસ્થાની પ્રાપ્તિ બાદ જીવ ઘણો વિકાસ १.'भिन्नो' इति मुद्रितप्रतौ पाठोऽशुद्धः। २. उपचारतस्तु' इति मुद्रितप्रतौ पाठोऽशुद्धः। ३.हस्तादर्श 'पूर्वसेवया' इत्यशुद्धः पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004941
Book TitleDwatrinshada Dwatrinshika Prakran Part 4
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages378
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy