________________
१२४४ • संविग्नपाक्षिकादिव्यवस्था •
द्वात्रिंशिका-१८/१७ तदुक्तं- "उत्थाने निर्वेदात्करणमकरणोदयं सदैवाऽस्य ।
अत्यागत्यागोचितमेतत्तु 'स्वसमयेऽपि मतम् ।।" (षो.१४/७) ।।१६।। क्षेपोऽन्तराऽन्तराऽन्यत्र चित्तन्यासोऽफलावहः। शालेरपि फलं नो यदृष्टमुत्खननेऽसकृत् ।।१७।।
क्षेप इति । अन्तराऽन्तरा योगकरणकालस्यैव अन्यत्र = अधिकृताऽन्यकर्मणि चित्तन्यासः = क्षेपः । स च अफलाऽऽवहः = फलाऽजनकः । यद् = यस्मात् शालेरपि = व्रीहेरपि असकृद = वारंवारं उत्खनने = उत्पाटने फलं न दृष्टम् । असकृदुत्पाटनेन शालेरिव क्षेपेण योगस्य फलजननशक्तिनाशान्न ततः फलमिति भावः । प्रशान्तवाहिताऽभावाद् बाह्यवृत्त्या योगकरणेऽपि न योगकरणाऽर्हफललाभो भविष्यत्काले सम्भवतीति निष्फलमिदमिति भावः ।
प्रकृते षोडशकसंवादमाह 'उत्थान' इति । अस्य प्रकृतग्रन्थकृद्रचिता योगदीपिकाऽऽख्या व्याख्या एवम् → उत्थाने चित्तदोषे सत्यप्रशान्तवाहितया निर्वेदात् हेतोः करणं = निष्पादनं आयतिमाश्रित्याऽकरणस्यैवोदयो यस्मिंस्तत्तथा, सदैव अस्य = योगस्य । कीदृशं तत्करणं ? अत्यागं = अशक्यत्यागं, बाह्यप्रतिज्ञाभङ्गस्य लोकाऽपवादहेतुत्वात् तस्य च दुःसहत्वात् तथा त्यागाय उचितं = योग्यं अप्रशान्तवाहितादोषविषमिश्रितत्वात्, एतत्तु = एतत्पुनः करणं स्वसमयेऽपि = स्वसिद्धान्तेऽपि मतं = अभीष्टम् । अतः एव गृहीतदीक्षस्य सर्वथा मूलोत्तरगुणनिर्वहणाऽभावे विधिना सुश्रावकाऽऽचारग्रहणमुपदर्श्यते ।
अत्यागं कथञ्चिदुपादेयत्वात् त्यागोचितं च सदोषत्वादिति व्याख्यायां तु भावविशेषकृतगुण-दोषतुल्यभावो द्रष्टव्यः। इत्थमेव संविग्नपाक्षिकादिव्यवस्थासिद्धेरिति दिग् (षो.१४/७ यो.दी.) इति । अधिकन्त्वस्मत्कृतकल्याणकन्दलीतो दृश्यम् ।।१८/१६।।
क्रमप्राप्तं क्षेपमाह- 'क्षेप' इति । योगकरणकालस्यैव = विवक्षितयोगप्रवृत्तिकालस्यैव अन्तरा अन्तरा अधिकृताऽन्यकर्मणि = विवक्षितेतरक्रियायां चित्तन्यासः = मनोविन्यासः = क्षेपः। क्षेपेण योगस्य क्रियमाणस्य फलजननशक्तिनाशात् = कालान्तरभाविफलाऽवश्यम्भावसामर्थ्यविघटनात् न ततः = क्षीणशक्ति
ષોડશક ગ્રંથમાં જણાવેલ છે કે “ઉત્થાન દોષ હોય ત્યારે નિર્વેદ હોવાથી હંમેશા યોગસાધના કરવા છતાં પણ ન કરવાનું જ ફળ મળે છે. આવી યોગસાધના અશક્યત્યાગવાળી હોવા છતાં ત્યાગને योग्य छे. माj ५९॥ *नाममा ५९॥ मान्य छ.' (१८/१६)
છ ક્ષેપ દોષની સમજણ છે ગાથાર્થ :- વચ્ચે-વચ્ચે બીજે મન જાય તે ક્ષેપ દોષ જાણવો. તે ફળજનક બનતો નથી. ખરેખર ડાંગર વારંવાર ઉખેડવામાં આવે તો તેનું પણ ફળ દેખાતું નથી. (૧૮/૧૭)
ટીકાર્થ :- યોગસાધના કરવાના સમયે જ, યોગસાધના ચાલુ હોય ત્યારે જ વચ્ચે-વચ્ચે પ્રસ્તુત યોગસાધના સિવાયના અનધિકૃત કામમાં મનને મોકલવું તે ક્ષેપદોષ. તે ફળનિષ્પાદક બની શકતો નથી. કારણ કે ડાંગરને વારંવાર ઉખેડવામાં આવે તો તેનું પણ ફળ દેખાતું નથી. મતલબ એ છે કે વારંવાર ઉખેડવાથી જેમ ડાંગરની ફળજનનશક્તિનો નાશ થાય છે તેમ #પદોષથી યોગસાધનાની કાર્યોત્પાદક શક્તિનો ઉચ્છેદ થઈ જાય છે. માટે તેનાથી ફળ પ્રાપ્ત થતું નથી. १. हस्तादर्श ‘स्वमये' इति त्रुटितः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org