________________
११३५
• तर्कद्वैविध्योपदर्शनम् • विशिष्टनिर्जराहेतुरिति न सर्वथा तद्वैफल्यमित्यभिप्रायवानाहआस्थितं चैतदाचार्यंस्त्याज्ये कुचितिकाग्रहे' । शास्त्राऽनुसारिणस्तर्कान्नामभेदाऽनुपग्रहात् ।।२४।।
आस्थितं चेति । एतच्च = कालातीतमतं आचार्यः = श्रीहरिभद्रसूरिभिः आस्थितं = अङ्गीकृतं, कुचितिकाग्रहे = कौटिल्याऽऽवेशे त्याज्ये = परिहार्ये कुचितिकात्यागार्थमित्यर्थः । शास्त्रा-नुसारिणः तर्कात् अर्थसिद्धौ सत्यामिति गम्यं, नामभेदस्य = संज्ञाविशेषस्य अनुपग्रहात् = अनभिनिवेशात् (=नामभेदानुपग्रहात्) । तत्त्वार्थसिद्धौ नाममात्रक्लेशो हि योगप्रतिपन्थी, न तु धर्मवादेन विशेषविमर्शोऽपीति भावः । तदिदमुक्तं → जीवनौषधतुल्यत्वाद् विशिष्टनिर्जराहेतुः = सानुबन्धसकामप्रभूतकर्मनिर्जराकारणं इति न सर्वथा = सर्वैरेव प्रकारैः सर्वेषां प्रति तद्वैफल्यं = देवादिगतविशेषगोचरमीमांसानैष्फल्यम्- इत्यभिप्रायवान् ग्रन्थकार आह आस्थितमिति । → आगमस्याऽविरोधेन ऊहनं तर्क उच्यते - (अ.ना.१७) इति अमृतनादोपनिषदनुसारेण 'शास्त्रानुसारिण' इति तर्कस्य स्वरूपविशेषणम्, न तु व्यावर्तकविशेषणम् । → उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानं = ऊहः - (प्र.मी.२/५) इति प्रमाणमीमांसासूत्रानुसारेण तु शास्त्रानुसारित्वं तर्कस्य व्यावर्तकं विशेषणमिति यथातन्त्रमवधेयम् । शास्त्रानुसारितर्कात् तत्त्वार्थसिद्धौ = मोक्षौपयिकपरमार्थप्रसिद्धौ सत्यां नाममात्रक्लेशः केवलाभिधानविशेषाभिनिवेशो हि योगप्रतिपन्थी = वक्ष्यमाणाध्यात्मादियोगप्रतिबन्धकः, न तु → यत एकं न सत्यार्थं किन्तु सर्वं यथाश्रुतम् । यत्राऽऽगमे प्रमाणं स इष्यते पण्डितैर्जनैः ।। आत्मा नामी पृथक् कर्म तत्संयोगोद्भवोऽन्यथा । मुक्तिहिँसादयो मुख्यास्तन्निवृत्तिः ससाधना।। अतीन्द्रियार्थसंवादो विशुद्धो भावनाविधिः । यत्रेदं युज्यते सर्वं योगिव्यक्तः स आगमः ।।
6 (शा.वा.स. १०/६०-६१-६२) इति शास्त्रवार्तासमुच्चयदर्शितलक्षणं आगमं मध्यस्थधियाऽवलम्ब्य धर्मवादेन प्राग्व्यावर्णितस्वरूपेण (द्वा.द्वा.८/४ भाग-२ पृ.५४७) क्रियमाणो विशेषविमर्शोऽपि = परमोपास्यादिगतविशेषगोचरसूक्ष्मविचारोऽपि योगप्रतिपन्थी इति भावः। છે- એવું સિદ્ધ થાય છે. આમ મધ્યસ્થ પ્રાજ્ઞ સાધકો માટે વિશેષવિચારવિમર્શ સફળ-સાર્થક હોવાથી દેવાદિગત વિશેષતા માટે થતી મીમાંસા સર્વથા નિષ્ફળ નથી- એમ સિદ્ધ થાય છે. આવા અભિપ્રાયથી ગ્રંથકારશ્રી જણાવે છે કે
ગાથાર્થ - કદાગ્રહનો આવેશ ત્યાગ કરવાનો હોય તેવા અવસરે ઉપરોક્ત કાલાતીતમત શ્રીહરિભદ્રસૂરિજીએ માન્ય કરેલ છે. કારણ કે શાસ્ત્રાનુસારી તર્કથી પદાર્થસિદ્ધિ થવામાં નામભેદનો આગ્રહ છૂટી જાય છે.(૧૬/૨૪)
ટીકાર્ય - કુટિલતાનો-કદાગ્રહનો આવેશ છોડાવવા માટે કાલાતીતમત શ્રીહરિભદ્રસૂરિજીએ સ્વીકારેલ છે. કારણ કે શાસ્ત્રાનુસારી તર્કથી વસ્તુની સિદ્ધિ થતી હોય ત્યારે નામભેદનો = ચોક્કસ પ્રકારના નામનો આગ્રહ છૂટી જાય છે. સુતર્કદિ દ્વારા પદાર્થની - પરમાર્થની સિદ્ધિ થતી હોય ત્યારે કેવળ ચોક્કસ પ્રકારના નામનો આગ્રહ રાખવો એ યોગસાધનાનો વિરોધી છે. પરંતુ ધર્મવાદથી મધ્યસ્થ વિચારવિમર્શ કરવામાં કાંઈ યોગમાર્ગનો વિરોધ થતો નથી. એવો આશય શ્રીહરિભદ્રસૂરિજીનો છે.
१. हस्तादर्श '..चितविग्रहे' इत्यशुद्धः पाठः । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org