________________
११०६
• ईश्वरस्य देहोपादामसङ्गतम् • द्वात्रिंशिका-१६/६ शास्त्रवार्तासमुच्चयविवरणे' ।।६।। रागादिदोसवसगो बंधति कम्मं किलिट्ठमच्चत्थं । तप्पच्चयं तयं पुण वेदेंतो सेसतुल्लो उ ।।
6 (धर्मसं.१७३-१७४-१७७) इति धर्मसङ्ग्रहणिवचनान्यपि स्मर्तव्यानि ।
एतेन → एको देवो नित्यलीलानुरक्तः - (राधो.४/९) इति राधोपनिषद्वचनमपि अप्रमाणतया सूचितम्, सरागे देवत्वबुद्धेरेव मिथ्यात्वादिति प्राक् (द्वा.द्वा.५/१९-भाग-२ पृ.३३३) प्रोक्तत्वात् । एतेन → अथैष ज्ञानमयेन तपसा चीयमानोऽकामयत 'बहु स्यां प्रजायेय' इति - (शां.३/१) इति शाण्डिल्योपनिषद्वचनमपि प्रत्यस्तम्, ज्ञानयोगात्मकस्य शुद्धतपस इच्छानाशकत्वाच्च । एतेन → स तपस्तप्त्वा इदं सर्वं असृजत - (तै.आ.८/६) इति तैत्तिरीयारण्यकवचनं, → एकाकी न रमते, स द्वितीयमैच्छत् - (बृ.आ.उप. १।४।३) इति बृहदारण्यकोपनिषद्वचनं, → प्राप्येते भोग-मोक्षौ हि स्थित्यन्ते मदनुग्रहात् 6 (बि.२८) इति बिल्वोपनिषदि कथितं शिववचनं, → जगत्कर्तुमकर्तुं वा चान्यथा कर्तुमीशते । यः स ईश्वर इत्युक्तः सर्वज्ञत्वादिभिर्गुणैः ।। - (स.रह.१७) इति च सरस्वतीरहस्योपनिषद्वचनं निरस्तम्, सर्वज्ञस्य परमाऽसङ्गभावनिमग्नतया जगत्कर्तृत्वाद्यसम्भवाच्च । → कर्मणा प्राप्यते स्वर्गः, सुखं दुखं च भारत ! (म.भा.स्त्रीपर्व.३/११) इति महाभारतवचनमपि भावनीयमत्र।।
यदपि पातञ्जलदर्शननिरूपणावसरे सर्वदर्शनसङ्ग्रहे → परमेश्वरः क्लेशकर्मविपाकाऽऽशयैरपरामृष्टः पुरुषः स्वेच्छया निर्माणकायमधिष्ठाय लौकिकवैदिकसम्प्रदायप्रवर्तकः संसाराङ्गारे तप्यमानानां प्राणभृतामनुग्राहकश्च । ननु पुष्करपलाशवन्निर्लेपस्य तस्य तप्यभावः कथमुपपद्यते येन परमेश्वरोऽनुग्राहकतया कक्षीक्रियत इति चेत् ? उच्यते, तापकस्य रजसः सत्त्वमेव तप्यं बुद्ध्यात्मना परिणतमिति सत्त्वे परितप्यमाने तदाऽऽरोपवशेन तदभेदावगाहिपुरुषोऽपि तप्यत इत्युच्यते - (सर्व.सं.पातं.द.१५/१५पृ.३३३) इत्युक्तं तदसत्, आरोपवशेन षण्ढे धेनुत्वाऽऽरोपेऽपि दुग्धदातृत्वाऽभाववत् केवलमतिसान्निध्यादिवशतः पुरुषे तप्तसत्त्वारोपेऽपि पारमार्थिकतप्तत्वाऽभावेनेश्वरे तदनुग्राहकत्वाऽयोगादित्यवधेयम् । ततश्च
→ उद्धरेयमिमान् सर्वान् यातनाशतसङ्घलान् । इति सञ्चिन्त्य भगवान् स्वच्छन्दोपात्तविग्रहः ।। - (पु.सं. ) इति नारदं प्रति सनत्कुमारेण पुरुषसंहितायां यदुक्तं तद् व्यर्थमेव भगवतो भ्रान्तत्वाऽऽपादकञ्च । ____ एवमेव → तापत्रयसमुद्भूतजन्म-मृत्यु-जरादिभिः । नानाविधानि दुःखानि जहार परमेश्वरः ।। - (शर.१४) इति शरभोपनिषद्वचनमपि वाङ्मात्रमेव, पुरुषस्य सर्वथैवाऽसङ्गत्वे दुःखापहारस्य कल्पनामात्रत्वात् । अत एव → पादनारायणो जगत्स्रष्टुं प्रकृतिमजनयत् + (मुद्ग.२/३) इति मुद्गलोपनिषઆ બાબતમાં વધુ ચર્ચા શાસ્ત્રવાર્તાસમુચ્ચયના સ્યાદ્વાદકલ્પલતા નામના વિવરણમાં ગ્રંથકારશ્રીએ કરેલી छ. ते पानी मला पाय वर्णन मह उरवामां आवे छे. (१६/९)
વિશેષાર્થ :- ઈશ્વરમાં જીવો ઉપર ઉપકાર = અનુગ્રહ કરવાનો સ્વભાવ એક સરખો હોય તો એકીસાથે તમામ જીવોને યોગસિદ્ધિ, મુક્તિ વગેરે ફળ મળી જાય. પરંતુ એવું હોતું નથી. માટે વ્યક્તિભેદે = આત્મભેદ ઈશ્વરમાં અનુગ્રાહકતા પણ વિભિન્ન પ્રકારની માનવી પડે. તે જ રીતે જે વ્યક્તિ ઉપર ઈશ્વરનો અનુગ્રહ થાય છે તે પણ ચોક્કસ સમયે થાય છે, ગમે ત્યારે નહિ. તેથી સમયભેદના આધારે १. हस्तादर्श 'शस्त्रवा...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org