________________
• प्रशस्तरागादेरपि परमार्थतोऽनुपादेयता
तदुक्तं- “ क्षेपेऽपि चाऽप्रबन्धादिष्टफलसमृद्धये न जात्वेतत् ।
'नाऽसकृदुत्पाटनतः शालिरपि फलाऽऽवहः पुंसः || ” ( षो. १४ / ६) ।।१७।। आसङ्गः स्यादभिष्वङ्गस्तत्राऽसङ्गक्रियैव न । ततोऽयं हन्त तन्मात्रगुणस्थाने स्थितिप्रदः ।। १८ ।। आसङ्ग इति । आसङ्गोऽभिष्वङ्गः स्यात् 'इदमेव सुन्दरमनुष्ठानमित्येवं नियमाऽभिनिवेशरूपः । तत्र = तस्मिन् सति असङ्गक्रियैव = अभिष्वङ्गाऽभाववत्यनवरतप्रवृत्तिरेव न भवति । काद् योगात् फलम् । अत्रैव षोडशकसंवादमाह - 'क्षेप' इति । अस्य योगदीपिकाव्याख्यैवम् क्षेपेऽपि चित्तदोषे अप्रबन्धात् चित्तस्य शिथिलमूलत्वात् इष्टफलस्य योगनिष्पत्तिरूपस्य समृद्धये अभ्युदयाय न जातु = कदाचित् एतत् = करणं भवति । अत्र दृष्टान्तमाह- न असकृत् उत्खननात् शालिरपि धान्यविशेषः फलावहः = फलप्रदः पुंसः ६ यो . दी . ) ।।१८ / १७।।
अनेकश उत्पाटनात्
पुरुषस्य भवति ← (षो. १४/
=
अधुनाऽवसरोचितमाऽऽसङ्गदोषमाह - 'आसङ्ग' इति । 'इदमेव सुन्दरमनुष्ठानमि' त्येवं नियमाऽभिनिवेशरूपः = प्रकृताऽनुष्ठानेऽन्यविहिताऽनुष्ठानप्रीत्यतिशयितप्रीतिलक्षणः चित्तदोषः । तस्मिन् निरुक्ताऽऽसङ्गे सति अभिष्वङ्गाऽभाववती = निजशुद्धचैतन्यस्वरूपविस्मरणप्रयोजकरागविषत्यागवती अनवरतप्रवृत्तिः सततं तत्त्वसंवेदनगर्भा योगप्रवृत्तिः एव न भवति । प्राथमिकदशायां प्रशस्ताऽभिष्वङ्गस्य तदितरनिराकरणद्वारा प्रयोजनभूतत्वेऽपि अग्रेतनभूमिकायां शुद्धचिद्रूपविस्मृति-तदनुभवव्याक्षेपादिकारितया तत्त्वतो हेयत्वमेव । इदमेवाभिप्रेत्य अध्यात्ममतपरीक्षावृत्तौ प्रशस्तराग-द्वेषयोरपि निवर्तनीयतया परमार्थतोऽनुपादेयत्वात् ← ( अ.परी . १८० वृत्ति) इत्युक्तम् । नयरहस्येऽपि चरणगुणस्थितिश्च परममाध्यस्थ्यरूपा न राग-द्वेषविलयमन्तरेणेति तदर्थिना तदर्थमवश्यं प्रयतितव्यम् ← (न.रह. पृ. २३२ ) इत्युक्तम् । इत्थमेव योगिनः कुशलत्वोपपत्तेः । तदुक्तं सिद्धसेनीयद्वात्रिंशिकायां को हि रागो विरागो वा कुशलस्य प्रवृत्तिषु ← (सि.द्वा.१३ / २३) इति श्रीजिनेश्वरैस्तु अहिदष्टच्छेदाद्युदाहरणतोऽभिष्वङ्गविषत्याग-संवेदनादिगर्भाद् हेयोपादेयविषयात्तात्त्विकज्ञानाच्छुद्धं सामायिकाद्यनुष्ठानं विहितमिति हेतोः एकान्ताऽनभिष्वङ्गाऽनुष्ठानं क्रियमाणं श्रेयः; 'तत्त्वाभिष्वङ्गस्यापि तत्त्वतोऽतत्त्वाद् वस्त्रादिशुद्धिविधावञ्जनकल्पत्वाद्, धर्मरागादपि मुनिरमुनिः' ( योगशतक १८ वृत्तौ उद्धृतः ) इत्यन्यैरप्यभिधानात् । अनेन रूपेण
=
१. हस्तादर्शे 'नाशकृत्पा...' इति त्रुटितः पाठः ।
Jain Education International
=
=
For Private & Personal Use Only
=
ષોડશક ગ્રંથમાં પણ કહેલ છે કે ‘ચિત્તનો ક્ષેપ દોષ હોય ત્યારે પણ સાતત્ય ન રહેવાના કારણે આ ક્રિયા ક્યારેય પણ ઇષ્ટ ફળના અભ્યુદય માટે થતી નથી. ડાંગર પણ અવાર-નવાર ઉખેડ્યા પછી पुरुषने इजग्रह जनती नथी. (१८ / १७ )
* આસંગને ખસેડી અસંગ બનીએ ક
१२४५
ગાથાર્થ :- આસક્તિ આસંગ. તે હોય ત્યારે અસંગક્રિયા જ થતી નથી. તેથી ખેદની વાત છે કે આ દોષ માત્ર તે ગુણસ્થાનકે રહેવાનું કરાવે છે. (૧૮/૧૮)
ટીકાર્થ :- ‘આ જ અનુષ્ઠાન સુંદર છે' આ પ્રમાણેની આસક્તિ = એકાંત અભિનિવેશ ખરેખર આસંગ દોષરૂપ થઇ જાય છે. આસંગ દોષ હોય ત્યારે આસક્તિશૂન્ય નિરંતર પ્રવૃત્તિ જ થઇ શકતી નથી.
=
www.jainelibrary.org