SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ ११९४ • फलानुत्पादेऽपि कर्मणः फलजननशक्तिमत्त्वम् • द्वात्रिंशिका-१७/२२ फलस्य = सुख-दुःखादिरूपस्य पुरुषकारबाध्यत्वेन अनियमेऽपि एवं कर्मयोग्यताऽक्षता, अध्यवसायविशेषप्रयुक्तरसस्थितिविशेषघटितत्वात्तस्याः, प्रामाणिकलोकप्रसिद्धत्वाच्च फलाऽभावेऽपि बाध्यकर्मयोग्यताव्यवहारस्येति भावः । तदुक्तं- "नियमात्प्रतिमा नात्र न चाऽतोऽयोग्यतैव हि। तल्लक्षणवियोगेन प्रतिमेवाऽस्य बाधकः” (यो.बिं. ३३२) इति ।।२२।। __एवं प्रकारेण सुख-दुःखादिरूपस्य फलस्य = कर्मसाध्यफलस्य दशाविशेषे पुरुषकारबाध्यत्वेन = विभिन्नफलोपधायकबलवद्यत्नोपघात्यत्वेन अनियमेऽपि = अनैकान्त्येऽपि कर्मयोग्यता = दैवनिष्ठ फलजननयोग्यता अक्षता, तस्याः = कर्मगतयोग्यतायाः अध्यवसायविशेषप्रयुक्तरस-स्थितिविशेषघटितत्वात् = मिथ्यात्वाऽविरति-कषाय-लेश्यादिसहकृताऽन्तःकरणपरिणामविशेषप्रयुक्तेन फलप्राचुर्याधुपपादकाऽनुभागाऽवस्थानविशेषेण गुम्फितत्वात्, फलाऽभावेऽपि = पुरुषकारबाध्यकर्मसाध्यसुखादिकार्याऽनुपधानेऽपि बाध्यकर्मयोग्यताव्यवहारस्य = अनुपधेयफलककर्मगतफलजननयोग्यताव्यवहृतेः प्रामाणिकलोकप्रसिद्धत्वाच्च = प्रमाणानुसारिशिष्टलोकेषु स्वरसतः प्रसिद्धत्वाच्च । तदुक्तं योगबिन्दौ नियमादिति । तवृत्तिस्त्वेवम् → नियमात् = अवश्यन्तया प्रतिमा = दैवतादिप्रतिबिम्बरूपा न = नैव अत्र = दादौ योग्यतायां सत्यामपि । न च अतः = प्रतिमाया अभवनाद् अयोग्यतैव हि । कथम् ? इत्याह- तल्लक्षणवियोगेन' = अयोग्यतालक्षणाऽभावेन तथालोकरूढेः । ततः प्रतिमेव = प्रतिबिम्बनिष्पत्तिरिव दार्वादेः योग्यतायाः अस्य = कर्मणः बाधकः पुरुषकारः । यथा हि दार्वादीनां योग्यता तावदेव व्यपदिश्यते यावत्प्रतिमालक्षणं कार्यं न २ निष्पद्यते कार्यनिष्पत्तौ सर्वत्र कारणस्याऽकारणीभूततया रूढत्वात् । एवं कर्माऽपि यावत्पुरुषकारेण विक्रियां अन्यथापरिणतिलक्षणां नाऽऽनीयते तावत्तदबाधितरूपमेवाऽऽस्ते । पुरुषकारप्रवृत्तौ तु तयोर्बाध्यबाधक भावः सम्पद्यत इति (यो.बि.३३२) । न चैवमेकस्मिन्नेव कर्मणि सकलफलजननयोग्यताऽऽपत्तिरपरिहार्या स्यादिति शङकनीयम्, काययोगाद्यधीनप्रकृत्यादिबन्धाऽनुसारेणैव तत्तत्फलजननयोग्यतायाः तत्तत्कर्मणि स्वीकारादिति दिक ।।१७/२२।। તેમ સુખ-દુઃખાદિ સ્વરૂપ કર્મફળ પુરુષાર્થ દ્વારા બાધ્ય હોવાથી અવશ્ય ઉત્પન્ન થાય તેવો નિયમ ન હોવા છતાં પણ કર્મમાં યોગ્યતા અવ્યાહત જ છે. કારણ કે કર્મગત ફળજનનયોગ્યતા તો વિશિષ્ટ પ્રકારના અધ્યવસાયથી પ્રયુક્ત એવા રસવિશેષ અને સ્થિતિ વિશેષથી ઘટિત છે. તથા ફળોત્પાદકતાનો નિયમ ન હોવાથી પુરુષાર્થબાધ્ય કર્મનું ફળ ન થવા છતાં પણ પુરુષાર્થબાધ્ય એવા કર્મમાં ફળજનનયોગ્યતાનો વ્યવહાર પ્રામાણિક લોકોમાં પ્રસિદ્ધ છે. યોગબિંદુ ગ્રંથમાં જણાવેલ છે કે – “લાકડા વગેરેમાંથી અવશ્ય પ્રતિમા ઉત્પન્ન થાય તેવો નિયમ નથી અને તેટલા માત્રથી તેમાં અયોગ્યતા જ છે - એવું પણ નથી સિદ્ધ થતું. કારણ કે પ્રતિમા ઉત્પન્ન થવાની અયોગ્યતાના લક્ષણ (ધૂમાડામાં રહેલા છે તેમ) તેમાં રહેલા નથી. તેથી પ્રતિમાની ઉત્પત્તિ જેમ લાકડામાં રહેલી પ્રતિમાયોગ્યતાની બાધક બને છે તેમ પુરુષાર્થ भनी = र्भात इसननयोग्यतानो पाप बने .' 6 (१७/२२) १. योगबिन्दुवृत्तौ मुद्रितायां प्रकृते '... नियोगेन' इति पाठः । स च प्रस्तुतद्वात्रिंशिकावृत्तिगतपाठाऽपेक्षयाऽर्थविवरणविवक्षया चाऽशुद्धः प्रतिभाति । २. मुद्रितायां योगबिन्दुवृत्तौ 'न' इति पदं नास्ति । परं अस्माभिरावश्यकत्वात्तद् गृहीतम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004941
Book TitleDwatrinshada Dwatrinshika Prakran Part 4
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages378
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy