________________
१२१४
• उपदेशपदविरोधपरिहारः • द्वात्रिंशिका-१७/३१ (२) श्रद्धा = शुद्धानुष्ठानगता तीव्ररुचिः । (३) प्राज्ञस्य = पण्डितस्य प्रज्ञापना = अर्थविशेषदेशना', __ प्रकृते → सदन्धसङ्गतिसमं गीतं चास्येदमावि(?खि)लम् । सद्भावनेत्राऽभावे तथा मार्गाऽनुसारिणः ।। - (ब्र.सि.५३) इति ब्रह्मसिद्धान्तसमुच्चयवचनमपि स्मर्तव्यम् ।
ननु ग्रन्थिभेदात्सम्यग्दृष्टेरपि सदा सज्जाक्षत्वं उपदेशपदे → जच्चंधो इह णेओ अभिण्णगंठी, तहंधलयतुल्लो । मिच्छद्दिट्ठी, सज्जक्खओ य सइ सम्मदिट्ठी ओ ।। एसो मुणेइ आणं विसयं च जहट्ठियं णिओगेणं । एईए करणंमि उ पडिबंधगभावओ भयणा ।।
6 (उप.पद.४७७-४७८) इत्यादिनोक्तं, इह तु चारित्रिणोऽप्यन्धत्वमुच्यते भवद्भिरिति कथं न विरोधः इति चेत्? अत्रोच्यते, कृष्ण-श्रेणिकादीनां सम्यग्दृष्टीनां करतलकलितमुक्ताफलन्यायेन निश्चिताऽऽज्ञायथावस्थितोत्सर्गाऽपवादादिरूपत्वेन सदा प्रगुणलोचनत्वसम्भवेऽपि निबिडज्ञानावरणाद्युदयेन चारित्रिणामपि केषाञ्चिन्माषतुषादिवत् यथावस्थितश्रुतोपयोगराहित्याऽगीतार्थत्वादिसम्भवेनान्धत्वोक्तिविरोधाऽभावादिति समाधेयम् । यथोक्तमेतदभिप्रायेण पञ्चाशके → चारित्तओ च्चिय दढं मग्गणुसारी इमो हवइ पायं । एत्तो हिते पवत्तति तह णाणातो सदंधो व्व ।। अंधोऽणंधो व्व सदा तस्साऽऽणाए तहेव लंघेइ । भीमं पि हु कंतारं भवकंतारं इय अगीतो ।। (पञ्चा.११/१०-११) -- इति प्रागप्युक्तं (पृ.१६४) स्मर्तव्यमत्र । तदुक्तं उपदेशरहस्येऽपि → अन्धो असायरहिओ पुराऽणुसारी जहा सयं होइ । एवं मग्गणुसारी मुणी अणाभोगपत्तोऽवि ।। 6 (उप.रह. ८६) इति भावनीयमागमपरिकर्मितमतिभिः। धर्मरत्नप्रकरणे तु चारित्रिलिङ्गभूतमार्गानुसारिक्रियानिरूपणे → मग्गो आगमनीई अहवा संविग्गबहुजणाऽऽइण्णं । उभयाऽणुसारिणी जा सा मग्गणुसारिणी किरिया ।। - (ध.रत्न.८०) इति यदुक्तं तदप्यत्राऽनुसन्धेयम् ।
प्रथमं चारित्रलिङ्गमभिधाय द्वितीयं तदाह- श्रद्धा = शुद्धाऽनुष्ठानगता तीव्ररुचिः कान्तारोत्तीर्णब्राह्मणहविःपूर्णगोचररुच्यतिशायिनी। चारित्रिणो द्वितीयलिङ्गनिरूपणे पञ्चाशकवृत्तौ उपदेशपदवृत्तौ च → श्राद्धः = तत्त्वं प्रति श्रद्धावान्, तत्प्रत्यनीकक्लेशहासातिशयाद्, अवाप्तव्यमहानिधानतद्ग्रहणविधानोपदेशश्रद्धालुनरवत् । विहिताऽनुष्ठानकारिरुचिर्वा (पञ्चा.३/६ वृत्ति/उप.पद.१९९ वृत्ति) इति ।
प्रकृते चारित्रिलिङ्गभूता श्रद्धा तु (१) विधिसेवा, (२) ज्ञान-चारित्र-वैयावृत्त्य-तपःप्रभृतिगोचराऽतृप्तिः, (३) शुद्धदेशना, (४) आलोचनया स्खलितपरिशुद्धिरित्येवं चतुर्विधा ज्ञेया । तदुक्तं धर्मरत्नप्रकरणे → सद्धा तिव्वभिलासो धम्मे पवरत्तणं इमं तीसे । विहिसेव (१) अतित्ती (२) सुद्धदेसणा (३) खलियपरिसुद्धी (४)।। (ध.रत्न.९०) इति । द्रव्य-क्षेत्रादिवैषम्येन कदाचित्सत्क्रियावैकल्येऽप्येतद्गुणादेव तत्पक्षपातोऽनाविलः । तदुक्तं उपदेशरहस्ये → मालइगुणण्णुणो महुअरस्स तप्पक्खवायहीणत्तं । पडिबंधेऽवि ण कइआ एमेव मुणिस्स सुहजोगे ।। (उप.रह.८९) इति ।
तृतीयं तल्लिङ्गं व्याख्यानयति-पण्डितस्य अर्थविशेषदेशना, तत्र = अर्थविशेषप्रज्ञापनायां श्रवण
શુદ્ધ અનુષ્ઠાન વિશે તીવ્ર રુચિ શ્રદ્ધા કહેવાય છે. આ ચારિત્રનું બીજું લક્ષણ છે. તથા પંડિત પોતાને વિશિષ્ટ શાસ્ત્રાર્થસંબંધી ઉપદેશ આપે તેને સાંભળવાની અને તે વિષયને અમલમાં મૂકવા માટેની
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org