________________
• एकस्यापि बलवतो मुख्यता •
११५९ एतद् द्वयं प्रत्येकजन्यत्वव्यपदेशे नियामकं (=प्रत्येकजन्यत्वव्यपदेशनियामकम्), अन्यथा सर्वस्य बहुत्वमेव । एकोऽपि सिंहो बलवानुच्यते न तु मेषाऽजादिशतम् ।
ननु प्रकृतग्रन्थकारेणैव उपदेशरहस्यवृत्तौ → अल्पप्रयाससाहाय्येन फलमुपनयमानेन कर्मणा जनितं दैवकृतमिति व्यपदिश्यते, बहुप्रयाससाहाय्येन फलमुपनयमानेन च तेन जनितं पुरुषकारकृतमिति । अथवा अल्पकर्मसहकृतपुरुषकारजन्यं पुरुषकारकृतमिति व्यपदिश्यते बहुकर्मसहकृतपुरुषकारजन्यञ्च दैवकृतम् + (उप.रह.५२ वृ.पृ.११३) इत्युक्तमिति कथमस्य तेन समं न विरोधः? इति चेत् ? न, तत्राऽप्यल्प-बहुत्वयोरनुत्कटत्वोत्कटत्वरूपताया एवाऽभिमतत्वात्, न त्वल्पपरिमाण-सङ्ख्याकत्वादिरूपतायाः। साम्प्रतं प्रकृतगौण-मुख्यभाव उपदेशपदप्रसिद्धसार्धगाथाद्वयेनोपदर्श्यते । तथाहि- तदुक्तं तत्र → ववहारो वि हु दोण्ह वि इय पाहण्णाइ निप्फण्णो + (उप.पद.३४९) इति । व्याख्या- “व्यवहारो दैवकृतमिदं पुरुषकारकृतमिदमिति विभागेन यः प्रवर्त्तमान उपलभ्यते सोऽपि द्वयोरपि दैव-पुरुषकारयोरित्येवमुभयतथाभावे सति प्राधान्यादिनिष्पन्नः प्रधानगुणभावनिष्पन्नो वा वर्त्तते” । (उप.पद ३४९ वृत्ति)।
“जमुदग्गं थेवेणं कम्मं परिणमइ इह पयासेण । तं दइवं विवरीयं तु पुरिसगारो मुणेयव्वो ।।" (उप.प.३५०) व्याख्या- 'यदुदग्रमुत्कटरसतया प्राक्समुपार्जितं स्तोकेनापि कालेन परिमितेन कर्म सद्वेद्यादि परिणमति = फलप्रदानं प्रति प्रवीभवति, इह जने प्रयासेन राजसेवादिना पुरुषकारेण, तथैव लोके समुघुष्यते । विपरीतं तु यदनुदगं बहुना प्रयासेन परिणमति पुनस्तत्पुरुषकारो मुणितव्य इति (उप.प. ३५० वृ.) । “अहवप्पकम्महेऊ ववसाओ होइ पुरिसगारोत्ति । बहुकम्मणिमित्तो पुण अज्झवसाओ उ दइवोत्ति ।।” (उप.प.३५१) व्याख्या- 'अथवेति पक्षान्तरद्योतनार्थः। अल्पं = तुच्छं कर्म = दैवं पुरुषकारापेक्षया हेतुर्निमित्तं फलसिद्धौ यत्र स तथाविधो व्यवसायः = पुरुषप्रयत्नो भवति पुरुषकार इति। बहु = प्रभूतं पुरुषकारमाश्रित्य कर्म निमित्तं यत्र स पुनरध्यवसायः (इह नोऽल्पार्थत्वादल्पो व्यवसायः?) पुनर्दैवमिति। यत्र हि कार्यसिद्धावल्पः कर्मणो भावो बहुश्च पुरुषप्रयासस्तत्कार्यं पुरुषकारसाध्यमुच्यते। यत्र पुनरेतद्विपर्ययस्तत्कर्मकृतमिति । पूर्वगाथायामल्पप्रयाससाहाय्येन फलमुपनयमानं कर्म दैवमुपदिष्टं विपर्ययेण पुरुषकारः, इह तु पुरुषकार एवाल्पकर्मसाहाय्योपेतः पुरुषकारः प्रज्ञप्तो बहुकर्मसाहाय्योपगृहीतस्तु स एव पुरुषकारोऽदृष्टमित्यनयोः प्रज्ञापनयोर्भेदः (उप.प.३५१) इति । यद्वा योगबिन्दुवृत्तिकृद्दर्शितरीत्या (यो.बि.३३८) बाध्यत्वं गौणत्वं बाधकत्वं च मुख्यत्वमित्यवधेयम् ।
एतद्वयं = निरुक्तगौणत्व-मुख्यत्वद्वितयं प्रत्येकजन्यत्वव्यपदेशे = दैवकृतत्वव्यवहारे पुरुषकारकार्यत्वव्यवहृतौ च नियामकम् । अनुत्कटपुरुषकारोत्कटदैवजन्यपदार्थे 'अयं दैवकृतः' इति व्यवहारे पुरुषકરતાં બળવાન હોવાથી પ્રાણીઓમાં મુખ્ય ગણાય છે, ગૌણ નહિ,) તથા મુખ્યત્વ એટલે ઉત્કટતા. આ અનુત્કટતા અને ઉત્કટતા જ કાર્યમાં પ્રત્યેકજન્યતાના = ભાગ્ય-પુરુષાર્થજન્યતાના વ્યવહારનું નિયામક છે. (અર્થાત્ જે કાર્ય પ્રત્યે ભાગ્ય મુખ્ય = ઉત્કટ કારણ તરીકે ભાગ ભજવે તે કાર્યમાં “આ કાર્ય ભાગ્યનિષ્પન્ન છે આવો વ્યવહાર થાય છે તથા જે કાર્ય પ્રત્યે પુરુષાર્થ મુખ્ય = ઉત્કટ હેતુસ્વરૂપે ભાગ ભજવે તે કાર્યમાં “આ કાર્ય પુરુષાર્થજન્ય છે. આ પ્રમાણે વ્યવહાર થાય છે. આમ એક-એક કારણથી ઉત્પન્ન થવાનો વ્યવહાર
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org