________________
११३०
सर्वदर्शनेषु कर्माभ्युपगतम् •
द्वात्रिंशिका-१६/२१
भवकारणं = संसारहेतुः, ततः = तस्मादविद्यादीनां भवकारणत्वाद्धेतोः प्रधानमेवैतद् = अस्मदभ्युपगतं भवकारणं सत् संज्ञाभेदं नामनानात्वं उपागतम् ॥ २१ ॥
=
•
या बुद्धिः सा चाऽविद्येति भण्यते ← (ते. बिं. ५ / ९४ ) इति तेजोबिन्दूपनिषदि → अभिमानः आत्मनो बन्धः, तन्निवृत्तिः = मोक्षः, तदभिमानं कारयति या साऽविद्या ← ( स.सा. १ ) इति सर्वसारोपनिषदि च अविद्यापदेन प्रधानमेव संसारकारणीभूतमुक्तम् । क्लेशः साङ्ख्यानां, धर्माऽधर्म - दिदृक्षा अपि तेषामेव । अनादिक्लेशरूपा कर्माऽविद्या-संस्काराऽपराभिधाना वासना सौगतानां, कम्मना वत्तती लोको ← (सु.नि. ३ | ३५ | ६१ ) इति पूर्वोक्त (पृ. ११०८) सुत्तनिपातवचनात् अविज्जाय निव्वुतो लोको ← (चु.नि.पा. २ ।१ ।२) इति चुल्लनिद्देसपालिवचनात्, अनुपदमेव वक्ष्यमाणशास्त्रवार्तासमुच्चय (१/१०७) वचनाच्च । पाशः शैवानां, भवबीजमपि तेषामेव तथा क्षुरिकोपनिषदि पाशं छित्त्वा यथा हंसो निर्विशङ्कः खमुत्क्रमेत् । छिन्नपाशस्तथा जीवः संसारं तरते तदा ।। ← ( क्षुरि. २०) इत्युक्त्या पाशपदेन भवकारणीभूतं तत्त्वं कर्माद्यपराभिधानमुपदर्शितम् ।
यथोक्तं योगबिन्दौ दिदृक्षा- भवबीजादिशब्दवाच्या तथा तथा । इष्टा चान्यैरपि ह्येषा मुक्तिमार्गावलम्बिभिः।। ← (यो.बिं. १६९) एषा = कर्मबन्धयोग्यता । शिष्टं स्पष्टम् । यथोक्तं द्वितीयविंशिकायामपि → एवं चेव दिदिक्खा भवबीजं वासणा अविज्जा य । सहजमलसद्दवच्चं वन्निज्जइ मुक्खवाईहिं । । ← (वि.वि. २/१६ ) इति । प्रकृति-मायादिकमपि भवकारणस्यैव नामान्तरम् । तदुक्तं महोपनिषदि → क्वचित् प्रकृतिरित्युक्तं क्वचिन्मायेति कल्पितम् । क्वचिन्मलमिति प्रोक्तं क्वचित् कर्मेति तत्स्मृतम्।। (महो.५/१३१) इति । एवमेव वैशेषिकोक्तं अदृष्टं, सुगतोक्तः संस्कारः, वेदवादिनिरूपिते पुण्यापुण्ये, गणकाख्याते च शुभाशुभे अपि तस्यैव पर्यायाः । यथोक्तं शास्त्रवार्तासमुच्चये उपमितिभवप्रपञ्चायां कथायाञ्च अदृष्टं कर्म संस्कारः पुण्यापुण्ये शुभाशुभे । धर्माधर्मौ तथा पाशः पर्यायास्तस्य कीर्तिताः । । (शा.वा.१/१०७, उप.भ.प्र.८/८७६) इति ।
इदमेवोपजीव्य ग्रन्थकृताऽपि वैराग्यकल्पलतायां अदृष्टं कर्म संस्कारः पुण्यापुण्ये शुभाशुभे । धर्माधर्मी तथा पाशः पर्यायाः सुकृताश्रयाः ।। ← (वै.क.ल. ९/१०६६) इत्युक्तम् । दैव-विधि - बीजक्लेशाऽतिशय-शक्त्यादयोऽपि तस्यैव पर्यायाः । ' अविद्या च दिदृक्षा च भवबीजञ्च वासना । सहजञ्च मलञ्चेति पर्यायाः कर्मणः स्मृताः ।। ( अ.उप. ३/२३) इति अध्यात्मोपनिषत्कारिकाप्यत्राऽनुसन्धेया । → अदृष्टं हरिरिच्छा च सत्तावद् विश्वभ्रामकम् । ब्रह्मा विष्णुर्महेशाद्या अनेके कर्मपर्ययाः ।। ← (महा.गी. १५ / ६८) इति महावीरगीतावचनमपि यथातन्त्रमनुयोज्यम् ।
एवमेव भाग्य- पुण्यादयोऽपि तस्यैव पर्यायाः, तदुक्तं भाग्यानि पुण्यानि यमः कृतान्तः पर्यायनामानि पुराकृतस्य ← ( ) इति । चकारो वक्तव्यान्तरसूचनार्थः । वक्तव्यान्तरता चात्र मुक्तितत्साधनाऽहिंसाद्यपेक्षया ज्ञातव्या । यस्माद् भवकारणमविद्यादयः । तस्माद् = अविद्यादीनां भवकारणत्वाद् हेतोः प्रधानमेव प्रकृत्यपराभिधानं एतद् = अविद्यादिकं अस्मदभ्युपगतं प्रकृते कालातीताङ्गीकृतं છે તે તત્ત્વ જે કારણસર સંસારનો હેતુ છે તેથી અમે (= કાલાતીતે) સંસારકારણ તરીકે સ્વીકારેલ પ્રધાનરૂપ - પ્રકૃતિતત્ત્વ સ્વરૂપ જ તે છે. ફક્ત વિવિધ દર્શનોમાં તે અલગ અલગ નામને પામેલ છે.(૧૬/૨૧)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
=