________________
मार्गानुसारितास्वरूपविद्योतनम्
१२१३
6
मार्गेति । (१) मार्गानुसारिता = अनाभोगेऽपि सदन्धन्यायेन मार्गानुसरणशीलता । यदुक्तं“ असातोदयशून्योऽन्धः कान्तारपतितो यथा । गर्तादिपरिहारेण सम्यक् तत्राऽभिगच्छति ।। तथाऽयं भवकान्तारे पापाऽऽदिपरिहारतः । श्रुतचक्षुर्विहीनोऽपि सत्सातोदयसंयुतः ।। अनीदृशस्य तु पुनश्चारित्रं शब्दमात्रकम् । ईदृशस्याऽपि वैकल्यं विचित्रत्वेन कर्मणाम् ।।” (यो. बिं. ३५४-५५-५६) इति ।
·
=
=
चारित्रलिङ्गान्याह- ‘मार्गे’ति । मार्गं = तत्त्वत्पथं अनुसरति = अनुयाति इत्येवंशीलः = मार्गानुसारी निसर्गतः तत्त्वाऽनुकूलप्रवृत्तिः, चारित्रमोहनीयकर्मक्षयोपशमात् । एतच्च तत्त्वाऽवाप्तिं प्रति अवन्ध्यं कारणं, कान्तारगतविवक्षितपुरप्राप्तिसद्योग्यतायुक्ताऽन्धस्येव इति उपदेशपदवृत्तिकारः ( उप पद.१९९) । तस्य भावः = मार्गानुसारिता = अनाभोगेऽपि = तथाविधश्रुतोपयोगवैकल्येऽपि सदन्धन्यायेन वक्ष्यमाणेन मार्गाऽनुसरणशीलता । अन्धस्य शोभनत्वञ्च सज्जाऽक्षसहायनरवचनाऽनुवर्तकत्वात् । यथा हि सदन्धः सहायाऽनुवर्तनेनेप्सितस्वस्थानप्राप्तिरूपे हिते प्रवर्तते तथैवाऽगीतार्थचारित्र्यपि तथाज्ञानान्मार्गाऽनुसारित्वेन गीतार्थाऽऽज्ञाकरणादौ हिते प्रवर्तत इति पञ्चाशकवृत्तिकारः ( पञ्चा. ११/१० ) ।
=
=
ग्रन्थकारोऽत्र कारिकात्रितयेन योगबिन्दुसंवादमाह यदुक्तं- 'असातोदये'ति, 'तथाऽयमिति, 'अनीदृशस्येति च। तद्व्याख्या चैवम् → असातोदयशून्यः = असद्वेदनीयविपाकरहितः अन्धः प्रतीतरूपः कान्तारपतितः गर्तादण्डारण्यादिमहाटवीमध्यमग्नः यथा इति दृष्टान्तार्थः गर्तादिपरिहारेण दरीप्रभृतिविषममार्गत्यागेन सम्यग् = यथा विवक्षितस्थानाऽवाप्तिः स्यात् तथा तन्त्र कान्तारे अभिगच्छति गन्तुं प्रवर्तते ( यो. बिं. ३५४) । तथाऽयं चारित्री भवकान्तारे संसाराऽटव्यां पापादिपरिहारतः पापकरण-पापफलपरित्यागेन श्रुतमेव सद्भूताऽर्थाऽवलोकहेतुत्वात् चक्षुः तेन विहीनोऽपि = माषतुषादिवद् विरहितः किं पुनः तदन्यरूप इत्यपिशब्दार्थः, सन् = अतिदृढतया यः सुन्दरः सातोदयः तेन संयुतः (यो . बिं. ३५५ ) । अत्रैव व्यतिरेकमाह- अनीदृशस्य तु पुनः चारित्रं देशतः सर्वतो वा शब्दमात्रकं शब्दरूपमेव, न त्वर्थतोऽपि । ननु सम्यग्दृष्टेरविरतस्यापि मार्गानुसारित्वमस्ति कथं न चारित्रम् ? इत्याशङ्क्याह - ईदृशस्यापि
=
मार्गाऽनुसारित्वादिलिङ्गविकलस्य पुनः
मार्गानुसारिणोऽपि कस्यचित्
वैकल्यं चारित्रस्य, कथम् ? इत्याह- विचित्रत्वेन निकाचितादिरूपतया कर्मणां = चारित्रमोहादीनाम् । तथा चोक्तम्- 'कम्माइ नूणं घणचिक्कणाई गरुयाइं वज्जसाराई । नाणड्ढयं पि पुरिसं पहाओ उप्पहं न्ति' ।। ( ) इति ← (यो . बिं. ३५६ वृत्ति) |
=
·
=
=
=
=
=
ટીકાર્થ :- (૧) અજાણતાં પણ સદંધન્યાયથી માર્ગાનુસારિતા ચારિત્રનું પ્રથમ લિંગ છે. યોગબિંદુ ગ્રંથમાં જણાવેલ છે → ‘જેમ અસાતાના ઉદય વગરનો જન્માંધ માણસ જંગલમાં રહેલો હોવા છતાં ખાડા-ટેકરા વગેરેનો પરિહાર કરીને સારી રીતે જંગલમાંથી પસાર થઈ જાય છે. તેમ શ્રુતચક્ષુશૂન્ય હોવા છતાં પણ સારા સાતાવેદનીયના ઉદયવાળા ચારિત્રધર સાધક પાપાદિનો ત્યાગ કરીને ભવાટવીમાંથી પસાર થઈ જાય છે. જો આ રીતે મોક્ષમાર્ગને સાધક અનુસરે નહિ તો તેનું ચારિત્ર નામમાત્રસ્વરૂપ બને છે. તથા માર્ગાનુસારી એવા પણ સમકિતી જીવનેં ચારિત્રવિકલતા કર્મની વિચિત્રતાના કારણે સમજવી.' <
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org