________________
• ईश्वरक्रीडानिरसनम् •
११०५ किं च प्रयोजनाऽभावादपि नेश्वरो जगत् कुरुते । न च परमकारुणिकत्वाद् भूताऽनुग्रह एवाऽस्य प्रयोजनमिति भोजस्य वचनं साम्प्रतम्, इत्थं हि सर्वस्याऽयमिष्टमेव सम्पादयेदित्यधिकं एतेनाऽधर्मकारिणं तत्फलतया नरकादिकमनुभावयति भगवानीश्वर इति निरस्तम्, तस्य प्रथमत एव पापप्रवृत्तिप्रतिरोधसमर्थत्वे प्राणिनां पापप्रवृत्त्यसम्भवात्, सम्भवे वा तदप्रतिबन्धतः तस्यैव तत्कारकत्वाऽऽपातात् । एतेन पापविमोक्षार्थं नरकप्रपातनकल्पनाऽपि प्रत्यस्ता, न हि माध्यस्थ्यमवलम्बमानाः परमकरुणापरितचेतसः प्रेक्षावन्तो निरर्थके परपीडाहेतौ कर्मणि प्रवर्तन्ते । क्रीडार्था भगवतः तथा प्रवृत्तिरिति चेत् ? यद्येवं तर्हि कथमसौ प्रेक्षावान् ? तस्य हि प्रवर्तने क्रीडामात्रमेव फलम्, ते पुनः प्राणिनः स्थाने स्थाने प्राणैर्वियुज्यन्ते (पृ.२२०) इति व्यक्तमुक्तं मलयगिरिसूरीश्वरैः नन्दिसूत्रवृत्तौ ।
एतेन → असौ प्रतिसृत्वरेण समः समेव क्रीडेदेवं हैष सङ्क्रीडति - (छाग.८/२) इति छागलेयोपनिषद्वचनं → यः स्वयं सृष्टमात्मना गुप्तमनुसंदितानमऽचरं चरन्तं स्वयं क्रीडं क्रीडयन् क्रीडान्तरमनुप्राविशत् + (पार.६/२) इति पारमात्मिकोपनिषद्वचनं, → मोदते भगवान् भूतैर्बालः क्रीडनकैरिव 6 (उत्त.रामा.) इति उत्तररामायणवचनं, → क्रीडते त्रिषु लोकेषु लीलया यत्र कुत्रचित् - (यो.शि.१/४३) इति योगशिखोपनिषद्वचनं, → सर्वज्ञेशो मायालेशसमन्वितो व्यष्टिदेहं प्रविश्य तया मोहितो जीवत्वमगमत् । शरीरत्रयतादात्म्यात् कर्तृत्व-भोक्तृत्वतामगमत् + (पै.१/९) इति पैङ्गलोपनिषद्वचनञ्च दुष्टमेवावसेयम्, सरागे देवत्वप्रकारिकाया मिथ्याबुद्धेर्जनकत्वात्, सर्वज्ञे क्रीडा-रागाद्यसम्भवाच्च । एतेन → ईश्वराज्ञया विराजो व्यष्टिदेहं प्रविश्य बुद्धिमधिष्ठाय विश्वत्वमगमत् + (पै.२/ १) इति पैङ्गलोपनिषद्वचनं, → पुरुषोत्तमसंज्ञस्य प्राक्तनस्य स्वधामनि। रतये रममाणस्य लीलासृष्टिरजायत ।। - (शां.सं.५/४/१/१८) इति च शाण्डिल्यसंहितावचनं निराकृतम्, सर्वज्ञे नानाजीवपीडाजनकवचनोदीरकत्वाऽयोगाच्च ।। __ किञ्च अप्रतिहतवैराग्योपेततया प्रयोजनाभावादपि = जगत्सर्जनसम्बन्धिस्वप्रयोजनविरहादपि नेश्वरो जगत् कुरुते = कुर्यात् । न च परमकारुणिकत्वाद् भूतानुग्रह एव अस्य = ईश्वरस्य प्रयोजनमिति भोजस्य राजमार्तण्डकृतः (रा.मा. १/२५ पृ.३१) वचनमपि साम्प्रतं = योग्यम्, इत्थं हि = परमकरुणयैवेशस्य प्रवर्तने सर्वस्य जीवस्य अयं = ईश्वरः इष्टमेव सम्पादयेत्, न तु नरकगमनादिकम्, अन्यथा भवदीयेश्वरस्य प्राकृतजनतुल्यतापत्तेः । प्रकृते → मज्झत्थो च किमत्थं चित्ते इस्सरियमादिभेदेणं । सत्ते कुणतित्ति सिया कीडत्थमसंगया सा वि ।। जं रागादिविजुत्तो सा नु सरागस्स दीसती सोऽवि । रागादिजुत्तो त्ति मती ण सेसकत्ता तदन्नोव्व ।।
@ જગતસર્જનમાં ઈશ્વરીય પ્રયોજન નથી જ किञ्च. । तथा जी0 मे पात मे
छ तना सर्थनमा श्वरने प्रयो४ ५९॥ नथी.. નિપ્રયોજન તો કોઈ પ્રાજ્ઞ પુરુષ કશું પણ કરે નહિ. “પરમ કાણિક હોવાથી જીવો ઉપર અનુગ્રહ કરવો એ જ જગતસર્જનની પાછળ ઈશ્વરનું પ્રયોજન છે.” આવું રાજમાર્તડકાર ભોજરાજર્ષિનું વચન પણ યોગ્ય નથી. કારણ કે આવું હોય તો ઈશ્વર કાયમ બધા જીવોને પસંદ હોય તેવું જ કાર્ય કરે અને તેવું માનવામાં આવે તો નરક, દુઃખ, ઘડપણ વગેરેનું સર્જન ઈશ્વર ક્યારેય પણ કરે જ નહિ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org