________________
• नय - प्रमाणाभ्यां ध्वंसस्वरूपप्रज्ञापनम् •
ननु येन कर्मणा फलं न जन्यते, तत्र न तद्योग्यतैव, किं यत्नस्य तद्बाधकत्वेनेत्याशङ्कायामाहप्रतिमाया अनियमेऽप्यक्षता योग्यता यथा । फलस्यानियमेऽप्येवमक्षता कर्मयोग्यता ।। २२ ।। प्रतिमाया इति । प्रतिमाया अनियमेऽपि = ' अनैकान्त्येऽपि दार्वादिदले यथा योग्यता प्रतिमाया अक्षता तथालोकव्यवहारात् । यदुत्पत्तिप्रयोज्या यदनुपलब्धिः स तत्प्रध्वंस इति तात्पर्यम् । अवश्यं प्रतिमोत्पत्तिप्रयोज्या प्रतिमायोग्यतानुपलब्धिरिति प्रतिमैव प्रतिमायोग्यताध्वंस इति स्वध्वंसाऽभिन्नफलोत्पत्तिव्याप्यत्वमुपादानस्याऽनाविलमेव ।
तत्र ऋजुसूनये प्रतिमाक्षण एव प्रतिमोपादानक्षणध्वंसः । न च द्वितीयादिक्षणेष्वेवं ध्वंसस्याभावेन दार्वादेः पुनरुन्मज्जनाऽऽपत्तिरिति शङ्कनीयम्, ध्वंससन्तानाऽभावस्यैव तदापादकत्वात् । व्यवहारनये तु दार्वाद्युत्तरकालवर्त्ति प्रतिमादिस्वद्रव्यं प्रतिमायोग्यताध्वंसः । प्रमाणाऽर्पणात्तु प्रतिमादिरूपं दार्वादिद्रव्यं प्रतिमायोग्यताध्वंसः । तदित्थं नयाऽर्पणात् प्रमाणाऽर्पणाच्च भावस्वभाव एव ध्वंसोऽपि प्रसिद्धिसौधमधितिष्ठति । तुच्छस्वभावत्वे तु प्रध्वंसस्य दार्वादौ शिल्प्यादिव्यापारवैयर्थ्यं स्यात् । प्रमाण- नयार्पणया विस्तरतो ध्वंसस्वरूपं बुभुत्सुभिरस्मत्कृता जयलता विलोकनीया (स्याद्वादरहस्यव्याख्या -मध्यम-खण्ड -१ पृ.१४-२२) ।।१७/२१ ।।
ननु येन कर्मणा फलं सुख-दुःखादिलक्षणं न जन्यते = नैवोपधीयते तत्र कर्मणि न तद्योग्यतैव सुखादिजननयोग्यतैव, कार्याऽनुपहितयोग्यतायां मानाऽभावात् किं यत्नस्य = पुरुषकारस्य तद्बाधकत्वेन कर्मगतफलजननशक्तिविघटनेनाऽजागलस्तनायमानेन ? अन्यथैकस्मिन्नपि कर्मणि सकलफलजननयोग्यताऽङ्गीकर्तव्या स्याद् इत्याशङ्कायामाह - 'प्रतिमाया' इति । दार्वादितः प्रतिमाया उत्पादस्य अनैका - न्त्येऽपि = भजनाविषयत्वेऽपि दार्वादिदले प्रतिमादलभूतकाष्ठादौ प्रतिमाया योग्यता यथा अक्षता = अव्याहता, तथालोकव्यवहारात् = 'इदं दार्वादिकं प्रतिमायोग्यमित्यादिरूपेण शिष्टलोकव्यवहृतिदर्शनात्। कुतोऽपि हेतोः प्रतिमानुत्पत्तावपि दार्वादिदले तथाविधशब्द- ज्ञानरूपस्य योग्यताव्यवहारस्याऽयोग्यत्वव्यवहारविलक्षणस्याऽऽगोपालाऽङ्गनाप्रसिद्धत्वेन पराकर्तुमशक्यत्वादिति व्यक्तं उपदेशरहस्यवृत्ती (उ.
=
=
=
११९३
र.वृ.गा. ४८ ) ।
66
જે કર્મ દ્વારા ફળ ઉત્પન્ન થતું નથી તે કર્મમાં ફળજનનયોગ્યતા જ નથી રહેતી. આમ માની લો ને ! પુરુષાર્થને કર્મગત યોગ્યતાનો બાધક માનવાની જરૂર શી છે ? વ્યર્થ ગૌરવ શા માટે કરવું?” આવી કોઇને શંકા થાય તો તેના નિરાકરણ માટે ગ્રંથકારશ્રી જણાવે છે કે
* સ્વરૂપ યોગ્યતા પણ
સ્વીકાર્ય
ગાથાર્થ :- જેમ દરેક લાકડામાંથી પ્રતિમા ઉત્પન્ન થાય જ આવો કોઇ નિયમ ન હોવા છતાં તેમાં પ્રતિમાયોગ્યતા અવ્યાહત જ છે. તે જ રીતે દરેક કર્મ દ્વારા ફળ ઉત્પન્ન થાય જ' તેવો કોઇ નિયમ ન હોવા છતાં પણ કર્મમાં ફળજનન યોગ્યતા અવ્યાહત રીતે રહેલી જ છે. (૧૭/૨૨)
ટીકાર્થ :- ‘દરેક લાકડામાંથી પ્રતિમા અવશ્ય ઉત્પન્ન થાય’ તેવો નિયમ ન હોવા છતાં જેમ લાકડા વગેરેમાં પ્રતિમાને ઉત્પન્ન કરવાની યોગ્યતા અવ્યાહત છે, કારણ કે લોકોમાં તેવા પ્રકારનો વ્યવહાર દેખાય છે. १. हस्तादर्शे 'आने.' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org