________________
११४०
• आगमवादविषयस्योत्तरकालं हेतुवादगोचरता • द्वात्रिंशिका-१६/२७ इत्थं हीति । इत्थं = उक्तदृष्टान्तेन हि शाब्दे ज्ञाने अस्पष्टता प्रोक्ता । तत्र = अस्पष्टे शाब्दज्ञाने माध्यस्थ्यनीतितो विचारणं युक्तं, तर्कस्य प्रमाणाऽनुग्राहकत्वात् तेनैवैदम्पर्यशुद्धेः । तस्याश्च स्पष्टताप्रायत्वात् । यद् = यस्माद् अदो = वक्ष्यमाणं व्यासोऽपि जगौ ।।२७।।
उक्तदृष्टान्तेन = चन्द्रोपरागोदाहरणेन शाब्दे = शास्त्रजन्ये ज्ञानेऽतीन्द्रियदेवतादिगोचरे अस्पष्टता = सर्वविशेषाऽनिर्णयत्वात्मिका प्रोक्ता । सुस्पष्टोऽतीन्द्रियात्माद्यर्थगोचरो निश्चयस्तु अनुभवज्ञानादेव ।
सम्मतञ्चेदं परेषामपि । अत एव पाशुपतब्रह्मोपनिषदि → विना तर्कप्रमाणाभ्यां ब्रह्म यो वेद वेद सः - (पा.ब्र.१६) इत्युक्तम् । प्रमाणपदेनात्र शब्दप्रमाणमवगन्तव्यम् । अत एव अस्पष्टे = यावद्विशेषगोचरनिश्चयात्मकताऽपेते अतीन्द्रियार्थगोचरे शाब्दज्ञाने माध्यस्थ्यनीतितः कदाग्रहेादित्यागपूर्वं गम्भीरबुद्ध्या विचारणं युक्तम् । यथोक्तं योगबिन्दौ → ग्रहं सर्वत्र सन्त्यज्य तद्गम्भीरेण चेतसा । शास्त्रगर्भः समालोच्यो ग्राह्यश्चेष्टार्थसङ्गतः ।। - (यो.बि.३१७) इति । तर्कस्य = आगमाऽबाधितोहनस्य परमतानुसारेण प्रमाणभिन्नत्वेऽपि प्रमाणानुग्राहकत्वात् = परोक्षप्रमाणाऽस्खलत्प्रवृत्तिसहायकत्वात्, प्रकृते शास्त्रप्रमाणगोचरातीन्द्रियार्थगतविशेषविषयकानुपपत्तिशङ्कादिनिराकरणद्वारा तदनुग्राहकत्वात् । तेनैव = सुतर्केणैव पदार्थ-वाक्यार्थ-महावाक्यार्थादिक्रमत ऐदम्पर्यशुद्धेः = आगमतात्पर्यार्थशुद्धिसम्भवात् ।
न चैवमागमवादादिव्यवस्थानुपपत्तिरिति शङ्कनीयम्, अतीन्द्रियेन्द्रियग्राह्ययोः पदार्थयोराद्यनिश्चयापेक्षयैव पार्थक्येणागमवाद- हेतुवादव्यवस्थाया इष्टत्वात् । तदुक्तं स्याद्वादकल्पलतायां → यद्यप्यतीन्द्रियार्थे पूर्वमागमस्य प्रमाणान्तराऽनधिगतवस्तुप्रतिपादकत्वेनाऽहेतुवादत्वं तथाप्यग्रे तदुपजीव्यप्रमाणप्रवृत्तौ हेतुवादत्वेऽपि न व्यवस्थानुपपत्तिः, आद्यदशापेक्षयैव व्यवस्थाभिधानात् - (शा. वा.स.२/२३ वृ.) इति । ततश्चाऽऽगमिकार्थेऽपि सद्युक्तिग्राह्यताऽनाविलैव । इत्थमेव यथावस्थितार्थपरिच्छेदोपपत्तेः, यतः सत्तर्कपरीक्षोत्तीर्णागमतात्पर्यार्थशुद्धेः = तस्याः स्पष्टताप्रायत्वात् = आगमिकार्थगोचरसमुपस्थिताशेषसंशयविपर्ययाऽनध्यवसायनिराकरणप्रयुक्तस्पष्टताविशेषोपेतत्वात् । इदमेवाभिप्रेत्य अध्यात्मोपनिषदि → आगमश्चोपपत्तिश्च सम्पूर्ण दृष्टिलक्षणम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये ।। (अ.उप.१/९) इत्युक्तं ग्रन्थकृतैव । इत्थञ्च विशेषविमर्शक्षमेण परीक्ष्य हेमवद् देवताविशेषादिर्ग्राह्य इति फलितम् । तदुक्तं लोकतत्त्वनिर्णये अपि → आगमेन च युक्त्या च योऽर्थः समभिगम्यते । परीक्ष्य हेमवद् ग्राह्यः पक्षपाताऽऽग्रहेण किम् ? ।। 6 (लो.त.नि.१/१८) इति प्रागुक्तं(भा.१/पृ.२१४)स्मर्तव्यमत्र ।
છે તર્ક દ્વારા શાસ્ત્રબોધની શુદ્ધિ ટીકાર્થ:- ઉપર જણાવેલ ચંદ્રગ્રહણબોધ સ્વરૂપ ઉદાહરણ દ્વારા ખરેખર શાસ્ત્રજ્ઞાનમાં = શાબ્દબોધમાં અસ્પષ્ટતા કહેવાયેલી છે. અસ્પષ્ટ એવા શબ્દબોધમાં મધ્યસ્થ ભાવથી ન્યાયસંગત રીતે વિચારણા-મીમાંસા કરવી એ પણ યોગ્ય જ છે. કારણ કે તર્ક = યુક્તિ તો પ્રમાણઅનુગ્રાહક છે, પ્રમાણના કાર્યમાં સહાય કરનાર છે. સુયોગ્ય યુક્તિ દ્વારા જ શાસ્ત્રના ઐદંપર્યની શુદ્ધિ થાય છે. શાસ્ત્રીય ઐદંપર્યની શુદ્ધિ પ્રાયઃ સ્પષ્ટ હોય છે. કારણ કે વ્યાસ મહર્ષિએ પણ કહેલ છે કે આ વાત આગળના શ્લોકમાં બતાવવામાં આવશે.](૧૬/૨૭)
વિશેષાર્થ :- એકલો તર્ક આંધળો છે અને અતીન્દ્રિય પદાર્થને સર્વજ્ઞની જેમ જોવા દેખાડવા માટે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org