________________
• स्तोतव्यनिमित्तकः स्तोत्रफललाभः .
११२१ रित्याशङ्कायां विषयविशेषपक्षपातेनैव समाधानाऽभिप्रायवानाहमाध्यस्थ्यमवलम्ब्यैव देवताऽतिशयस्य च । सेवा सर्वैर्बुधैरिष्टा' कालातीतोऽपि यज्जगौ ॥१६॥
माध्यस्थ्यमिति । माध्यस्थ्यं = अनिर्णीतविशेषकलहाऽभिनिवेशाऽभावलक्षणं अवलम्ब्यैव देवतातिशयस्य च = विशिष्टदेवताऽऽख्यस्य च सेवा स्तवन-ध्यान-पूजनादिरूपा सर्वैर्बुधैः इष्टा = तन्निमित्तकफलाऽर्थत्वेनाऽभिमता । स्तवनादिक्रियायाः स्वकर्तृकायाः फलदानसमर्थत्वेऽपि स्तवनीयाद्यालम्बनत्वेन तस्याः स्तोत्रादेः फललाभस्य स्तोतव्यादिनिमित्तकत्वव्यवहारात् ।
विषयविशेषपक्षपातेनैव = वक्ष्यमाणरीत्या (द्वा.द्वा.१६।१८ पृ.११२३) ज्ञानादिप्रकृष्टगुणस्वभावादिलक्षणो यो जपादिविषयभूतेश्वरगतविशेष ऐश्वर्यपदप्रतिपाद्यः तदन्यदेवाऽवृत्तिः तदवलम्बनेनैव समाधानाभिप्रायवान् = तदाज्ञापालनात्मकाऽऽर्थव्यापारप्रयुक्ततदनुग्रहानुपपत्तिपरिहाराशयवान् ग्रन्थकार आह ‘माध्यस्थ्यमिति । अनिर्णीतविशेषकलहाभिनिवेशाभावलक्षणं = न निर्णीत एकान्तनित्यत्वादिलक्षणो विशेषो यस्य स तथा, तस्मिन् ‘ममैव देवो देवः स्यान्न जातु तवे'त्यादिलक्षणो यो कलहः ‘स सर्वथाऽपरिणाम्येव' इत्यादिरूपश्च योऽभिनिवेशस्तयोर्विरहात्मकं माध्यस्थ्यं अवलम्ब्यैव विशिष्टदेवताख्यस्य स्तवन-ध्यान-पूजनादिरूपा सेवा तन्निमित्तकफलाऽर्थत्वेन = विशिष्टदेवतानिमित्तकफलप्रयोजनकत्वेन रूपेण सर्वैः बुधैः अभिमता । __ननु निश्चयतः स्वगतफलं प्रति स्वकर्तृकक्रियाया एव कारणत्वनियमात् भगवत्स्तवनादिक्रियाजन्यफलं प्रति कथमीश्वरस्य निमित्तत्वमुच्यते तत्रभवद्भिः भवद्भिः ? इत्याशङ्कायां ग्रन्थकृदाह- स्तवनादिक्रियायाः स्वकर्तृकायाः फलदानसमर्थत्वेऽपि तस्याः = स्वकर्तृकेश्वरस्तवनादिक्रियायाः स्तवनीयाद्यालम्बनत्वेन = स्तवनीय-ध्येय-पूज्याद्यालम्बनकत्वेन तस्याः तत्स्वामिकत्वम् । ततश्च स्तवन-ध्यानादिक्रियायाः स्वनिरूपितजन्यतासम्बन्धेन स्तोतृ-ध्यात्रादिविशिष्टत्वेऽपि स्वनिष्ठालम्बनत्वाख्यविषयतानिरूपकत्वसम्बन्धेन स्तोतव्य-ध्यातव्यादिविशिष्टतया स्तोत्रादेः सकाशात् स्तोतृ-ध्यात्रादेः फललाभस्य स्तोतव्यादिनिमित्तकत्वव्यवहारात् = स्तोतव्य-ध्यातव्यादिजन्यत्वव्यवहारात् । न हि स्वनिष्ठाऽऽलम्बनत्वाख्यविषयतानिरूपकत्वપક્ષપાતથી જ આપવાનો અભિપ્રાય ગ્રંથકારશ્રી ધરાવે છે. વિષયગત વિશિષ્ટતાને તવિષયક સર્વોત્કૃષ્ટ જ્ઞાનાદિમત્ત્વ વગેરે રૂપે જણાવવાના અભિપ્રાયથી ગ્રંથકારશ્રી કહે છે કે
ગાથાર્થ :- માધ્યય્યનું અવલંબન કરીને જ વિશિષ્ટ દેવની એવી સેવા સર્વ પંડિતોને માન્ય છે. કારણ કે કાલાતીત પણ કહે છે કે જે કહે છે તે આગળના શ્લોકમાં જણાવાશે.] (૧૬/૧૬)
ટીકાર્થ:- જે વ્યક્તિના કે વસ્તુના વિશિષ્ટ સ્વરૂપ વગેરેનો નિશ્ચય ન થયેલ હોય તે બાબતમાં ન કોઈ ઝઘડો કરવો કે ન કોઈ કદાગ્રહ રાખવો તે મધ્યસ્થતા કહેવાય. આવી મધ્યસ્થતાનું આલંબન લઈને જ વિશિષ્ટ દેવતાની સ્તુતિ-સ્તવન-ધ્યાન-પૂજાદિ સ્વરૂપે સેવા તિિમત્તક-ફળદાયકત્વરૂપે સર્વ વિદ્વાનોને માન્ય છે. જો કે સ્તવનપાઠ વગેરે ક્રિયાને કર્તા = પાઠક પોતે જ કરે છે. બીજા કોઈ નહિ. પાઠક સ્વયં કહે છે એટલા માત્રથી જ તે સ્તોત્રપાઠાદિ ક્રિયા ઈષ્ટ ફળ દેવા માટે સમર્થ છે. તેમ છતાં સ્તોતવ્ય એવા ભગવાનના
१. 'दृष्टा' इति हस्तादर्शादौ पाठः । परं व्याख्यानुसारेणात्र 'रिष्टा' इति पाठः सम्यक् ।
२. हस्तादर्श '...लम्ब्यै दे' इत्युशुद्धः पाठः । ३. मुद्रितप्रतौ 'क्रियाः' इत्यशुद्धः पाठः । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org